२०

मूलम् (संयुक्तम्)

वा॒रु॒णास्त्रय॑ᳵ कृ॒ष्णल॑लामा॒ वरु॑णाय॒ राज्ञे॒ त्रयो॒ रोहि॑तोललामा॒ वरु॑णाय रि॒शाद॑से॒ त्रयो॑ऽरु॒णल॑लामाश्शि॒ल्पास्त्रयो॑ वैश्वदे॒वास्त्रय॒ᳶ पृश्ञ॑यस्सर्वदेव॒त्या॑ ऐन्द्रासू॒राश्श्येत॑ललामास्तूप॒राः ॥ [51]

विश्वास-प्रस्तुतिः

वा॒रु॒णास् त्रय॑ᳵ कृ॒ष्णल॑लामाः ।
वरु॑णाय॒ राज्ञे॒ त्रयो॒ रोहि॑तललामाः ।
वरु॑णाय रि॒शाद॑से॒ त्रयो॑ऽरु॒णल॑लामाः ।
शि॒ल्पास्त्रयो॑ वैश्वदे॒वाः ।
त्रय॒ᳶ पृश्ञ॑यस् सर्वदेव॒त्याः॑ ।
ऐ॒न्द्रा॒सू॒राश् श्येत॑ललामास् तूप॒राः ॥ [51]

मूलम्

वा॒रु॒णास् त्रय॑ᳵ कृ॒ष्णल॑लामाः ।
वरु॑णाय॒ राज्ञे॒ त्रयो॒ रोहि॑तललामाः ।
वरु॑णाय रि॒शाद॑से॒ त्रयो॑ऽरु॒णल॑लामाः ।
शि॒ल्पास्त्रयो॑ वैश्वदे॒वाः ।
त्रय॒ᳶ पृश्ञ॑यस् सर्वदेव॒त्याः॑ ।
ऐ॒न्द्रा॒सू॒राश् श्येत॑ललामास् तूप॒राः ॥ [51]

भट्टभास्कर-टीका

1वारुणास्त्रयः कृष्णललामाः गताः । वरुणाय राज्ञे त्रयो रोहिललामाः । । राजत्वमस्य विशेषः । वरुणाय रिशादसे त्रयोऽरुणललामाः रिशादस्त्वमस्येति विशेषः । रिशादसः लोकहिंसकानां रक्ताङ्गानां नाशयिता रिशादसाः । ‘गतिकारकयोरपि’ इत्यसुन्, पूर्वपदप्रकृतिस्वरत्वं च शिल्पाः । त्रयो वैश्वदेवाः गताः । त्रयः पृश्नयः सर्वदेवत्याः । सर्वदेवशब्दात् ‘देवतान्तात्तादर्थ्ये यत्’ श्वेतललामाः त्रयस्तूपरा ऐन्द्रासूराः । ‘सूर्यतिष्य’ इति यलोपः ॥

इति पञ्चमे षष्ठे विंशोनुवाकः ॥