मूलम् (संयुक्तम्)
सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तय्ँयन्नान्वा॒रोहे॑त्सुव॒र्गाल्लो॒काद्यज॑मानो हीयेत
विश्वास-प्रस्तुतिः
सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते ।
यद॒ग्निस् तय्ँ यन्नान्वा॒रोहे॑त् सुव॒र्गाल् लो॒काद् यज॑मानो हीयेत ।
मूलम्
सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते ।
यद॒ग्निस् तय्ँ यन्नान्वा॒रोहे॑त् सुव॒र्गाल् लो॒काद् यज॑मानो हीयेत ।
भट्टभास्कर-टीका
1सुवर्गायेत्यादिरन्वारोहणविधिः ॥ ‘पृथिवीमाक्रमिषं’ इत्यादिना अन्वारोहाख्येन मन्त्रेण पृथिव्यादिक्रमेण अन्वारोहणं सुवर्गावाप्त्यै भवति ॥
मूलम् (संयुक्तम्)
पृथि॒वीमाक्र॑मिषम्प्रा॒णो मा॒ मा हा॑सीद॒न्तरि॑क्ष॒माक्र॑मिषम्प्र॒जा मा॒ मा हा॑सी॒द्दिव॒माक्र॑मिषँ॒ सुव॑रग॒न्मेत्या॑है॒ष वा अ॒ग्नेर॑न्वारो॒हस्तेनै॒वैन॑म॒न्वारो॑हति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒
विश्वास-प्रस्तुतिः
पृ॒थि॒वीमाक्र॑मिषम् प्रा॒णो मा॒ मा हा॑सीत् ।
अ॒न्तरि॑क्ष॒माक्र॑मिषम् प्र॒जा मा॒ मा हा॑सीत् ।
दिव॒माक्र॑मिषँ॒ सुव॑रगन्म + इत्या॑ह ।
ए॒ष वा अ॒ग्नेर॑न्वारो॒हः ।
तेनै॒वैन॑म् अ॒न्वारो॑हति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
मूलम्
पृ॒थि॒वीमाक्र॑मिषम् प्रा॒णो मा॒ मा हा॑सीत् ।
अ॒न्तरि॑क्ष॒माक्र॑मिषम् प्र॒जा मा॒ मा हा॑सीत् ।
दिव॒माक्र॑मिषँ॒ सुव॑रगन्म + इत्या॑ह ।
ए॒ष वा अ॒ग्नेर॑न्वारो॒हः ।
तेनै॒वैन॑म् अ॒न्वारो॑हति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
भट्टभास्कर-टीका
2मन्त्रार्थस्तु - पृथिवीं सर्वामनेन चित्यारोहणेनाक्रमिषं आक्रान्तवानस्मि । ‘नेटि’ इति वृद्धिप्रतिषेधः । तेन प्राणो मा मा हासीत् मा त्याक्षीत् । एवमुत्तरे द्रष्टव्ये । गमेः ‘अस्मदो द्वयोश्च’ इत्येकस्मिन् बहुवचनम् । यद्बा - अनेनाक्रमणेन सपुत्रपौत्रा वयं स्वर्गं गमिष्याम इति । छान्दसे लुङि ‘मन्त्रे घस’ इति च्लेर्लुक् ॥
मूलम् (संयुक्तम्)
यत्प॒क्षस॑म्मिताम्मिनु॒यात् [30]
कनी॑याँसय्ँ यज्ञक्र॒तुमुपे॑या॒त्पापी॑यस्यस्या॒त्मनᳶ॑ प्र॒जा स्या॒द्वेदि॑सम्मिताम्मिनोति॒ ज्यायाँ॑समे॒व य॑ज्ञक्र॒तुमुपै॑ति॒ नास्या॒त्मन॒ᳶ पापी॑यसी प्र॒जा भ॑वति
विश्वास-प्रस्तुतिः
