मूलम् (संयुक्तम्)
रोहि॑तो धू॒म्ररो॑हितᳵ क॒र्कन्धु॑रोहित॒स्ते प्रा॑जाप॒त्या ब॒भ्रुर॑रु॒णब॑भ्रु॒श्शुक॑बभ्रु॒स्ते रौ॒द्राश्श्येत॑श्श्येता॒क्षश्श्येत॑ग्रीव॒स्ते पि॑तृदेव॒त्या॑स्ति॒स्रᳵ कृ॒ष्णा व॒शा वा॑रु॒ण्य॑स्ति॒स्रश्श्वे॒ता व॒शास्सौ॒र्यो॑ मैत्राबार्हस्प॒त्या धू॒म्रल॑लामास्तूप॒राः ॥ [42]
विश्वास-प्रस्तुतिः
रोहि॑तो धू॒म्ररो॑हितᳵ क॒र्कन्धु॑रोहित॒स् ते प्रा॑जाप॒त्याः ।
ब॒भ्रुर॑रु॒णब॑भ्रु॒श् शुक॑बभ्रु॒स् ते रौ॒द्राः ।
श्येत॑श् श्येता॒क्षश् श्येत॑ग्रीव॒स् ते पि॑तृदेव॒त्याः॑ ।
ति॒स्रᳵ कृ॒ष्णा व॒शा वा॑रु॒ण्यः॑ ।
ति॒स्रश् श्वे॒ता व॒शास् सौ॒र्यः॑ ।
मै॒त्रा॒बा॒र्ह॒स्प॒त्या धू॒म्रल॑लामास् तूप॒राः ॥ [42]
मूलम्
रोहि॑तो धू॒म्ररो॑हितᳵ क॒र्कन्धु॑रोहित॒स् ते प्रा॑जाप॒त्याः ।
ब॒भ्रुर॑रु॒णब॑भ्रु॒श् शुक॑बभ्रु॒स् ते रौ॒द्राः ।
श्येत॑श् श्येता॒क्षश् श्येत॑ग्रीव॒स् ते पि॑तृदेव॒त्याः॑ ।
ति॒स्रᳵ कृ॒ष्णा व॒शा वा॑रु॒ण्यः॑ ।
ति॒स्रश् श्वे॒ता व॒शास् सौ॒र्यः॑ ।
मै॒त्रा॒बा॒र्ह॒स्प॒त्या धू॒म्रल॑लामास् तूप॒राः ॥ [42]
भट्टभास्कर-टीका
1अथाश्वमेधिकाः पशवोष्टादशिनो विधीयन्ते । वैश्वदेवं काण्डम् । तत्र दशस्वनुवाकेषु प्रत्येकमष्टादश पशव उच्यन्ते । अष्टादशानां वर्णनियमोत्र क्रियते । आरण्येष्वष्टादशिषु जातिनियमः पञ्चमे कृतः । ग्राम्येषूभयथा नियमः ‘सोमाय स्वराज्ञे’ इत्यारभ्य द्वन्द्वादिषु वहुधा नियम इति । रोहितादयस्त्रयः प्राजापत्याः । रोहितः लोहितः । धूम्ररोहितः अस्पष्टलोहितः । ‘वर्णो वर्णेन’ इति समानाधिकरणत्वात् तत्पुरुषः, ‘वर्णेवर्णेष्वनेते’ इति पूर्वपदप्रकृतिस्वरत्वम् । कर्कन्धुरोहितः सौवीरवर्णः । ‘उपमानानि सामान्यवचनैः’ इति समासः । उपमानपूर्वपदप्रकृतिस्वरत्वम् । बभ्र्वादयस्त्रयो रौद्राः । बभ्रुः पाण्डरकपिलः । अरुणः न्यूनरक्तकपिलः । शुकबभ्रुः हरितशुकसमानवर्णः । ग्रामेकेतौ स्वरौ । श्येतादयस्त्रयः पितृदेवत्याः । श्येतः शुक्लवर्णः । शुक्लरक्त इत्येके । श्येताक्षः रक्तदृष्टिः । ‘अक्षगोऽदर्शनात्’ इत्यच् समासान्तः । सतिशिष्टत्वात् लिट्स्वरेण बहुव्रीहिस्वरो बाध्यते । श्येतग्रीवः । गतः । तिस्रः कृष्णा वशा वारुण्यः । गताः । ‘तिसृभ्यो जसः’ इति जस उदात्तत्वम् । एवं सर्वत्र । तिस्रः श्वेता वशाः सौर्यः । गताः । एवं धूम्रललामास्त्रयस्तूपराः मैत्रा बार्हस्पत्याः । धूम्रललामाः धूम्रवर्णपुण्ड्राः तूपराः शृङ्गहीनाः ॥
इति पञ्चमे षष्ठे एकादशोनुवाकः ॥