मूलम् (संयुक्तम्)
शु॒ण्ठास्त्रयो॑ वैष्ण॒वा अ॑धीलोध॒कर्णा॒स्त्रयो॒ विष्ण॑व उरुक्र॒माय॑ लप्सु॒दिन॒स्त्रयो॒ विष्ण॑व उरुगा॒याय॒ पञ्चा॑वीस्ति॒स्र आ॑दि॒त्याना॑न्त्रिव॒त्सास्ति॒स्रोऽङ्गि॑रसामैन्द्रावैष्ण॒वा गौ॒रल॑लामास्तूप॒राः ॥ [47]
विश्वास-प्रस्तुतिः
शु॒ण्ठास्त्रयो॑ वैष्ण॒वाः ।
अ॒धी॒लो॒ध॒कर्णा॒स्त्रयो॒ विष्ण॑व उरुक्र॒माय॑ ।
ल॒प्सु॒दिन॒स्त्रयो॒ विष्ण॑व उरुगा॒याय॑ ।
पञ्चा॑वीस् ति॒स्र आ॑दि॒त्याना॑म् ।
त्रि॒व॒त्सास् ति॒स्रोऽङ्गि॑रसाम् ।
ऐ॒न्द्रा॒वै॒ष्ण॒वा गौ॒रल॑लामास्तूप॒राः ॥ [47]
मूलम्
शु॒ण्ठास्त्रयो॑ वैष्ण॒वाः ।
अ॒धी॒लो॒ध॒कर्णा॒स्त्रयो॒ विष्ण॑व उरुक्र॒माय॑ ।
ल॒प्सु॒दिन॒स्त्रयो॒ विष्ण॑व उरुगा॒याय॑ ।
पञ्चा॑वीस् ति॒स्र आ॑दि॒त्याना॑म् ।
त्रि॒व॒त्सास् ति॒स्रोऽङ्गि॑रसाम् ।
ऐ॒न्द्रा॒वै॒ष्ण॒वा गौ॒रल॑लामास्तूप॒राः ॥ [47]
भट्टभास्कर-टीका
1शुण्ठास्त्रयो वैष्णवाः । शुण्ठाः गूर्णाः आवेष्टितकर्णाः । अल्पकर्णा इत्येके । अधीलोधकर्णास्त्रयो विष्णव उरुक्रमाय । अधीलोधकर्णाः कर्णोपरि प्ररूढकर्णाः । त्रयो लप्सुदिनः विष्णव उरुगायाय । लप्सुदिनः लम्बमानकूर्चाः लम्बमानेन सूदितानि । पृषोदरादिः । तद्वन्तः । उरुभिः महात्मभिः गातव्यः उरुगायः। तिस्रः पञ्चावीः तिस्रः आदित्यानाम् । अर्धतृतीयवर्षा पञ्चाव्यः । द्विगुपक्षे ‘इगन्तकाल’ इति पूर्वपदप्रकृतिस्वरः । त्रिवत्साः तिस्रोङ्गिरसां त्रिवर्षाः तिस्रोङ्गिरसां वत्सरस्य । गौरललामास्त्रयस्तूपराः ऐन्द्रावैष्णवाः गताः ॥
इति पञ्चमे षष्ठे षोडशोनुवाकः ॥