यत्प॒क्षस॑म्मिताम् मिनु॒यात् कनी॑याँसय्ँ यज्ञक्र॒तुमुपे॑या॒त् , पापी॑यस्यस्या॒त्मनᳶ॑ प्र॒जा स्या॑त् ।
वेदि॑सम्मिताम् मिनोति ।
ज्यायाँ॑समे॒व य॑ज्ञक्र॒तुमुपै॑ति ।
नास्या॒त्मन॒ᳶ पापी॑यसी प्र॒जा भ॑वति ।
मूलम्
यत्प॒क्षस॑म्मिताम् मिनु॒यात् कनी॑याँसय्ँ यज्ञक्र॒तुमुपे॑या॒त् , पापी॑यस्यस्या॒त्मनᳶ॑ प्र॒जा स्या॑त् ।
वेदि॑सम्मिताम् मिनोति ।
ज्यायाँ॑समे॒व य॑ज्ञक्र॒तुमुपै॑ति ।
नास्या॒त्मन॒ᳶ पापी॑यसी प्र॒जा भ॑वति ।
भट्टभास्कर-टीका
3यत्पक्षसंमितां मिनुयादिति ॥ एकयूपो वैकादशिनी वा कर्तव्येति तत्रैकादशिन्यां विशेष उच्यते - यदि पक्षसम्मितां पक्षोच्छ्रायामेकादशिनीं मिनुयात् प्रक्षिपेत् स्थापयेत् । डुमिञ् प्रक्षेपणे । कनीयांसमल्पतरमेव यज्ञक्रतुमुपेयात्, न ज्यायांसम् । किञ्च - अस्य यजमानस्य आत्मीया प्रजा पापीयसी पापतरा स्यात् तस्माद्वेदिसम्मितां मिनोतीति विधिः । ज्यायांसमेवेत्यादिना उक्तदोषाभावमाचष्टे ॥
मूलम् (संयुक्तम्)
साह॒स्रञ्चि॑न्वीत प्रथ॒मञ्चि॑न्वा॒नस्स॒हस्र॑सम्मितो॒ वा अ॒यल्ँ लो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒
विश्वास-प्रस्तुतिः
सा॒ह॒स्रञ् चि॑न्वीत प्रथ॒मञ् चि॑न्वा॒नः ।
स॒हस्र॑सम्मितो॒ वा अ॒यल्ँ लो॒कः ।
इ॒ममे॒व लो॒कम॒भि ज॑यति ।
मूलम्
सा॒ह॒स्रञ् चि॑न्वीत प्रथ॒मञ् चि॑न्वा॒नः ।
स॒हस्र॑सम्मितो॒ वा अ॒यल्ँ लो॒कः ।
इ॒ममे॒व लो॒कम॒भि ज॑यति ।
भट्टभास्कर-टीका
4साहस्रमिति ॥ साहस्रमिष्टकानां परिमाणं अस्येति ‘शतमानविंशतिक’ इत्यण् । साहस्रमग्निं चित्वा प्रथमं चिन्वानः । सहस्रसम्मित इति प्राथम्यसाम्यात् सहस्रेण तुल्यम् । उपमानपूर्वपदप्रकृतिस्वरत्वम् । यथा सहस्रेण सम्यङ्निर्वर्तितः पशस्ततर इत्यर्थः । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
द्विषा॑हस्रञ्चिन्वीत द्वि॒तीय॑ञ्चिन्वा॒नो द्विषा॑हस्रव्ँ॒ वा अ॒न्तरि॑क्षम॒न्तरि॑क्षमे॒वाभि ज॑यति॒
विश्वास-प्रस्तुतिः
द्विषा॑हस्रञ्चिन्वीत द्वि॒तीय॑ञ्चिन्वा॒नः ।
द्विषा॑हस्रव्ँ॒ वा अ॒न्तरि॑क्षम् ।
अ॒न्तरि॑क्षमे॒वाभि ज॑यति ।
मूलम्
द्विषा॑हस्रञ्चिन्वीत द्वि॒तीय॑ञ्चिन्वा॒नः ।
द्विषा॑हस्रव्ँ॒ वा अ॒न्तरि॑क्षम् ।
अ॒न्तरि॑क्षमे॒वाभि ज॑यति ।
भट्टभास्कर-टीका
