मूलम् (संयुक्तम्)
प्र॒जाप॑तिर॒ग्निम॑चिनुत॒र्तुभि॑स्सव्ँवत्स॒रव्ँव॑स॒न्तेनै॒वास्य॑ पूर्वा॒र्धम॑चिनुत ग्री॒ष्मेण॒ दक्षि॑णम्प॒क्षव्ँव॒र्षाभि॒ᳶ पुच्छँ॑ श॒रदोत्त॑रम्प॒क्षँ हे॑म॒न्तेन॒ मध्य॒म्…
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर् अ॒ग्निम॑चिनुत ऋ॒तुभि॑स् सव्ँवत्स॒रम् ।
व॒स॒न्तेनै॒वास्य॑ पूर्वा॒र्धम॑चिनुत ।
ग्री॒ष्मेण॒ दक्षि॑णम्प॒क्षम् ।
व॒र्षाभि॒ᳶ पुच्छ॑म् ।
श॒रदोत्त॑रम् प॒क्षम्।
हे॒म॒न्तेन॒ मध्य॑म् ।
मूलम्
प्र॒जाप॑तिर् अ॒ग्निम॑चिनुत ऋ॒तुभि॑स् सव्ँवत्स॒रम् ।
व॒स॒न्तेनै॒वास्य॑ पूर्वा॒र्धम॑चिनुत ।
ग्री॒ष्मेण॒ दक्षि॑णम्प॒क्षम् ।
व॒र्षाभि॒ᳶ पुच्छ॑म् ।
श॒रदोत्त॑रम् प॒क्षम्।
हे॒म॒न्तेन॒ मध्य॑म् ।
भट्टभास्कर-टीका
1प्रजापतिरग्निमचिनुतेत्यादि ॥ संवत्सरमिति । सदृशप्रधानं यथा संवत्सरमृतुभिः स्पृष्टवानेवमग्निमपि ऋतुभिः वसन्तादिभिः अचिनुत । तत्प्रकारमाह - वसन्तेनैवेत्यादिना । तदृतुसमृद्धिप्रदत्वख्यापनाय स्तुतिरियम् ॥
मूलम् (संयुक्तम्)
ब्रह्म॑णा॒ वा अ॑स्य॒ तत्पू॑र्वा॒र्धम॑चिनुत क्ष॒त्रेण॒ दक्षि॑णम्प॒क्षम्प॒शुभि॒ᳶ पुच्छव्ँ॑वि॒शोत्त॑रम्प॒क्षमा॒शया॒ मध्यय्ँ॒य ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒त ऋ॒तुभि॑रे॒वैन॑ञ्चिनु॒तेऽथो॑ ए॒तदे॒व सर्व॒मव॑ [39]
रु॒न्द्धे॒ शृ॒ण्वन्त्ये॑नम॒ग्निञ्चि॑क्या॒नमत्त्यन्नँ॒ रोच॑त…
विश्वास-प्रस्तुतिः
ब्रह्म॑णा॒ वा अ॑स्य॒ तत्पू॑र्वा॒र्धम॑चिनुत ।
क्ष॒त्रेण॒ दक्षि॑णम्प॒क्षम् ।
प॒शुभि॒ᳶ पुच्छ॑म् ।
वि॒शोत्त॑रम् प॒क्षम् ।
आ॒शया॒ मध्य॑म् ।
य ए॒वव्ँ वि॒द्वान॒ग्निञ् चि॑नु॒त, ऋ॒तुभि॑र् ए॒वैन॑ञ् चिनु॒तेऽथो॑ ए॒तदे॒व सर्व॒मव॑ रुन्धे ।
शृ॒ण्वन्त्ये॑नम् अ॒ग्निञ् चि॑क्या॒नम् ।
अत्यन्न॑म् । रोच॑ते ।
मूलम्
ब्रह्म॑णा॒ वा अ॑स्य॒ तत्पू॑र्वा॒र्धम॑चिनुत ।
क्ष॒त्रेण॒ दक्षि॑णम्प॒क्षम् ।
प॒शुभि॒ᳶ पुच्छ॑म् ।
वि॒शोत्त॑रम् प॒क्षम् ।
आ॒शया॒ मध्य॑म् ।
य ए॒वव्ँ वि॒द्वान॒ग्निञ् चि॑नु॒त, ऋ॒तुभि॑र् ए॒वैन॑ञ् चिनु॒तेऽथो॑ ए॒तदे॒व सर्व॒मव॑ रुन्धे ।
शृ॒ण्वन्त्ये॑नम् अ॒ग्निञ् चि॑क्या॒नम् ।
अत्यन्न॑म् । रोच॑ते ।
भट्टभास्कर-टीका
2इदानीं वसन्तादीनां सर्वार्थसाधनत्वं ख्यापयितुं द्वितीया स्तुतिः - ब्रह्मणा वा अस्येत्यादि ॥ वसन्तादिप्रधानत्वात् ब्राह्मणादीनां ब्राह्मणादिभिरेव अग्निश्चितो भवतीति प्रतिपादयति । आशा दिक्, बुद्धिर्वा तत्स्वभावा गृह्यन्ते । एवं विदित्वा चयने ऋतुभिरेव चितो भवति । अपि च एतत्सर्वं ब्राह्मणादिकमवरुन्धे विधेयीकरोति । ततश्शृण्वन्त्येनं अग्निं चितवन्तं अग्निश्चितोनेन महानुभावेनेति सर्वत्र ख्यातो भवति । पापेनापि ख्यातो भवति, यथा ग्रामो दग्धोनेन जाल्मेनेति; तत्राह - अन्नमत्त्यधिकं अस्यातिशयात् । किञ्च प्रजाभ्यो रोचते तेजस्व्येव भवति सर्वदा । समानवाक्ये पदात्परत्वान्निघाताभावः ॥
