०६

मूलम् (संयुक्तम्)

प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स क्षु॒रप॑विर्भू॒त्वाति॑ष्ठ॒त्तन्दे॒वा बिभ्य॑तो॒ नोपा॑य॒न्ते छन्दो॑भिरा॒त्मान॑ञ्छादयि॒त्वोपा॑य॒न्तच्छन्द॑साञ्छन्द॒स्त्वम्…

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर् अ॒ग्निम॑चिनुत ।
स क्षु॒रप॑विर् भू॒त्वाऽति॑ष्ठत् ।
तन् दे॒वा बिभ्य॑तो॒ नोपा॑यन् ।
ते छन्दो॑भिरा॒त्मान॑ञ् छादयि॒त्वोपा॑यन् ।
तच्छन्द॑साञ् छन्द॒स्त्वम् ।

मूलम्

प्र॒जाप॑तिर् अ॒ग्निम॑चिनुत ।
स क्षु॒रप॑विर् भू॒त्वाऽति॑ष्ठत् ।
तन् दे॒वा बिभ्य॑तो॒ नोपा॑यन् ।
ते छन्दो॑भिरा॒त्मान॑ञ् छादयि॒त्वोपा॑यन् ।
तच्छन्द॑साञ् छन्द॒स्त्वम् ।

भट्टभास्कर-टीका

1प्रजापतिरित्यादि नित्य एव गुणविशेषविधिः ॥ क्षुरपविः क्षुरवन्निशिता धारा यस्य सः क्षुरपविः । तादृशो भूत्वा चितोग्निर- तिष्ठत् दुरुपगम आसीत् । तं तादृशं देवा भीतास्सन्तो नोपायन् नोपगन्तुं शक्ता अभवन् । ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । त इत्यादि । गतम् । छन्दोभिर्मन्त्रैः । तस्माच्छादनहेतुत्वात् छन्दस्त्वम् । छादयतेर्व्यत्ययेन नुम्भावः ॥

मूलम् (संयुक्तम्)

ब्रह्म॒ वै छन्दाँ॑सि॒ ब्रह्म॑ण ए॒तद्रू॒पय्ँयत्कृ॑ष्णाजि॒नङ्

विश्वास-प्रस्तुतिः

ब्रह्म॒ वै छन्दाँ॑सि ।
ब्रह्म॑ण ए॒तद्रू॒पय्ँ यत् कृ॑ष्णाजि॒नम् ।

मूलम्

ब्रह्म॒ वै छन्दाँ॑सि ।
ब्रह्म॑ण ए॒तद्रू॒पय्ँ यत् कृ॑ष्णाजि॒नम् ।

भट्टभास्कर-टीका

2ब्रह्म वा इत्यादि हेतुः ॥ ब्रह्मवर्चसहेतुत्वात् ब्रह्मण इति । तत एव हेतोः ॥

मूलम् (संयुक्तम्)

कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ छन्दो॑भिरे॒वात्मान॑ञ्छादयि॒त्वाग्निमुप॑ चरत्या॒त्मनोऽहिँ॑सायै

विश्वास-प्रस्तुतिः

कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ ,
छन्दो॑भिर् ए॒वात्मान॑ञ् छादयि॒त्वा ऽग्निमुप॑ चरत्या॒त्मनो ऽहिँ॑सायै ।

मूलम्

कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ ,
छन्दो॑भिर् ए॒वात्मान॑ञ् छादयि॒त्वा ऽग्निमुप॑ चरत्या॒त्मनो ऽहिँ॑सायै ।

भट्टभास्कर-टीका

3कार्ष्णी इति विधिः ॥ कृष्णमृगविकारभूतः । ‘प्राणिरजतादिभ्योऽञ्’ इत्यञ्प्रत्ययः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । छन्दोभिरित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

देवनि॒धिर्वा ए॒ष नि धी॑यते॒ यद॒ग्निः [23]
अ॒न्ये वा॒ वै नि॒धिमगु॑प्तव्ँवि॒न्दन्ति॒ न वा॒ प्रति॒ प्र जा॑नात्यु॒खामा क्रा॑मत्या॒त्मान॑मे॒वाधि॒पाङ्कु॑रुते॒ गुप्त्या॒

विश्वास-प्रस्तुतिः

दे॒व॒नि॒धिर् वा ए॒ष नि धी॑यते॒ यद॒ग्निः ।
अ॒न्ये वा॒ वै नि॒धिमगु॑प्तव्ँ वि॒न्दन्ति॒ न वा॒ प्रति॒ प्र जा॑नाति ।
उ॒खामा क्रा॑मत्या॒त्मान॑मे॒वाधि॒पाङ् कु॑रुते॒, गुप्त्यै॑ ।