5द्विषाहस्रमिति ॥ द्वे सहस्रे परिमाणस्य प्राग्वत् ‘संख्यापूर्वपदानां तदन्तग्रहणमलुकि’ इति शतमानादिना अण्, ‘अव्यर्धपूर्वाद्द्विगोः’ इति प्राप्तस्य लुको ‘विभाषा कार्षापणसहस्राभ्याम्’ इति अभावः, ‘संख्यायास्संवत्सरसख्ययस्य च’ इति उत्तरपदवृद्धिः, सुषामादित्वात् षत्वम्, ‘द्विगौ प्रमाणे’ इति पूर्वपदप्रकृतिस्वरत्वम् । द्विषाहस्रं वा अन्तरिक्षमिति । मध्यमत्वेन द्विषाहस्राग्निसाधर्म्यात् ताच्छब्द्यम् । मनुष्यलोकाद्वा सहस्रसम्मितात् प्रशस्ततरत्वं ख्यापयितुं द्विषाहस्रमित्युक्तम् ॥
मूलम् (संयुक्तम्)
त्रिषा॑हस्रञ्चिन्वीत तृ॒तीय॑ञ्चिन्वा॒नः [31]
त्रिषा॑हस्रो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति
विश्वास-प्रस्तुतिः
त्रिषा॑हस्रञ् चिन्वीत, तृ॒तीय॑ञ् चिन्वा॒नः । [31]
त्रिषा॑हस्रो॒ वा अ॒सौ लो॒कः ।
अ॒मुमे॒व लो॒कम॒भि ज॑यति ।
मूलम्
त्रिषा॑हस्रञ् चिन्वीत, तृ॒तीय॑ञ् चिन्वा॒नः । [31]
त्रिषा॑हस्रो॒ वा अ॒सौ लो॒कः ।
अ॒मुमे॒व लो॒कम॒भि ज॑यति ।
भट्टभास्कर-टीका
6त्रिषाहस्रमित्यादि ॥
मूलम् (संयुक्तम्)
जानुद॒घ्नञ्चि॑न्वीत प्रथ॒मञ्चि॑न्वा॒नो गा॑यत्रि॒यैवेमल्ँ लो॒कम॒भ्यारो॑हति नाभिद॒घ्नञ्चि॑न्वीत द्वि॒तीय॑ञ्चिन्वा॒नस्त्रि॒ष्टुभै॒वान्तरि॑क्षम॒भ्यारो॑हति
विश्वास-प्रस्तुतिः
जा॒नु॒द॒घ्नञ्चि॑न्वीत प्रथ॒मञ् चि॑न्वा॒नः ।
गा॒य॒त्रि॒यैवेमल्ँ लो॒कम॒भ्यारो॑हति ।
ना॒भि॒ध॒घ्नञ् चि॑न्वीत, द्वि॒तीय॑ञ् चिन्वा॒नः ।
त्रि॒ष्टुभै॒वान्तरि॑क्षम् अ॒भ्यारो॑हति ।
मूलम्
जा॒नु॒द॒घ्नञ्चि॑न्वीत प्रथ॒मञ् चि॑न्वा॒नः ।
गा॒य॒त्रि॒यैवेमल्ँ लो॒कम॒भ्यारो॑हति ।
ना॒भि॒ध॒घ्नञ् चि॑न्वीत, द्वि॒तीय॑ञ् चिन्वा॒नः ।
त्रि॒ष्टुभै॒वान्तरि॑क्षम् अ॒भ्यारो॑हति ।
भट्टभास्कर-टीका
7जानुदघ्नमित्यादि ॥ ‘प्रमाणे द्वयसच्’ इति दघ्नच् । गायत्र्यादीनां प्राथम्यादिभिः जानुदघ्न्याद्यानुरूप्यम् ॥
मूलम् (संयुक्तम्)
ग्रीवद॒घ्नञ्चि॑न्वीत तृ॒तीय॑ञ्चिन्वा॒नो जग॑त्यै॒वामुल्ँ लो॒कम॒भ्यारो॑हति॒
विश्वास-प्रस्तुतिः
ग्री॒व॒द॒घ्नञ् चि॑न्वीत, तृ॒तीय॑ञ् चिन्वा॒नः ।
जग॑त्यै॒वामुल्ँ लो॒कम॒भ्यारो॑हति ।
मूलम्
ग्री॒व॒द॒घ्नञ् चि॑न्वीत, तृ॒तीय॑ञ् चिन्वा॒नः ।
जग॑त्यै॒वामुल्ँ लो॒कम॒भ्यारो॑हति ।
भट्टभास्कर-टीका
8ग्रीवदघ्नमिति ॥ ‘ङ्यापोस्संज्ञाच्छन्दसोः’ इति ह्रस्वत्वम् ॥
