मूलम् (संयुक्तम्)
अ॒ग्नेर्वै दी॒क्षया॑ दे॒वा वि॒राज॑माप्नुवन्ति॒स्रो रात्री॑र्दीक्षि॒तस्स्या॑त्त्रि॒पदा॑ वि॒राड्वि॒राज॑माप्नोति॒
विश्वास-प्रस्तुतिः
अ॒ग्नेर्वै दी॒क्षया॑ दे॒वा वि॒राज॑माप्नुवन् ।
ति॒स्रो रात्री॑र् दीक्षि॒तस् स्या॑त् ।
त्रि॒पदा॑ वि॒राट् । वि॒राज॑माप्नोति ।
मूलम्
अ॒ग्नेर्वै दी॒क्षया॑ दे॒वा वि॒राज॑माप्नुवन् ।
ति॒स्रो रात्री॑र् दीक्षि॒तस् स्या॑त् ।
त्रि॒पदा॑ वि॒राट् । वि॒राज॑माप्नोति ।
भट्टभास्कर-टीका
1अग्नेर्वै दीक्षयेत्यादि ॥ त्रिरात्रादिदीक्षाविधिः । दीक्षा मौण्ड्यादिलक्षणा । तिस्रादेशस्य ‘उदात्तयणः’ इति शस उदात्तत्वम् । त्रिभिर्दशकैर्विराडिति दशकाः पादाः ॥
मूलम् (संयुक्तम्)
षड्वा ऋ॒तव॑स्सव्ँवत्स॒रस्सव्ँ॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति॒
विश्वास-प्रस्तुतिः
षड्वा ऋ॒तव॑स् सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रो वि॒राट् ।
वि॒राज॑माप्नोति ।
मूलम्
षड्वा ऋ॒तव॑स् सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रो वि॒राट् ।
वि॒राज॑माप्नोति ।
भट्टभास्कर-टीका
2षड्वा इति ॥ षट्त्वान्वयात् षडृत्ववयवसंवत्सरात्मकविराड्लाभः । एवं सर्वत्र ॥
मूलम् (संयुक्तम्)
दश॒ रात्री॑र्दीक्षि॒तस्स्या॒द्दशा॑क्षरा वि॒राड्वि॒राज॑माप्नोति॒
विश्वास-प्रस्तुतिः
दश॒ रात्री॑र् दीक्षि॒तस् स्या॑त् ।
दशा॑क्षरा वि॒राट् ।
वि॒राज॑माप्नोति ।
मूलम्
दश॒ रात्री॑र् दीक्षि॒तस् स्या॑त् ।
दशा॑क्षरा वि॒राट् ।
वि॒राज॑माप्नोति ।
भट्टभास्कर-टीका
3दशाक्षरेति ॥ दशाक्षरपदा ॥
मूलम् (संयुक्तम्)
द्वाद॑श॒ रात्री॑र्दीक्षि॒तस्स्या॒द्द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति॒
विश्वास-प्रस्तुतिः
द्वाद॑श॒ रात्री॑र् दीक्षि॒तस् स्या॑त् ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रो वि॒राट् ।
वि॒राज॑माप्नोति ।
मूलम्
द्वाद॑श॒ रात्री॑र् दीक्षि॒तस् स्या॑त् ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रो वि॒राट् ।
वि॒राज॑माप्नोति ।
भट्टभास्कर-टीका
4द्वादशेति सौराः मासाः ॥ द्वौ च दश च द्वादश । ‘सङ्ख्या’ इति पूर्वपदप्रकतिस्वरत्वम् । एवं सर्वत्र ॥
मूलम् (संयुक्तम्)
त्रयो॑दश॒ रात्री॑र्दीक्षि॒तस्स्या॒त्त्रयो॑दश [27]
मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति॒
विश्वास-प्रस्तुतिः
त्रयो॑दश॒ रात्री॑र् दीक्षि॒तस् स्या॑त् ।
त्रयो॑दश मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रो वि॒राट् ।
वि॒राज॑माप्नोति ।
मूलम्
त्रयो॑दश॒ रात्री॑र् दीक्षि॒तस् स्या॑त् ।
त्रयो॑दश मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रो वि॒राट् ।
वि॒राज॑माप्नोति ।
भट्टभास्कर-टीका
5त्रयोदश मासा इति ॥ अधिकमासेन त्रयोदशचान्द्रमासाः । सौरचान्द्रान्तराळमधिकमारभते । यथोक्तम् - अधिमासका युगे तैरधिमासेम्योधिकास्तु ये चान्द्राः । इति ॥
मूलम् (संयुक्तम्)
पञ्च॑दश॒ रात्री॑र्दीक्षि॒तस्स्या॒त्पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शस्सव्ँ॑वत्स॒र आ॑प्यते सव्ँवत्स॒रो वि॒राड्वि॒राज॑माप्नोति
विश्वास-प्रस्तुतिः
पञ्च॑दश॒ रात्री॑र्दीक्षि॒तस् स्या॑त् ।
पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः ।
अ॒र्ध॒मा॒सशस् सव्ँ॑वत्स॒र आ॑प्यते ।
सव्ँ॒व॒त्स॒रो वि॒राट् ।
वि॒राज॑माप्नोति ।
मूलम्
पञ्च॑दश॒ रात्री॑र्दीक्षि॒तस् स्या॑त् ।
पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः ।
अ॒र्ध॒मा॒सशस् सव्ँ॑वत्स॒र आ॑प्यते ।
सव्ँ॒व॒त्स॒रो वि॒राट् ।
वि॒राज॑माप्नोति ।
भट्टभास्कर-टीका
6पञ्चदशेति ॥ सावनस्य मासस्य । यथाऽऽहुः - ‘त्रिंशदुष्णकरोदयः सावनः’ इति । अर्धमासश इति । अर्धमासेनार्धमासेन । ‘संख्यैकवचनाच्च’ इति शस् ॥
मूलम् (संयुक्तम्)
स॒प्तद॑श॒ रात्री॑र्दीक्षि॒तस्स्या॒द्द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तव॒स्स सव्ँ॑वत्स॒रस्सव्ँ॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति॒
विश्वास-प्रस्तुतिः
स॒प्तद॑श॒ रात्री॑र्दीक्षि॒तस् स्या॑त् ।
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तव॒स् स सव्ँ॑वत्स॒रः ।
सव्ँ॒व॒त्स॒रो वि॒राट् ।
वि॒राज॑माप्नोति ।
मूलम्
स॒प्तद॑श॒ रात्री॑र्दीक्षि॒तस् स्या॑त् ।
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तव॒स् स सव्ँ॑वत्स॒रः ।
सव्ँ॒व॒त्स॒रो वि॒राट् ।
वि॒राज॑माप्नोति ।
भट्टभास्कर-टीका
