मूलम् (संयुक्तम्)
अदि॑त्यै॒ त्रयो॑ रोहितै॒ता इ॑न्द्रा॒ण्यै त्रय॑ᳵ कृष्णै॒ताᳵ कु॒ह्वै॑ त्रयो॑ऽरुणै॒तास्ति॒स्रो धे॒नवो॑ रा॒कायै॒ त्रयो॑ऽन॒ड्वाह॑स्सिनीवा॒ल्या आ॑ग्नावैष्ण॒वा रोहि॑तललामास्तूप॒राः ॥ [49]
विश्वास-प्रस्तुतिः
अदि॑त्यै॒ त्रयो॑ रोहितै॒ताः ।
इ॒न्द्रा॒ण्यै त्रय॑ᳵ कृष्णै॒ताः ।
कु॒ह्वै॑ त्रयो॑ऽरुणै॒ताः ।
ति॒स्रो धे॒नवो॑ रा॒कायै॑ ।
त्रयो॑ऽन॒ड्वाह॑स् सिनीवा॒ल्यै ।
आ॒ग्ना॒वै॒ष्ण॒वा रोहि॑तललामास्तूप॒राः ॥ [49]
मूलम्
अदि॑त्यै॒ त्रयो॑ रोहितै॒ताः ।
इ॒न्द्रा॒ण्यै त्रय॑ᳵ कृष्णै॒ताः ।
कु॒ह्वै॑ त्रयो॑ऽरुणै॒ताः ।
ति॒स्रो धे॒नवो॑ रा॒कायै॑ ।
त्रयो॑ऽन॒ड्वाह॑स् सिनीवा॒ल्यै ।
आ॒ग्ना॒वै॒ष्ण॒वा रोहि॑तललामास्तूप॒राः ॥ [49]
भट्टभास्कर-टीका
1अदित्यै त्रयो रोहितैताः ॥ रोहिताश्च ते एताश्चेति रोहितैताः । ‘वर्णो वर्णेन’ इति समासः । ‘अनेतः’ इति प्रतिषेधात् पूर्वपदप्रकृतिस्वराभाव उक्तः । इन्द्राण्यै त्रयः कृष्णैताः । तावेव स्वरसमासौ । कुह्वै त्रयोऽरुणैताः गताः । तिस्त्रो धेनवो राकायै धेनवः प्रत्यग्रप्रसवा गावः । त्रयोऽनड्वाहः सिनीवाल्यै । अनो वहन्तीत्यनड्वाहः अनोवहनसमर्थाः । पृषोदरादिः । लोहितललामाः त्रयस्तूपराः आग्नावैष्णवाः गताः ॥
इति पञ्चमे षष्ठे अष्टादशोनुवाकः ॥