मूलम् (संयुक्तम्)
नाग्निञ्चि॒त्वा रा॒मामुपे॑यादयो॒नौ रेतो॑ धास्या॒मीति॒ न द्वि॒तीय॑ञ्चि॒त्वान्यस्य॒ स्त्रिय॑म् [32]
उपे॑या॒न्न तृ॒तीय॑ञ्चि॒त्वा काञ्च॒नोपे॑या॒द्रेतो॒ वा ए॒तन्नि ध॑त्ते॒ यद॒ग्निञ्चि॑नु॒ते यदु॑पे॒याद्रेत॑सा॒ व्यृ॑ध्ये॒त…
विश्वास-प्रस्तुतिः
नाग्निञ् चि॒त्वा रा॒मामुपे॑यादयो॒नौ रेतो॑ धास्यामि + इति॑ ।
न द्वि॒तीय॑ञ् चि॒त्वान्यस्य॒ स्त्रिय॒म् उपे॑यात् ।
न तृ॒तीय॑ञ् चि॒त्वा काञ्च॒नोपे॑यात् ।
रेतो॒ वा ए॒तन् नि ध॑त्ते॒ यद॒ग्निञ् चि॑नु॒ते ।
यदु॑पे॒याद् - रेत॑सा॒ व्यृ॑ध्येत ।
मूलम्
नाग्निञ् चि॒त्वा रा॒मामुपे॑यादयो॒नौ रेतो॑ धास्यामि + इति॑ ।
न द्वि॒तीय॑ञ् चि॒त्वान्यस्य॒ स्त्रिय॒म् उपे॑यात् ।
न तृ॒तीय॑ञ् चि॒त्वा काञ्च॒नोपे॑यात् ।
रेतो॒ वा ए॒तन् नि ध॑त्ते॒ यद॒ग्निञ् चि॑नु॒ते ।
यदु॑पे॒याद् - रेत॑सा॒ व्यृ॑ध्येत ।
भट्टभास्कर-टीका
9नाग्निं चित्वेति ॥ रत्यर्थां रामां अप्रजार्थं प्रथममग्निं चित्वा तां नोपेयात् । द्वितीयाद्यभिगम्य गमननिषेधहेतुमाह - अयोनाविति । अयोग्यायां योनौ रेतो धास्यामि वृधा स्थापयामि यद्युपेयामित्यनेन अभिप्रायेण रामां नोपेयात् । न द्वितीयमिति । अन्यस्य क्षत्रियादेः स्त्रियं नोपेयात् । प्रथमागमनेऽप्यसवर्णा निषिध्यते । न तृतीयमिति । प्रथमाभिगमन एव सवर्णाया अपि निषेधः । प्रार्थिनीमपि नोपेयात् सवर्णामपि । सर्वेष्वपि पक्षेषु हेयमाह - रेतो वा इति । अग्निं चिन्वानो हि रेतसो निधानं करोति । सयद्युपेयात् स्त्रियं रेतसा व्यृद्धस्यात् हतरेतस्कस्य तस्य न युज्यते कथं रेतो धातुमारब्धो व्ययमस्य कुर्यात्, तस्मान्नोपेयादिति ॥
मूलम् (संयुक्तम्)
अथो॒ खल्वा॑हुरप्रज॒स्यन्तद्यन्नोपे॒यादिति॒ यद्रे॑त॒स्सिचा॑वुप॒दधा॑ति॒ ते ए॒व यज॑मानस्य॒ रेतो॑ बिभृत॒स्तस्मा॒दुपे॑या॒द्रेत॒सोऽस्क॑न्दाय॒
विश्वास-प्रस्तुतिः
अथो॒ खल्वा॑हुर् - अप्रज॒स्यन्तद्यन्नोपे॒यात् + इति॑ ।
यद् रे॑त॒स् सिचा॑वुप॒दधा॑ति॒ ते ए॒व यज॑मानस्य॒ रेतो॑ बिभृतः ।
तस्मा॒दुपे॑या॒द् रेत॒सोऽस्क॑न्दाय ।
मूलम्
अथो॒ खल्वा॑हुर् - अप्रज॒स्यन्तद्यन्नोपे॒यात् + इति॑ ।
यद् रे॑त॒स् सिचा॑वुप॒दधा॑ति॒ ते ए॒व यज॑मानस्य॒ रेतो॑ बिभृतः ।
तस्मा॒दुपे॑या॒द् रेत॒सोऽस्क॑न्दाय ।
भट्टभास्कर-टीका
