१३

मूलम् (संयुक्तम्)

शि॒ति॒बा॒हुर॒न्यत॑श्शितिबाहुस्सम॒न्तशि॑तिबाहु॒स्त ऐ॑न्द्रवाय॒वाश्शि॑ति॒रन्ध्रो॒ऽन्यत॑श्शितिरन्ध्रस्सम॒न्तशि॑तिरन्ध्र॒स्ते मै॑त्रावरु॒णाश्शु॒द्धवा॑लस्स॒र्वशु॑द्धवालो म॒णिवा॑ल॒स्त आ॑श्वि॒नास्ति॒स्रश्शि॒ल्पा व॒शा वै॑श्वदे॒व्य॑स्ति॒स्रश्श्येनीः॑ परमे॒ष्ठिने॑ सोमापौ॒ष्णाश्श्या॒मल॑लामास्तूप॒राः ॥ [44]

विश्वास-प्रस्तुतिः

शि॒ति॒बा॒हुर॒न्यत॑श् शितिबाहुस् सम॒न्तशि॑तिबाहु॒स् त ऐ॑न्द्रवाय॒वाः ।
शि॑ति॒रन्ध्रो॒ऽन्यत॑श्शितिरन्ध्रस्, सम॒न्तशि॑तिरन्ध्र॒स् ते मै॑त्रावरु॒णाः ।
शु॒द्धवा॑लस् स॒र्वशु॑द्धवालो म॒णिवा॑ल॒स्त आ॑श्वि॒नाः ।
ति॒स्रश् शि॒ल्पा व॒शा वै॑श्वदे॒व्यः॑ ।
ति॒स्रश्श्येनीः॑ परमे॒ष्ठिने॑ ।
सो॒मा॒पौ॒ष्णाश्श्या॒मल॑लामास् तूप॒राः ॥ [44]

मूलम्

शि॒ति॒बा॒हुर॒न्यत॑श् शितिबाहुस् सम॒न्तशि॑तिबाहु॒स् त ऐ॑न्द्रवाय॒वाः ।
शि॑ति॒रन्ध्रो॒ऽन्यत॑श्शितिरन्ध्रस्, सम॒न्तशि॑तिरन्ध्र॒स् ते मै॑त्रावरु॒णाः ।
शु॒द्धवा॑लस् स॒र्वशु॑द्धवालो म॒णिवा॑ल॒स्त आ॑श्वि॒नाः ।
ति॒स्रश् शि॒ल्पा व॒शा वै॑श्वदे॒व्यः॑ ।
ति॒स्रश्श्येनीः॑ परमे॒ष्ठिने॑ ।
सो॒मा॒पौ॒ष्णाश्श्या॒मल॑लामास् तूप॒राः ॥ [44]

भट्टभास्कर-टीका

1शितिबाह्वादयस्त्रय ऐन्द्रवायवाः । शितिः शुक्लो बाह्वेकदेशो यस्य । ‘शितेर्नित्या बह्वच्’ इत्युत्तरपदप्रकृतिस्वरत्वम् । सः अन्यतश्शितिबाहुः यत्प्रथमस्य शितित्वं ततोन्यत्रैकदेशे शितित्वं यस्य सः अन्यतश्शितिः । तादृशो बाहुर्यस्येति पुनर्बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं पूर्ववदेव । तदन्तविध्यभावात् शितिस्वराभावः । समन्तशितिबाहुः सर्वशुक्लबाहुः । अस्मिन्व्याख्याने उभयत्र शित्यन्तस्यावग्रहः प्राप्नोति । तस्माद्भावप्रधानेन शितिबाहुशब्देन बहुव्रीहिणा पूर्वपदयोः पुतः बहुव्रीहिभिः । शितिरन्ध्रादयो मैत्रावरुणाः । शितिरन्ध्र शुक्लछिद्रः । पूर्ववदुत्तरपदप्रकृतिस्वरत्वम् । अन्यतश्शितिरन्ध्रसमन्तशितिरन्ध्रौ गतौ । शुद्धवालादयस्त्रय आश्विनाः । शुद्धवालः शुक्लपुच्छवालावयवः । सर्वशुद्धवालः सर्वशुक्लपुच्छः । मणिवालः एकान्तशुक्लाशुक्लचितवालः । तिस्रश्शिल्पा वशा वैश्वदेव्यः । शिल्पा नानावर्णाः । तिस्रश्श्येनीः परमेष्ठिने श्येन्यश्शुक्लाः पूर्ववन्ङीब्नकारौ, पर्वूसवर्णदीर्घत्वं च । श्यामललामास्त्रयस्तूपराः सोमापौष्णाः । गताः ॥

इति पञ्चमे षष्ठे त्रयोदशोनुवाकः ॥