मूलम् (संयुक्तम्)
सू॒यते॒ वा ए॒षो॑ऽग्नी॒नाय्ँय उ॒खाया॑म्भ्रि॒यते॒ यद॒धस्सा॒दये॒द्गर्भाः॑ प्र॒पादु॑कास्स्यु॒रथो॒ यथा॑ स॒वात्प्र॑त्यव॒रोह॑ति ता॒दृगे॒व तदा॑स॒न्दी सा॑दयति॒ गर्भा॑णा॒न्धृत्या॒ अप्र॑पादा॒याथो॑ स॒वमे॒वैन॑ङ्करोति॒
विश्वास-प्रस्तुतिः
सू॒यते॒ वा ए॒षो॑ऽग्नी॒नाय्ँ य उ॒खाया॑म् भ्रि॒यते॑ ।
यद॒धस् सा॒दये॒द् गर्भाः॑ प्र॒पादु॑कास् स्युः ।
अथो॒ यथा॑ स॒वात्प्र॑त्यव॒रोह॑ति ता॒दृगे॒व तत् ।
आ॒स॒न्दी सा॑दयति॒ गर्भा॑णा॒न् - धृत्या॒ अप्र॑पादाय ।
अथो॑ स॒वमे॒वैन॑ङ् करोति ।
मूलम्
सू॒यते॒ वा ए॒षो॑ऽग्नी॒नाय्ँ य उ॒खाया॑म् भ्रि॒यते॑ ।
यद॒धस् सा॒दये॒द् गर्भाः॑ प्र॒पादु॑कास् स्युः ।
अथो॒ यथा॑ स॒वात्प्र॑त्यव॒रोह॑ति ता॒दृगे॒व तत् ।
आ॒स॒न्दी सा॑दयति॒ गर्भा॑णा॒न् - धृत्या॒ अप्र॑पादाय ।
अथो॑ स॒वमे॒वैन॑ङ् करोति ।
भट्टभास्कर-टीका
1सूयते वा एष इत्यादि ॥ अग्नीनां मध्ये अयं भूयते उत्पद्यते ईश्वरो वा क्रियते तदिदं यदधस्सादयेत् गर्भाः प्रजानां प्रपादुकाः प्रपतनशीलास्स्युः । अपि च यथा सवात् ऐश्वर्यात्प्रत्यवरोहति प्रच्यवते तादृगेव तत् ईश्वरस्याधस्सादनात् । तस्मात् आसन्दी आसन्द्यां सादयति । ‘सुपा सुलुक्’ इति सप्तम्या अलुक् । प्रगृह्यत्वं व्यत्ययेन प्रवर्तते । तृतीया वा लुप्यते, ‘स्थाल्या भुङ्क्ष्व’ इतिवत् साधनत्वस्य विवक्षितत्वात् । गर्भाणां रक्षणाय अप्रपतनाय च तद्भवति । अथो अपि च सवं यज्ञवन्तं एवैनं करोति । यद्वा - यजमानमेवेश्वरं करोति ॥
मूलम् (संयुक्तम्)
गर्भो॒ वा ए॒ष यदुख्यो॒ योनि॑श्शि॒क्यय्ँ॑यच्छि॒क्या॑दु॒खान्नि॒रूहे॒द्योने॒र्गर्भ॒न्निर्ह॑ण्या॒थ्…
विश्वास-प्रस्तुतिः
गर्भो॒ वा ए॒ष यदुख्यो॒ योनि॑श् शि॒क्य॑म् ।
यच् छि॒क्या॑दु॒खान् - नि॒रूहे॒द्योने॒र्गर्भ॒न् - निर्ह॑ण्यात् ।
मूलम्
गर्भो॒ वा ए॒ष यदुख्यो॒ योनि॑श् शि॒क्य॑म् ।
यच् छि॒क्या॑दु॒खान् - नि॒रूहे॒द्योने॒र्गर्भ॒न् - निर्ह॑ण्यात् ।
भट्टभास्कर-टीका
2गर्भो वा इत्यादि ॥ गतम् । निरूहणमपनयनं निरूहणमकाल एव गर्भस्य निर्गमनम् । तस्मान्न निरूहेदिति ॥
मूलम् (संयुक्तम्)
षडु॑द्यामँ शि॒क्य॑म्भवति षोढाविहि॒तो वै [36]
पुरु॑ष आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑न्या॒त्मन्ने॒वैन॑म्बिभर्ति
विश्वास-प्रस्तुतिः
षडु॑द्यामँ शि॒क्य॑म्भवति ।
षो॒ढा॒वि॒हि॒तो वै पुरु॑ष आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि ।
आ॒त्मन्न् ए॒वैन॑म् बिभर्ति ।
मूलम्
षडु॑द्यामँ शि॒क्य॑म्भवति ।
