मूलम् (संयुक्तम्)
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ॑न्द्रावरु॒णाश्शिति॑ककुच्छितिपृ॒ष्ठश्शिति॑भस॒त्त ऐ॑न्द्राबार्हस्प॒त्याश्शि॑ति॒पाच्छि॒त्योष्ठ॑श्शिति॒भ्रुस्त ऐ॑न्द्रावैष्ण॒वास्ति॒स्रस्सि॒ध्मा व॒शा वै॑श्वकर्म॒ण्य॑स्ति॒स्रो धा॒त्रे पृ॑षोद॒रा ऐ॑न्द्रापौ॒ष्णाश्श्येत॑ललामास्तूप॒राः ॥ [45]
विश्वास-प्रस्तुतिः
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ॑न्द्रावरु॒णाः ।
शिति॑ककुच् छितिपृ॒ष्ठश् शिति॑भस॒त् त ऐ॑न्द्राबार्हस्प॒त्याः ।
शि॑ति॒पाच् छि॒त्योष्ठ॑श् शिति॒भ्रुस् त ऐ॑न्द्रावैष्ण॒वाः ।
ति॒स्रस्सि॒ध्मा व॒शा वै॑श्वकर्म॒ण्यः॑ ।
ति॒स्रो धा॒त्रे पृ॑षोद॒रा ऐ॑न्द्रापौ॒ष्णाश् श्येत॑ललामास् तूप॒राः ॥ [45]
मूलम्

भट्टभास्कर-टीका
1उन्नतादयस्त्रय ऐन्द्रावरुणाः ॥ उन्नतः उन्नतपृष्ठः । ऋषभः सेक्ता । वामनो ह्रस्वाङ्गः । शितिककुदादयस्त्रय ऐन्द्राबार्हस्पत्याः । शुक्लं ककुदमस्येति बहुव्रीहौ ‘ककुदस्यावस्थायां लोपः’ । नित्या बह्विति वचनात् शितिस्वराभावः । शितिपादादयः त्रय ऐन्द्रावैष्णवाः । गताः । छान्दसं ह्रस्वत्वम् । तिस्रस्सिध्मा वशा वैश्वकर्मण्यः । सिध्माः सिध्मलाङ्गाः प्रादेशिकश्वेताङ्कितदेहाः । तिस्रो धात्रे पृषोदराः पृषन्ति उदरे यासाम् । ‘पृषोदरादीनि यथोपदिष्टम्’ इति यथाभिमतस्वरूपसिद्धिः । श्वेतललामास्त्रयस्तूपराः ऐन्द्रापौष्णाः गताः ॥
इति पञ्चमे षष्ठे चतुर्दशोनुवाकः ॥