मूलम् (संयुक्तम्)
पृश्ञि॑स्तिर॒श्चीन॑पृश्ञिरू॒र्ध्वपृ॑श्ञि॒स्ते मा॑रु॒ताᳶ फ॒ल्गूर्लो॑हितो॒र्णी ब॑ल॒क्षी तास्सा॑रस्व॒त्यᳶ॑ पृष॑ती स्थू॒लपृ॑षती क्षु॒द्रपृ॑षती॒ ता वै॑श्वदे॒व्य॑स्ति॒स्रश्श्या॒मा व॒शाᳶ पौ॒ष्णिय॑स्ति॒स्रो रोहि॑णीर्व॒शा मै॒त्रिय॑ ऐन्द्राबार्हस्प॒त्या अ॑रु॒णल॑लामास्तूप॒राः ॥ [43]
विश्वास-प्रस्तुतिः
पृश्ञि॑स् तिर॒श्चीन॑पृश्ञिर् ऊ॒र्ध्वपृ॑श्ञि॒स् ते मा॑रु॒ताः ।
फ॒ल्गूर्लो॑हितो॒र्णी ब॑ल॒क्षी तास्सा॑रस्व॒त्यः॑ ।
पृष॑ती स्थू॒लपृ॑षती क्षु॒द्रपृ॑षती॒ ता वै॑श्वदे॒व्यः॑ ।
ति॒स्रश्श्या॒मा व॒शाᳶ पौ॒ष्णियः॑ ।
ति॒स्रो रोहि॑णीर्व॒शा मै॒त्रियः॑ ।
ऐन्द्राबार्हस्प॒त्या अ॑रु॒णल॑लामास् तूप॒राः ॥ [43]
मूलम्
पृश्ञि॑स् तिर॒श्चीन॑पृश्ञिर् ऊ॒र्ध्वपृ॑श्ञि॒स् ते मा॑रु॒ताः ।
फ॒ल्गूर्लो॑हितो॒र्णी ब॑ल॒क्षी तास्सा॑रस्व॒त्यः॑ ।
पृष॑ती स्थू॒लपृ॑षती क्षु॒द्रपृ॑षती॒ ता वै॑श्वदे॒व्यः॑ ।
ति॒स्रश्श्या॒मा व॒शाᳶ पौ॒ष्णियः॑ ।
ति॒स्रो रोहि॑णीर्व॒शा मै॒त्रियः॑ ।
ऐन्द्राबार्हस्प॒त्या अ॑रु॒णल॑लामास् तूप॒राः ॥ [43]
भट्टभास्कर-टीका
1पृश्न्यादयस्त्रयो मारुताः ॥ पृश्निः शुक्रवर्णबिन्दुचितः चित्रवर्णः । तिरश्चीनपृश्रिः तिर्यक्प्रततवर्णः पृश्निवर्णः । एतेनोर्ध्वपृश्निर्व्याख्यातः । उभयत्रापि प्रधानेन वहुव्रीहिः । ‘फल्ग्वादयस्तिस्रस्सारस्वत्यः । फल्गूः लवणवर्णः । लोहितोर्णी रोहितरोमा। छान्दसो ङीप् । सतिशिष्टेन प्रत्ययस्वरेण वहुव्रीहिस्वरः । बलक्षी शुक्ला । बवयोरेकत्वमिच्छन्ति । ‘अन्यतो ङीप्’ इति ङीप्, नोपधापेक्षमन्यत्वम् । पृषत्यादयस्त्रयो वैश्वदेव्यः । शुक्लैर्बिन्दुभिश्चिताः मध्यमैः न स्थूलैः न क्षुद्रैः । शतृवद्भावात् ‘उगिद्वर्ण’ इति ङीप् । स्थूलपृषती स्थूलानि पृषन्ति यस्याः । ‘उगिद्वर्णग्रहणवर्जम्’ इति तदन्तग्रहणाभ्यनुज्ञानात् ‘उगितश्च’ इति ङीप् । एवं क्षुद्रपृषती । तिस्रः श्यामाः वशाः पौष्ण्यः । गताः । तिस्रो रोहिणी वशा मैत्र्यः । ‘वर्णादनुदात्तात्’ इति ङीब्नकारौ, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । अरुणललामास्त्रयस्तूपराः ऐन्द्राबार्हस्पत्याः । अरुणललामाः सन्ध्यावर्णपुण्ड्राः ॥
इति पञ्चमे षष्ठे द्वादशोनुवाकः ॥