7पञ्चर्तत । इति ॥ हेमन्तशिशिरयोरेकत्वात् । दृष्टं हि सहानुमन्त्रणं ‘हेमन्तशिशिरावृतूनां प्रीणामि’ इति । संवत्सर इति । सप्तदशसंख्यान्वयात् ॥
मूलम् (संयुक्तम्)
चतु॑र्विँशतिँ॒ रात्री॑र्दीक्षि॒तस्स्या॒च्चतु॑र्विँशतिरर्धमा॒सास्सव्ँ॑वत्स॒रस्सव्ँ॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति
विश्वास-प्रस्तुतिः
चतु॑र्विँशतिँ॒ रात्री॑र्दीक्षि॒तस् स्या॑त् ।
चतु॑र्विँशतिरर्धमा॒सास् सव्ँ॑वत्स॒रः ।
सव्ँ॒व॒त्स॒रो वि॒राट् ।
वि॒राज॑माप्नोति ।
मूलम्
चतु॑र्विँशतिँ॒ रात्री॑र्दीक्षि॒तस् स्या॑त् ।
चतु॑र्विँशतिरर्धमा॒सास् सव्ँ॑वत्स॒रः ।
सव्ँ॒व॒त्स॒रो वि॒राट् ।
वि॒राज॑माप्नोति ।
भट्टभास्कर-टीका
8चतुर्विंशतिमिति ॥ चान्द्रास्सांशाः, अन्ये निरंशाः ॥
मूलम् (संयुक्तम्)
त्रिँ॒शतँ॒ रात्री॑र्दीक्षि॒तस्स्या॑त् [28]
त्रिँ॒शद॑क्षरा वि॒राड्वि॒राज॑माप्नोति॒
विश्वास-प्रस्तुतिः
त्रिँ॒शतँ॒ रात्री॑र् दीक्षि॒तस् स्या॑त् । [28]
त्रिँ॒शद॑क्षरा वि॒राट् ।
वि॒राज॑माप्नोति ।
मूलम्
त्रिँ॒शतँ॒ रात्री॑र् दीक्षि॒तस् स्या॑त् । [28]
त्रिँ॒शद॑क्षरा वि॒राट् ।
वि॒राज॑माप्नोति ।
भट्टभास्कर-टीका
9त्रिंशतं रात्रीरिति ॥ सावनसम्बन्धिनीः ॥
मूलम् (संयुक्तम्)
मास॑न्दीक्षि॒तस्स्या॒द्यो मास॒स्स सव्ँ॑वत्स॒रस्सव्ँ॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति
विश्वास-प्रस्तुतिः
मास॑न्दीक्षि॒तस् स्या॑त् ।
यो मास॒स् स सव्ँ॑वत्स॒रः ।
सव्ँ॒व॒त्स॒रो वि॒राट् ।
वि॒राज॑माप्नोति ।
मूलम्
मास॑न्दीक्षि॒तस् स्या॑त् ।
यो मास॒स् स सव्ँ॑वत्स॒रः ।
सव्ँ॒व॒त्स॒रो वि॒राट् ।
वि॒राज॑माप्नोति ।
भट्टभास्कर-टीका
10मासमिति ॥ सौरश्चान्द्र आर्क्षो वा गृह्यते । सर्वेऽप्येते क्षयवृद्धियोगान्नैकान्ततः त्रिंशद्दिवसाः । तत्र सौरस्संक्रमात् संक्रमः, चान्द्रः दर्शाद्दर्शः, आर्क्षश्चन्द्रस्यर्क्षेण योगः । यो मास इति । अवयवावयविनोरनत्यन्तभेदात् ॥
मूलम् (संयुक्तम्)
च॒तुरो॑ मा॒सो दी॑क्षि॒तस्स्या॑च्च॒तुरो॒ वा ए॒तम्मा॒सो वस॑वोऽबिभरु॒स्ते पृ॑थि॒वीमाज॑यन्गाय॒त्रीञ्छन्दो॒ऽष्टौ रु॒द्रास्ते॑ऽन्तरि॑क्ष॒माज॑यन्त्रि॒ष्टुभ॒ञ्छन्दो॒ द्वाद॑शादि॒त्यास्ते दिव॒माज॑य॒ञ्जग॑ती॒ञ्छन्द॒स्ततो॒ वै ते व्या॒वृत॑मगच्छ॒ञ्छ्रैष्ठ्य॑न्दे॒वाना॒म्…
विश्वास-प्रस्तुतिः
