२२

मूलम् (संयुक्तम्)

एका॑दश प्रा॒तर्ग॒व्याᳶ प॒शव॒ आ ल॑भ्यन्ते छग॒लᳵ क॒ल्माष॑ᳵ किकिदी॒विर्वि॑दी॒गय॒स्ते त्वा॒ष्ट्रास्सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्त्याग्ने॒य ऐ॑न्द्रा॒ग्न आ॑श्वि॒नस्ते वि॑शालयू॒प आ ल॑भ्यन्ते ॥ [53]

विश्वास-प्रस्तुतिः

एका॑दश प्रा॒तर्ग॒व्याᳶ प॒शव॒ आ ल॑भ्यन्ते, छग॒लᳵ क॒ल्माष॑ᳵ किकिदी॒विर्वि॑दी॒गय॒स् ते त्वा॒ष्ट्राः ।

सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्ति ।

आ॒ग्ने॒य ऐ॑न्द्रा॒ग्न आ॑श्वि॒नस् ते वि॑शालयू॒प आ ल॑भ्यन्ते ॥ [53]

मूलम्

भट्टभास्कर-टीका

1एकादशेत्यादि ॥ उत्तमेऽहनि प्रातरालभ्यन्ते ‘प्राजापत्या भवन्ति’ इति ब्राह्मणम् । प्राजापत्या वैश्वदेवा इति केचित् । गोरपत्यानि गव्याः सर्वत्र ‘गोरजादिप्रसङ्गे’ इति यत्, ‘यतो नावः’ इति व्यत्ययेन प्रवर्तते । छगलादयश्चत्वारः । पशवोस्मिन्नहन्यालभ्यन्ते त्वाष्ट्राः । छगलः छागिकः । कल्माषः कल्माषवर्णः । किकिदीविः … … सदृश इत्यन्ये । श्वेतवशा नव अनूबन्ध्या भवन्ति सौर्यः । उक्तं पूर्वसवर्णदीर्घत्वम् । आग्नेयादयस्त्रयो विशालयूपे मध्यम आलम्यन्ते । विशालशृङ्गो यूपो विशालयूपः । ‘वेश्शालच्छङ्कटचौ’ ॥

इति पञ्चमे षष्ठे द्वाविंशोनुवाकः ॥