मूलम् (संयुक्तम्)
इ॒यव्ँ वाव प्र॑थ॒मा चिति॒रोष॑धयो॒ वन॒स्पत॑य॒ᳶ पुरी॑षम॒न्तरि॑क्षन्द्वि॒तीया॒ वयाँ॑सि॒ पुरी॑षम॒सौ तृ॒तीया॒ नक्ष॑त्राणि॒ पुरी॑षय्ँ य॒ज्ञश्च॑तु॒र्थी दक्षि॑णा॒ पुरी॑षय्ँ॒यज॑मानᳶ पञ्च॒मी प्र॒जा पुरी॑षय्ँ॒यत्त्रिचि॑तीकञ्चिन्वी॒त य॒ज्ञन्दक्षि॑णामा॒त्मान॑म्प्र॒जाम॒न्तरि॑या॒त्तस्मा॒त्पञ्च॑चितीकश्चेत॒व्य॑ ए॒तदे॒व सर्वँ॑ स्पृणोति॒
विश्वास-प्रस्तुतिः
इ॒यव्ँ वाव प्र॑थ॒मा चिति॒रोष॑धयो॒ वन॒स्पत॑य॒ᳶ पुरी॑षम् ।
अ॒न्तरि॑क्षन् द्वि॒तीया॒ वयाँ॑सि॒ पुरी॑षम् ।
अ॒सौ तृ॒तीया॒ नक्ष॑त्राणि॒ पुरी॑षम् ।
य॒ज्ञश् च॑तु॒र्थी दक्षि॑णा॒ पुरी॑षम् ।
यज॑मानᳶ पञ्च॒मी प्र॒जा पुरी॑षम् ।
यत् त्रिचि॑तीकञ् चिन्वी॒त य॒ज्ञन् दक्षि॑णामा॒त्मान॑म् प्र॒जाम् अ॒न्तरि॑यात् ।
तस्मा॒त् पञ्च॑चितीकश् चेत॒व्यः॑ ।
ए॒तदे॒व सर्वँ॑ स्पृणोति ।
मूलम्
इ॒यव्ँ वाव प्र॑थ॒मा चिति॒रोष॑धयो॒ वन॒स्पत॑य॒ᳶ पुरी॑षम् ।
अ॒न्तरि॑क्षन् द्वि॒तीया॒ वयाँ॑सि॒ पुरी॑षम् ।
अ॒सौ तृ॒तीया॒ नक्ष॑त्राणि॒ पुरी॑षम् ।
य॒ज्ञश् च॑तु॒र्थी दक्षि॑णा॒ पुरी॑षम् ।
यज॑मानᳶ पञ्च॒मी प्र॒जा पुरी॑षम् ।
यत् त्रिचि॑तीकञ् चिन्वी॒त य॒ज्ञन् दक्षि॑णामा॒त्मान॑म् प्र॒जाम् अ॒न्तरि॑यात् ।
तस्मा॒त् पञ्च॑चितीकश् चेत॒व्यः॑ ।
ए॒तदे॒व सर्वँ॑ स्पृणोति ।
भट्टभास्कर-टीका
3इयं वावेत्यादि ॥ पृथिव्यादिरूपेण प्रथमादीनां चितीनां चितिः ओषधिवनस्पत्यादिरूपेण च पुरीषाणाम् । यस्मादेवं तस्मात् यदिति । त्रिचितीकं चिन्वीत चतुर्थपञ्चमचित्यभावे तन्निमित्तं यज्ञं दक्षिणामात्मानं प्रजां चान्तरियात् विनाशयेत् । तस्मात्पञ्चचितीकश्चेतव्य इति । ‘चितेः कपि’ इति दीर्घत्वम् । पञ्चचितिकत्वे एतत् सर्वौषध्यादिकं यज्ञादिकं च स्पृणोति प्रीणयति रक्षतीत्यर्थः ॥
मूलम् (संयुक्तम्)
यत्ति॒स्रश्चित॑यः [40]
त्रि॒वृद्ध्य॑ग्निर्यद्द्वे द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै॒ पञ्च॒ चित॑यो भवन्ति॒ पाङ्क्त॒ᳶ पुरु॑ष आ॒त्मान॑मे॒व स्पृ॑णोति॒
विश्वास-प्रस्तुतिः
यत् ति॒स्रश् चित॑यस् त्रि॒वृद्ध्य॑ग्निः ।
यद् द्वे द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
पञ्च॒ चित॑यो भवन्ति ।
पाङ्क्त॒ᳶ पुरु॑ष ।
आ॒त्मान॑मे॒व स्पृ॑णोति॒