10अथैतद्दूषयति - अथो खल्वाहुरिति ॥ न विद्यते प्रजाऽस्येति अप्रजाः । ‘नित्यमसिच्प्रजामेधयोः’ इत्यसिच् । अप्रजसमर्हतीत्यप्रजस्यम् । ‘छन्दसि च’ इति यप्रत्ययः । यदुक्तं तन्नोपेयादिति तदप्रजस्यं प्रजाविच्छेदहेतुः; तस्मादुपेयादिति । तृतीयां चितवतः सवर्णां प्रति प्रतिप्रसवः आनन्तर्यादित्येके । रामाभिगमन एव निषेधे हेतुत्वाभिधानात् । तस्मादुपेयादेव । (विप्रसृजदेवाढं) रेतसोस्कन्दनाय अशोषाय इतरधा शुष्करेता अप्रजाः स्यादिति अपरा योजना । ते एव रेतस्सिचौ यत्र क्वाप्युत्सृष्टं रेतो बिभ्रतः परिगृह्णीतः, तस्मादुपेयादेव स्वयम् । एवमपि रेतसोस्कन्दाय अविनाशाय भवत्येवोपगमनभिति ॥
मूलम् (संयुक्तम्)
त्रीणि॒ वाव रेताँ॑सि पि॒ता पु॒त्रᳶ पौत्रः॑ [33]
यद्द्वे रे॑त॒स्सिचा॑वुपद॒ध्याद्रेतो॑ऽस्य॒ विच्छि॑न्द्यात्ति॒स्र उप॑ दधाति॒ रेत॑स॒स्सन्त॑त्या
विश्वास-प्रस्तुतिः
त्रीणि॒ वाव रेताँ॑सि पि॒ता पु॒त्रᳶ पौत्रः॑ । [33]
यद् द्वे रे॑त॒स् सिचा॑वुपद॒ध्याद् रेतो॑ऽस्य॒ विच्छि॑न्द्यात् ।
ति॒स्र उप॑ दधाति॒, रेत॑स॒स् सन्त॑त्यै ।
मूलम्
त्रीणि॒ वाव रेताँ॑सि पि॒ता पु॒त्रᳶ पौत्रः॑ । [33]
यद् द्वे रे॑त॒स् सिचा॑वुपद॒ध्याद् रेतो॑ऽस्य॒ विच्छि॑न्द्यात् ।
ति॒स्र उप॑ दधाति॒, रेत॑स॒स् सन्त॑त्यै ।
भट्टभास्कर-टीका
11त्रीणि वावेत्यादि ॥ त्रित्वविधिः । त्रीणि रेतांसि पित्रादिनामानि एकमेव रेत इत्थं त्रिधा भिन्नमिति । तत्र द्वयोःरेतस्सिचोरुपधाने एकविषयं यजमानस्य रेतो विच्छिन्द्यात् नश्येत् । तस्मात्तिस्र उपधेया इति । रेतसोऽविच्छेदाय भवत्येवं क्रियमाणमिति ॥
मूलम् (संयुक्तम्)
इ॒यव्ँ वाव प्र॑थ॒मा रे॑त॒स्सिग्वाग्वा इ॒यन्तस्मा॒त्पश्य॑न्ती॒माम्पश्य॑न्ति॒ वाचव्ँ॒वद॑न्तीम॒न्तरि॑क्षन्द्वि॒तीया॑ प्रा॒णो वा अ॒न्तरि॑क्ष॒न्तस्मा॒न्नान्तरि॑क्ष॒म्पश्य॑न्ति॒ न प्रा॒णम॒सौ तृ॒तीया॒ चक्षु॒र्वा अ॒सौ तस्मा॒त्पश्य॑न्त्य॒मूम्पश्य॑न्ति॒ चक्षु॒र्…
विश्वास-प्रस्तुतिः
इ॒यव्ँ वाव प्र॑थ॒मा रे॑त॒स्सिग्वाग्वा इ॒यन् , तस्मा॒त् पश्य॑न्ती॒माम्पश्य॑न्ति॒ वाचव्ँ॒ वद॑न्तीम् ।
अ॒न्तरि॑क्षन् द्वि॒तीया॑ प्रा॒णो वा अ॒न्तरि॑क्ष॒न्, तस्मा॒न् नान्तरि॑क्ष॒म् पश्य॑न्ति॒, न प्रा॒णम् ।
अ॒सौ तृ॒तीया॒ चक्षु॒र् वा अ॒सौ, तस्मा॒त् पश्य॑न्त्य् अ॒मूम् पश्य॑न्ति॒ चक्षुः॑ ।