षो॒ढा॒वि॒हि॒तो वै पुरु॑ष आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि ।
आ॒त्मन्न् ए॒वैन॑म् बिभर्ति ।
भट्टभास्कर-टीका
3षडुद्याममिति ॥ निरूहणनिषेधविधिः । उद्यामाः पादाः । षोढाविहित इति षष्ट्प्रकारो विहितः । ‘षष उत्वम्’ इति षत्वष्टुत्वे । आत्मा शरीरं कण्ठादयः उपरिशिरः चत्वार्यङ्गानि द्वौ हस्तौ द्वौ पादौ षट्त्वान्वयादात्मन्येष धृतो भवत्युख्यः । शिक्यादिनिरूहणेन । तस्मान्न निरूहेदिति ॥
मूलम् (संयुक्तम्)
प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्यो॒खा चो॒लूख॑लञ्च॒ स्तनौ॒ ताव॑स्य प्र॒जा उप॑ जीवन्ति॒ यदु॒खाञ्चो॒लूख॑लञ्चोप॒दधा॑ति॒ ताभ्या॑मे॒व यज॑मानो॒ऽमुष्मिल्ँ॑ लो॒के॑ऽग्निन्दु॑हे
विश्वास-प्रस्तुतिः
प्र॒जाप॑ति॒र् वा ए॒ष यद॒ग्निः ।
तस्यो॒खा चो॒लूख॑लञ् च॒ स्तनौ॑ ।
ताव॑स्य प्र॒जा उप॑ जीवन्ति ।
यदु॒खाञ् चो॒लूख॑लञ् चोप॒दधा॑ति॒, ताभ्या॑मे॒व यज॑मानो॒ ऽमुष्मिल्ँ॑ लो॒के॑ऽग्निन् दु॑हे ।
मूलम्
प्र॒जाप॑ति॒र् वा ए॒ष यद॒ग्निः ।
तस्यो॒खा चो॒लूख॑लञ् च॒ स्तनौ॑ ।
ताव॑स्य प्र॒जा उप॑ जीवन्ति ।
यदु॒खाञ् चो॒लूख॑लञ् चोप॒दधा॑ति॒, ताभ्या॑मे॒व यज॑मानो॒ ऽमुष्मिल्ँ॑ लो॒के॑ऽग्निन् दु॑हे ।
भट्टभास्कर-टीका
4प्रजापतिर्वा इत्यादि ॥ उखोलूखलयोरुपधानविधिर्गतः । अभिमतसाधनयोर्बहुसाधनत्वात् । स्थानापेक्षं पुल्लिङ्गत्वम्, इतरथा नपुंसकस्य शेषप्रसङ्गात् ॥
मूलम् (संयुक्तम्)
सव्ँवत्स॒रो वा ए॒ष यद॒ग्निस्तस्य॑ त्रेधाविहि॒ता इ॑ष्टकाᳶ प्राजाप॒त्या वै॑ष्ण॒वीः [37]
वै॒श्व॒क॒र्म॒णीर॑होरा॒त्राण्ये॒वास्य॑ प्राजाप॒त्या यदुख्य॑म्बि॒भर्ति॑ प्राजाप॒त्या ए॒व तदुप॑ धत्ते॒ यत्स॒मिध॑ आ॒दधा॑ति वैष्ण॒वा वै वन॒स्पत॑यो वैष्ण॒वीरे॒व तदुप॑ धत्ते॒ यदिष्ट॑काभिर॒ग्निञ्चि॒नोती॒यव्ँ वै वि॒श्वक॑र्मा वैश्वकर्म॒णीरे॒व तदुप॑ धत्ते तस्मा॑दाहुस्त्रि॒वृद॒ग्निरिति॒
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रो वा ए॒ष यद॒ग्निः ।
तस्य॑ त्रेधाविहि॒ता इ॑ष्टकाᳶ प्राजाप॒त्या वै॑ष्ण॒वीर् वै॑श्वकर्म॒णीः। ।
अ॒हो॒रा॒त्राण्ये॒वास्य॑ प्राजाप॒त्याः ।
यदुख्य॑म् बि॒भर्ति॑ , प्राजाप॒त्या ए॒व तदुप॑ धत्ते ।
यत् स॒मिध॑ आ॒दधा॑ति, वैष्ण॒वा वै वन॒स्पत॑यः ।
वै॒ष्ण॒वीरे॒व तदुप॑ धत्ते ।
यदिष्ट॑काभिर् अ॒ग्निञ् चि॒नोति॑ + इ॒यव्ँ वै वि॒श्वक॑र्मा ।
वै॒श्व॒क॒र्म॒णीरे॒व तदुप॑ धत्ते ।
तस्मा॑दाहुस् - “त्रि॒वृद॒ग्निः + इति॑ ।
मूलम्
सव्ँ॒व॒त्स॒रो वा ए॒ष यद॒ग्निः ।
