मूलम् (संयुक्तम्)
सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॑विन्द्रा॒ग्निभ्या॑मोजो॒दाभ्या॒मुष्टा॑राविन्द्रा॒ग्निभ्या॑म्बल॒दाभ्याँ॑ सीरवा॒हाववी॒ द्वे धे॒नू भौ॒मी दि॒ग्भ्यो वड॑बे॒ द्वे धे॒नू भौ॒मी वै॑रा॒जी पु॑रु॒षी द्वे धे॒नू भौ॒मी वा॒यव॑ आरोहणवा॒हाव॑न॒ड्वाहौ॑ वारु॒णी कृ॒ष्णे व॒शे अ॑रा॒ड्यौ॑ दि॒व्यावृ॑ष॒भौ प॑रिम॒रौ ॥ [52]
विश्वास-प्रस्तुतिः
सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहौ॑ ।
इ॒न्द्रा॒ग्निभ्या॑म् - ओजो॒दाभ्या॒मुष्टा॑रौ ।
इन्द्रा॒ग्निभ्या॑म् - बल॒दाभ्याँ॑ सीरवा॒हाववी॑ ।
द्वे धे॒नू भौ॒मी ।
दि॒ग्भ्यो वड॑बे ।
द्वे धे॒नू भौ॒मी ।
वै॒रा॒जी पु॑रु॒षी ।
द्वे धे॒नू भौ॒मी ।
वा॒यव॑ आरोहणवा॒हाव॑न॒ड्वाहौ॑ ।
वा॒रु॒णी कृ॒ष्णे व॒शे ।
अ॒राड्यौ॑ दि॒व्याव् - ऋ॑ष॒भौ प॑रिम॒रौ ॥ [52]
मूलम्
सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहौ॑ ।
इ॒न्द्रा॒ग्निभ्या॑म् - ओजो॒दाभ्या॒मुष्टा॑रौ ।
इन्द्रा॒ग्निभ्या॑म् - बल॒दाभ्याँ॑ सीरवा॒हाववी॑ ।
द्वे धे॒नू भौ॒मी ।
दि॒ग्भ्यो वड॑बे ।
द्वे धे॒नू भौ॒मी ।
वै॒रा॒जी पु॑रु॒षी ।
द्वे धे॒नू भौ॒मी ।
वा॒यव॑ आरोहणवा॒हाव॑न॒ड्वाहौ॑ ।
वा॒रु॒णी कृ॒ष्णे व॒शे ।
अ॒राड्यौ॑ दि॒व्याव् - ऋ॑ष॒भौ प॑रिम॒रौ ॥ [52]
भट्टभास्कर-टीका
1सोमाय स्वराज्ञेऽनोवाहावनड्वाहौ ॥ शकटस्य वोढारो पुङ्गवौ । इन्द्राग्निभ्यां ओजोदाभ्यां उष्टारौ प्रासङ्गस्य वोढारौ अनड्वाहौ । इन्द्राग्निभ्यां बलदाभ्यां सीरवाहौ हलस्य वोढारौ अनड्वाहौ । इन्दाग्निशब्दे ‘देवताद्वन्द्वे च’ इति प्राप्तस्य युगपत्प्रकृतिस्वरस्य ‘नोत्तरपदेऽनुदात्तादौ’ इनि प्रतिषेधः । अवी द्वे धेनू भौमी भूमिदेवत्ये । पूर्ववत् सवर्णदीर्घत्वम् । इन्द्राग्निभ्यामेवावी इति केचित् । दिग्भ्यो वडवे अश्वस्त्रियौ द्वे भौमी भौम्ये गते । वैराजी विरड्देवत्ये पुरुषी मनुष्यस्त्रियौ । जातिलक्षणो ङीप् । पूर्वत्र उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । पुनर्धेनू भौमी गते । वायव आरोहणवाहौ मनुष्यादेवारोहणादेः वोढारौ । तत एवाण् । कृष्णे वशे वारुण्यौ गते । अराड्यौ दिव्यौ वृषभौ अराड्यौ दीर्घोच्छ्रितशृङ्गौ । दिव्यौ द्युदेवत्यौ । वृषभौ सेक्तारौ । परिमरौ परिमर्तारौ ययोः द्वयोः मृतानुजौ मृतपूर्व- जौ चोच्येते । ‘परेरभितो भाविमण्डलं’ इत्युत्तरपदान्तोदात्तत्वम् ॥
इति पञ्चमे षष्ठे एकविंशोनुवाकः ॥