मूलम्
इ॒यव्ँ वाव प्र॑थ॒मा रे॑त॒स्सिग्वाग्वा इ॒यन् , तस्मा॒त् पश्य॑न्ती॒माम्पश्य॑न्ति॒ वाचव्ँ॒ वद॑न्तीम् ।
अ॒न्तरि॑क्षन् द्वि॒तीया॑ प्रा॒णो वा अ॒न्तरि॑क्ष॒न्, तस्मा॒न् नान्तरि॑क्ष॒म् पश्य॑न्ति॒, न प्रा॒णम् ।
अ॒सौ तृ॒तीया॒ चक्षु॒र् वा अ॒सौ, तस्मा॒त् पश्य॑न्त्य् अ॒मूम् पश्य॑न्ति॒ चक्षुः॑ ।
भट्टभास्कर-टीका
12इयं वावेत्यादि ॥ रेतस्सिचां स्तुतिः । पृथिव्येव प्रथमा रेतस्स्यात् प्राथम्यसामान्यात् । वागेव पृथिवी अधोभावसामान्यात् । इदानीं पृथिव्या वाक्त्वं द्वयोस्समानधर्मतया समर्थयते - तस्मादिति । यस्माद्बागेव पृथिवी तस्मात्सर्वेऽपि पृथिवीं पश्यन्ति प्रत्यक्षेण गृह्णन्ति । वाचं वदन्तीं उच्चरन्तीं पश्यन्तीं शृण्वन्तीं प्रत्यक्षेणैव गृह्णन्ति । अन्तरिक्षं द्वितीयेति । मध्यमत्वसामान्यात् । प्राणो वा इत्यादि । मध्यमभावादेव नासिकावृत्तित्वात् । तस्मादिति । प्राणान्तरिक्षयोरप्यप्रत्यक्षमिति । असौ तृतीयेति । चरमभावित्वसामान्यात् । चक्षुर्वा इत्युपरिभावसामान्यात् । तस्माद्य चक्षुषोः प्रत्यक्षत्वमिति ॥
मूलम् (संयुक्तम्)
यजु॑षे॒माञ्च॑ [34]
अ॒मूञ्चोप॑ दधाति॒ मन॑सा मध्य॒मामे॒षाल्ँ लो॒काना॒ङ्कॢप्त्या॒ अथो॑ प्रा॒णाना॑म्…
विश्वास-प्रस्तुतिः
यजु॑षे॒माञ्च अ॒मूञ्चोप॑ दधाति॒, मन॑सा मध्य॒माम् ।
ए॒षाल्ँ लो॒काना॒ङ् कॢप्त्यै॑ ।
अथो॑ प्रा॒णाना॑म् ।
मूलम्
यजु॑षे॒माञ्च अ॒मूञ्चोप॑ दधाति॒, मन॑सा मध्य॒माम् ।
ए॒षाल्ँ लो॒काना॒ङ् कॢप्त्यै॑ ।
अथो॑ प्रा॒णाना॑म् ।
भट्टभास्कर-टीका
13यजुषेति ‘विराट् ज्योतिरधारयत्’ इति । नमसा मध्यमां एषां लोकानां कॢप्त्यै आप्त्यै भवति । अथो अपि च प्राणानां च कॢप्त्यै विधारणार्थं भवतीति स्तुतिः ॥
मूलम् (संयुक्तम्)
इ॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भि॒स्तस्य॑ त इ॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑णे॒ह भ॑क्षी॒येत्या॑ह स्तुतश॒स्त्रे ए॒वैतेन॑ दुहे
विश्वास-प्रस्तुतिः
इ॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भि॒स् तस्य॑ त इ॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑णे॒ह भ॑क्षी॒येत्या॑ह ।
स्तु॒त॒श॒स्त्रे ए॒वैतेन॑ दुहे ।
मूलम्