तस्य॑ त्रेधाविहि॒ता इ॑ष्टकाᳶ प्राजाप॒त्या वै॑ष्ण॒वीर् वै॑श्वकर्म॒णीः। ।
अ॒हो॒रा॒त्राण्ये॒वास्य॑ प्राजाप॒त्याः ।
यदुख्य॑म् बि॒भर्ति॑ , प्राजाप॒त्या ए॒व तदुप॑ धत्ते ।
यत् स॒मिध॑ आ॒दधा॑ति, वैष्ण॒वा वै वन॒स्पत॑यः ।
वै॒ष्ण॒वीरे॒व तदुप॑ धत्ते ।
यदिष्ट॑काभिर् अ॒ग्निञ् चि॒नोति॑ + इ॒यव्ँ वै वि॒श्वक॑र्मा ।
वै॒श्व॒क॒र्म॒णीरे॒व तदुप॑ धत्ते ।
तस्मा॑दाहुस् - “त्रि॒वृद॒ग्निः + इति॑ ।
भट्टभास्कर-टीका
5संवत्सरो वा इत्यादि - त्रेधाविहिताः प्राजापत्याः वैष्णव्यः वैश्वकर्मण्यः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । तत्राहोरात्राणि प्राजापत्या इष्टकाः, तेषां प्राजापत्यत्वात् । तत्र उख्यभरणेन ता उपहिता भवन्ति । तावत्कालोपासनमेव उपधानं उपचर्यते । समिधामैदुम्बरीणामाधानेन वैष्णव्य इष्टका उपहिता भवन्ति, वनस्पतीनां वैष्णवत्वात् । इष्टकाभिः मृद्विकारभूताभिः चयनेन वैश्वकर्मण्य उपहिता भवन्ति, पृथिव्या विश्वकर्मत्वात् । तस्मात्त्रिवृत्त्रिवृतोग्निरिति ब्रह्मवादिन आहुः । ‘त्रिचक्रादीनामन्तः’ इत्युत्तरपदान्तोदात्तत्वम् ॥
मूलम् (संयुक्तम्)
तव्ँवा ए॒तय्ँयज॑मान ए॒व चि॑न्वीत॒ यद॑स्या॒न्यश्चि॑नु॒याद्यत्तन्दक्षि॑णाभि॒र्न रा॒धये॑द॒ग्निम॑स्य वृञ्जीत॒ यो॑ऽस्या॒ग्निञ्चि॑नु॒यात्तन्दक्षि॑णाभी राधयेद॒ग्निमे॒व तत्स्पृ॑णोति ॥ [38]
विश्वास-प्रस्तुतिः
तव्ँ वा ए॒तय्ँ यज॑मान ए॒व चि॑न्वीत ।
यद॑स्या॒न्यश् चि॑नु॒याद् - यत्तन् दक्षि॑णाभि॒र् न रा॒धये॑द् अ॒ग्निम॑स्य वृञ्जीत ।
यो॑ऽस्या॒ग्निञ् चि॑नु॒यात् - तन्दक्षि॑णाभी राधयेद् अ॒ग्निमे॒व तत् स्पृ॑णोति ॥ [38]
मूलम्
तव्ँ वा ए॒तय्ँ यज॑मान ए॒व चि॑न्वीत ।
यद॑स्या॒न्यश् चि॑नु॒याद् - यत्तन् दक्षि॑णाभि॒र् न रा॒धये॑द् अ॒ग्निम॑स्य वृञ्जीत ।
यो॑ऽस्या॒ग्निञ् चि॑नु॒यात् - तन्दक्षि॑णाभी राधयेद् अ॒ग्निमे॒व तत् स्पृ॑णोति ॥ [38]
भट्टभास्कर-टीका
6तं वा एतमिति ॥ चयनव्यापारं यजमान एव कुर्यात् अध्वर्युरेव मन्त्रान् ब्रूयादिति । अन्यकर्तृकत्वे दोषमाह - यदस्येति । यदन्यश्चिनुयात् तं यदि दक्षिणाभिः प्रभूताभिः न राधयेत् न तोषयेत् सोस्याग्निः अग्निफलानि वृञ्जीत हरेत् । तस्मान्नान्यश्चिनुयात् स्वयमेव चिन्वीतेति । योस्येति पक्षान्तरमनुज्ञायते । तस्मात् स्वयं वाऽन्योवेति विकल्पः । यदा त्वन्यश्चिनोति तं दक्षिणाभिः प्रभूताभिः भृशं राधयेत् । अग्निमेव तेन स्पृणोति प्रीणयति । स्पृ प्रीतौ । अल्पदक्षिणात्वे चेतुरेव फलं स्यात् ॥
इति पञ्चमे षष्ठे नवमोनुवाकः ।