मूलम् (संयुक्तम्)
इन्द्रा॑य॒ राज्ञे॒ त्रय॑श्शितिपृ॒ष्ठा इन्द्रा॑याधिरा॒जाय॒ त्रय॒श्शिति॑ककुद॒ इन्द्रा॑य स्व॒राज्ञे॒ त्रय॒श्शिति॑भसदस्ति॒स्रस्तु॑र्यौ॒ह्य॑स्सा॒ध्याना॑न्ति॒स्रᳶ प॑ष्ठौ॒ह्यो॑ विश्वे॑षान्दे॒वाना॑माग्ने॒न्द्राᳵ कृ॒ष्णल॑लामास्तूप॒राः ॥ [48]
विश्वास-प्रस्तुतिः
इन्द्रा॑य॒ राज्ञे॒ त्रय॑श् शितिपृ॒ष्ठाः ।
इन्द्रा॑याधिरा॒जाय॒ त्रय॒श्शिति॑ककुदः ।
इन्द्रा॑य स्व॒राज्ञे॒ त्रय॒श्शिति॑भसदः ।
ति॒स्रस् तु॑र्यौ॒ह्य॑स् सा॒ध्याना॑म् ।
ति॒स्रᳶ प॑ष्ठौ॒ह्यो॑ विश्वे॑षान् दे॒वाना॑म् ।
आ॒ग्ने॒न्द्राᳵ कृ॒ष्णल॑लामास्तूप॒राः ॥ [48]
मूलम्
इन्द्रा॑य॒ राज्ञे॒ त्रय॑श् शितिपृ॒ष्ठाः ।
इन्द्रा॑याधिरा॒जाय॒ त्रय॒श्शिति॑ककुदः ।
इन्द्रा॑य स्व॒राज्ञे॒ त्रय॒श्शिति॑भसदः ।
ति॒स्रस् तु॑र्यौ॒ह्य॑स् सा॒ध्याना॑म् ।
ति॒स्रᳶ प॑ष्ठौ॒ह्यो॑ विश्वे॑षान् दे॒वाना॑म् ।
आ॒ग्ने॒न्द्राᳵ कृ॒ष्णल॑लामास्तूप॒राः ॥ [48]
भट्टभास्कर-टीका
1इन्द्राय राज्ञे त्रयश्शितिपृष्ठाः । पूर्ववच्छितिस्वरः । इन्द्रायाधिराजाय त्रयश्शितिककुदः । अधिरूढो राजा अधिराजः । स्वराभाव उक्तः । इन्द्राय स्वराज्ञे त्रयः शितिभसदः । स्वयमेव राजतीति स्वराजा । ‘न पूजनात्’ इति वचनाट्टजभावः । उक्तः स्वरः । स्वरः । तिस्रस्तुर्यौह्यस्साध्यानाम् । तुर्योर्धचतुर्वर्षा दित्यौहिभिर्वा ख्यातः । तुर्यं युगचतुर्थं । तिस्रः पष्ठौह्यो विश्वेषां देवानाम् । पष्ठौह्यश्चतुर्वर्षाः । पष्ठो युगपार्श्वम् । कृष्णललामास्तूपराः आग्नेन्द्राः गताः ॥
इति पञ्चमे षष्ठे सप्तदशोनुवाकः ॥