मूलम् (संयुक्तम्)
सौ॒म्यास्त्रयᳶ॑ पि॒शङ्गा॒स्सोमा॑य॒ राज्ञे॒ त्रय॑स्सा॒रङ्गाः॑ पार्ज॒न्या नभो॑रूपास्ति॒स्रो॑ऽजा म॒ल्हा इ॑न्द्रा॒ण्यै ति॒स्रो मे॒ष्य॑ आदि॒त्या द्या॑वापृथि॒व्या॑ मा॒लङ्गा॑स्तूप॒राः ॥ [50]
विश्वास-प्रस्तुतिः
सौ॒म्यास्त्रयᳶ॑ पि॒शङ्गाः॑ ।
सोमा॑य॒ राज्ञे॒ त्रय॑स् सा॒रङ्गाः॑ ।
पा॒र्ज॒न्या नभो॑रूपाः ।
ति॒स्रो॑ऽजा म॒ल्हा इ॑न्द्रा॒ण्यै ।
ति॒स्रो मे॒ष्य॑ आदि॒त्याः ।
द्या॒वा॒पृ॒थि॒व्या॑ मा॒लङ्गा॑स् तूप॒राः ॥ [50]
मूलम्
सौ॒म्यास्त्रयᳶ॑ पि॒शङ्गाः॑ ।
सोमा॑य॒ राज्ञे॒ त्रय॑स् सा॒रङ्गाः॑ ।
पा॒र्ज॒न्या नभो॑रूपाः ।
ति॒स्रो॑ऽजा म॒ल्हा इ॑न्द्रा॒ण्यै ।
ति॒स्रो मे॒ष्य॑ आदि॒त्याः ।
द्या॒वा॒पृ॒थि॒व्या॑ मा॒लङ्गा॑स् तूप॒राः ॥ [50]
भट्टभास्कर-टीका
1सौम्यास्त्रयः पिशङ्गाः गोरोचनवर्णाः । पर्जन्यादयस्त्रयो नभोरूपाः अञ्जनवर्णास्तिस्नोऽजा इन्द्राण्यै मल्हाः कण्ठावलम्बितस्तनयुग्मास्तिस्रः इन्द्राण्यै । तिस्रो मेष्यः आदित्याः । मेषवर्णा इत्येके । द्यावापृथिव्यास्त्रयो मालङ्गाः महाकायाः ॥
इति पञ्चमे पष्ठे एकोनविंशोनुवाकः ॥