मूलम्
यत् ति॒स्रश् चित॑यस् त्रि॒वृद्ध्य॑ग्निः ।
यद् द्वे द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
पञ्च॒ चित॑यो भवन्ति ।
पाङ्क्त॒ᳶ पुरु॑ष ।
आ॒त्मान॑मे॒व स्पृ॑णोति॒
भट्टभास्कर-टीका
4यत्तिस्र इति ॥ द्वित्वत्रित्वान्वयेनावयुत्य स्तुतिः । पञ्चेति । समुदायस्तुतिः । पङ्क्तिप्रभवः पाङ्कत्वादिति । पञ्चप्रभवत्वाद्वा । पङ्क्तिशब्द उत्सादिः ॥
मूलम् (संयुक्तम्)
पञ्च॒ चित॑यो भवन्ति प॒ञ्चभि॒ᳶ पुरी॑षैर॒भ्यू॑हति॒ दश॒ सम्प॑द्यन्ते॒ दशा॑क्षरो॒ वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तँ स्पृ॑णो॒त्यथो॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति
विश्वास-प्रस्तुतिः
पञ्च॒ चित॑यो भवन्ति ।
प॒ञ्चभि॒ᳶ पुरी॑षैर॒भ्यू॑हति ।
दश॒ सम्प॑द्यन्ते ।
दशा॑क्षरो॒ वै पुरु॑षः ।
यावा॑ने॒व पुरु॑ष॒स् तँ स्पृ॑णोति ।
अथो॒ दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राट् ।
वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति ।
मूलम्
पञ्च॒ चित॑यो भवन्ति ।
प॒ञ्चभि॒ᳶ पुरी॑षैर॒भ्यू॑हति ।
दश॒ सम्प॑द्यन्ते ।
दशा॑क्षरो॒ वै पुरु॑षः ।
यावा॑ने॒व पुरु॑ष॒स् तँ स्पृ॑णोति ।
अथो॒ दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राट् ।
वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
5पञ्च चितय इत्यादिना दशत्वं संपाद्य स्तौति । पुरीषैरभ्यूहनमुपरिछादनम् । दशाक्षर इति । अक्षराणां आत्मनो नव प्राणा अक्षराणि, नाभिर्दशमी । एवमेतैर्दशभिरक्षरैः तद्वान् पुरुषः । तस्माद्दशत्वान्वयात् सर्वमेवैनं पुरुषं स्पृणोति । अथो इत्यादि गतम् ॥
मूलम् (संयुक्तम्)
सव्ँवत्स॒रो वै ष॒ष्ठी चिति॑र्ऋ॒तव॒ᳶ पुरी॑षँ॒ षट्चित॑यो भवन्ति॒ षट्पुरी॑षाणि॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठति ॥ [41]
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रो वै ष॒ष्ठी चितिः॑ ।
ऋ॒तव॒ᳶ पुरी॑षम् ।
षट्चित॑यो भवन्ति॒ षट्पुरी॑षाणि ।
द्वाद॑श॒ सम्प॑द्यन्ते ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒र ए॒व प्रति॑ तिष्ठति ॥ [41]
मूलम्
सव्ँ॒व॒त्स॒रो वै ष॒ष्ठी चितिः॑ ।
ऋ॒तव॒ᳶ पुरी॑षम् ।
षट्चित॑यो भवन्ति॒ षट्पुरी॑षाणि ।
द्वाद॑श॒ सम्प॑द्यन्ते ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒र ए॒व प्रति॑ तिष्ठति ॥ [41]
भट्टभास्कर-टीका
6संवत्सरो वा इत्यादि ॥ द्वादशस्तुतिः । पुरीषमिति षष्ठम् । तस्माद्द्वादशमासात्मके संवत्सरे प्रतिष्ठितो भवति ॥
इति पञ्चमे षष्ठे दशमोनुवाकः ॥