च॒तुरो॑ मा॒सो दी॑क्षि॒तस् स्या॑त् ।
च॒तुरो॒ वा ए॒तम् मा॒सो वस॑वोऽबिभरु॒स् ते पृ॑थि॒वीमाज॑यन् गाय॒त्रीञ् छन्दः॑ ।
अ॒ष्टौ रु॒द्रास् ते॑ऽन्तरि॑क्ष॒माज॑यन् त्रि॒ष्टुभ॒ञ् छन्दः॑ ।
द्वाद॑शादि॒त्यास्, ते दिव॒माज॑य॒ञ् जग॑ती॒ञ् छन्दः॑ ।
ततो॒ वै ते व्या॒वृत॑मगच्छ॒ञ् छ्रैष्ठ्य॑न् दे॒वानाम् ।
मूलम्
च॒तुरो॑ मा॒सो दी॑क्षि॒तस् स्या॑त् ।
च॒तुरो॒ वा ए॒तम् मा॒सो वस॑वोऽबिभरु॒स् ते पृ॑थि॒वीमाज॑यन् गाय॒त्रीञ् छन्दः॑ ।
अ॒ष्टौ रु॒द्रास् ते॑ऽन्तरि॑क्ष॒माज॑यन् त्रि॒ष्टुभ॒ञ् छन्दः॑ ।
द्वाद॑शादि॒त्यास्, ते दिव॒माज॑य॒ञ् जग॑ती॒ञ् छन्दः॑ ।
ततो॒ वै ते व्या॒वृत॑मगच्छ॒ञ् छ्रैष्ठ्य॑न् दे॒वानाम् ।
भट्टभास्कर-टीका
11चतुरो वा इत्यादि ॥ एतमुख्यं चतुरो मासो वसवो धारयन् । तेन पृथिवीं गायत्रीं च ते आभिमुख्येनाजयन् । अष्टौ रुद्रा इति । अष्टौ मासः रुद्रा अबिभरुः । द्वादशादित्या इति । द्वादश मास आदित्या अबिभरुः । ततस्ते वसुरुद्रादित्या व्यावृतं व्यावृत्तिं देवान्तरेभ्योऽगच्छन् श्रैष्ठ्यं प्रशस्ततां च ॥
मूलम् (संयुक्तम्)
तस्मा॒द्द्वाद॑श मा॒सो भृ॒त्वाग्निञ्चि॑न्वीत॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रो॑ऽग्निश्चित्य॒स्तस्या॑होरा॒त्राणीष्ट॑का आ॒प्तेष्ट॑कमेनञ्चिनु॒तेऽथो॑ व्या॒वृत॑मे॒व ग॑च्छति॒ श्रैष्ठ्यँ॑ समा॒नाना॑म् ॥ [29]
विश्वास-प्रस्तुतिः
तस्मा॒द् द्वाद॑श मा॒सो भृ॒त्वाऽग्निञ् चि॑न्वीत ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रो॑ ऽग्निश् चित्यः॑ ।
तस्या॑होरा॒त्राणीष्ट॑काः ।
आ॒प्तेष्ट॑कमेनञ् चिनु॒तेऽथो॑ व्या॒वृत॑मे॒व ग॑च्छति॒ श्रैष्ठ्यँ॑ समा॒नाना॑म् ॥ [29]
मूलम्
तस्मा॒द् द्वाद॑श मा॒सो भृ॒त्वाऽग्निञ् चि॑न्वीत ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रो॑ ऽग्निश् चित्यः॑ ।
तस्या॑होरा॒त्राणीष्ट॑काः ।
आ॒प्तेष्ट॑कमेनञ् चिनु॒तेऽथो॑ व्या॒वृत॑मे॒व ग॑च्छति॒ श्रैष्ठ्यँ॑ समा॒नाना॑म् ॥ [29]
भट्टभास्कर-टीका
12तस्मादिति विधिः ॥ तस्येति संवत्सरस्य आत्मनश्चित्यस्य अग्नेः अहोरात्रस्थानीया इष्टकाः । तस्मात्संवत्सरभरणेन आप्तेष्टकमेनं चिनुते आप्ताः पौष्कल्येन बद्धा इष्टका अस्येति । अथो इत्यादि । गतम् ॥
इति पञ्चमे षष्ठे सप्तमोनुवाकः ॥