इ॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भि॒स् तस्य॑ त इ॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑णे॒ह भ॑क्षी॒येत्या॑ह ।
स्तु॒त॒श॒स्त्रे ए॒वैतेन॑ दुहे ।
भट्टभास्कर-टीका
14स्तुतशस्त्रयोर्दोहं वाचयति - इष्टो यज्ञ इति ॥ एतस्य वचनेन स्तुतशस्त्रे दुहे दुग्धे फलानि स्तुतशस्त्रसाध्यानि । ‘लोपस्त आत्मनेपदेषु’ इति लोपः । मन्त्रार्थस्तु इष्टः सम्यक् निर्वर्तितः भृगुभिः भृगुकुलैः ऋत्विग्भिः आशीर्दाः - आशिषां फलानां च दाता च कृतः वसुभिः । यद्वा - यो यज्ञे भृगुभिः वसुभिश्च इष्टः आशीर्दाः तस्य तादृशस्य इष्टस्य वीतस्य कान्तस्य आशिषः द्रविणा द्रविणानि इह भक्षय भजेय हे यज्ञ! अस्मदीय! ॥
मूलम् (संयुक्तम्)
पि॒ता मा॑त॒रिश्वाच्छि॑द्रा प॒दा धा॒ अच्छि॑द्रा उ॒शिजᳶ॑ प॒दानु॑ तक्षु॒स्सोमो॑ विश्व॒विन्ने॒ता ने॑ष॒द्बृह॒स्पति॑रुक्थाम॒दानि॑ शँसिष॒दित्या॑है॒तद्वा अ॒ग्नेरु॒क्थन्तेनै॒वैन॒मनु॑ शँसति ॥ [35]
विश्वास-प्रस्तुतिः
पि॒ता मा॑त॒रिश्वाच्छि॑द्रा प॒दा धा॒ अच्छि॑द्रा उ॒शिजᳶ॑ प॒दानु॑ तक्षु॒स् ,
सोमो॑ विश्व॒विन् ने॒ता ने॑ष॒द् - बृह॒स्पति॑रुक्थाम॒दानि॑ शँसिष॒दित्या॑ह ।
ए॒तद् वा अ॒ग्नेर् उ॒क्थम् ।
तेनै॒वैन॒मनु॑ शँसति ॥ [35]
मूलम्
पि॒ता मा॑त॒रिश्वाच्छि॑द्रा प॒दा धा॒ अच्छि॑द्रा उ॒शिज॑ᳶ प॒दानु॑ तक्षु॒स् ,
सोमो॑ विश्व॒विन् ने॒ता ने॑ष॒द् - बृह॒स्पति॑रुक्थाम॒दानि॑ शँसिष॒दित्या॑ह ।
ए॒तद् वा अ॒ग्नेर् उ॒क्थम् ।
तेनै॒वैन॒मनु॑ शँसति ॥ [35]
भट्टभास्कर-टीका
15पिता मातरिश्वेत्यग्निमनुशंसति ॥ त्रिष्टुबेषा । एष मन्त्रोग्नेरुक्थ्यं शस्त्रं तेनैवैनमग्निमनुशंसति मन्त्रार्थस्तु- हे अग्ने! पिता मातरिश्वा अछिद्रा पदा अछिद्राणि पदानि भोगस्थानानि धाः । दधातेर्लेटि पुरुषव्यत्ययः, ‘बहुलं छन्दसि’ इति शापो लुक् । किञ्च - उशिजः कामना अर्थात् तान्यच्छिद्रपदानि अनुतक्षुः अनुक्रमेण संस्कुर्वन्तु । तक्षेश्शपो लोपः । अविनाशा वा उशिजः मन्त्रदृशः ऋषयः तानि पदानि अनन्तरं संस्कुर्वन्तु । सोमश्च विश्ववित् विश्ववेदी विश्वस्य च नेता नेषन् नयतु तानि पदानि ध्रुवाणि करोतु । बृहस्पतिः उक्थामदानि स्तोत्रशस्त्राणि शंसिषत् शंसतु । उभयत्रापि ‘सिब्बहुलं लेटि’ इति सिप् ‘लेटोडाटौ’ इत्यडागमः ॥
इति पञ्चमे षष्ठे अष्टमोनुवाकः ॥