मूलम्

दे॒व॒नि॒धिर् वा ए॒ष नि धी॑यते॒ यद॒ग्निः ।
अ॒न्ये वा॒ वै नि॒धिमगु॑प्तव्ँ वि॒न्दन्ति॒ न वा॒ प्रति॒ प्र जा॑नाति ।
उ॒खामा क्रा॑मत्या॒त्मान॑मे॒वाधि॒पाङ् कु॑रुते॒, गुप्त्यै॑ ।

भट्टभास्कर-टीका

4देवनिधिरित्यादि ॥ गतम् । अग्निर्नाम देवानां निधिस्थानीयो निधीयते गुप्तं स्थाप्यते स यदि सम्यक् गुप्तो न स्यात् ततस्तमगुप्तमन्ये वाऽनिधातारो लभेरन् । स्वयं वा न प्रति प्रजानाति इह मया निहितमिति न प्रत्यभिजानीयात् । तस्मान्नित्यात्मनोग्नेः गोपनस्थानीयमुखाक्रमणं पादेन कुर्यादिति विधिः । आत्मानमेवाधिकं पातारं कुरुते । पातेर्विच् । तच्च गुप्त्यै भवति । ततस्तमन्ये न वेत्स्यन्ते, स्वयं च प्रत्यभिज्ञास्यतीति ॥

मूलम् (संयुक्तम्)

अथो॒ खल्वा॑हु॒र्नाक्रम्येति॑ नैर्ऋ॒त्यु॑खा यदा॒क्रामे॒न्निर्ऋ॑त्या आ॒त्मान॒मपि॑ दध्या॒त्तस्मा॒न्नाक्रम्या॑

विश्वास-प्रस्तुतिः

अथो॒ खल्वा॑हु॒र् - “नाक्रम्या॑”+ इति॑ ।
नै॒र्ऋ॒त्यु॑खा यदा॒क्रामे॒न् निर्ऋ॑त्या आ॒त्मान॒मपि॑ दध्या॒त् तस्मा॒न्नाक्रम्या॑ ।

मूलम्

अथो॒ खल्वा॑हु॒र् - “नाक्रम्या॑”+ इति॑ ।
नै॒र्ऋ॒त्यु॑खा यदा॒क्रामे॒न् निर्ऋ॑त्या आ॒त्मान॒मपि॑ दध्या॒त् तस्मा॒न्नाक्रम्या॑ ।

भट्टभास्कर-टीका

5अथो खल्वाहुरित्यादिराक्रमणनिन्दा । नैरृतिः निरृतिरिति देवता । तस्मादाक्रमणं निरृत्यै आत्मानमपिदध्यात् प्रक्षिपेत् । तस्मान्नाक्रम्योखामपिदध्यादिति ॥

मूलम् (संयुक्तम्)

पुरुषशी॒र्षमुप॑ दधाति॒ गुप्त्या॒ अथो॒ यथा॑ ब्रू॒यादे॒तन्मे॑ गोपा॒येति॑ ता॒दृगे॒व तत् [24]

विश्वास-प्रस्तुतिः

पु॒रु॒ष॒शी॒र्षमुप॑ दधाति॒ गुप्त्यै॑ ।
अथो॒ यथा॑ ब्रू॒यात् ।
ए॒तन्मे॑ गोपा॒येति॑, ता॒दृगे॒व तत् । [24]

मूलम्

पु॒रु॒ष॒शी॒र्षमुप॑ दधाति॒ गुप्त्यै॑ ।
अथो॒ यथा॑ ब्रू॒यात् ।
ए॒तन्मे॑ गोपा॒येति॑, ता॒दृगे॒व तत् । [24]

भट्टभास्कर-टीका

6पुरुषशीर्षमिति विधिः ॥ निधेर्गुप्त्यर्थं प्रत्यभिज्ञानार्थं च कथमित्याह - अथो इत्यादि यथा कश्चिन्निधिस्थाने स्थापयित्वा ब्रूयात् एतन्मदीयं रक्षेति तादृङ्निधिगेपनं पुरुषशीर्ष इति ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑ति॒र्वा अथ॑र्वा॒ग्निरे॒व द॒ध्यङ्ङा॑थर्व॒णस्तस्येष्ट॑का अ॒स्थान्ये॒तँ ह॒ वाव तदृषि॑र॒भ्यनू॑वा॒चेन्द्रो॑ दधी॒चो अ॒स्थभि॒रिति॒ यदिष्ट॑काभिर॒ग्निञ्चि॒नोति॒ सात्मा॑नमे॒वाग्निञ्चि॑नुते॒ सात्मा॒मुष्मिल्ँ॑ लो॒के भ॑वति॒ य ए॒वव्ँ वेद॒

विश्वास-प्रस्तुतिः

प्र॒जाप॑ति॒र् वा अथ॑र्वा ।
अ॒ग्निरे॒व द॒ध्यङ्ङा॑थर्व॒णः ।
तस्येष्ट॑का अ॒स्थानि॑ ।
ए॒तँ ह॒ वाव तदृषि॑र॒भ्यनू॑वाच ।
इन्द्रो॑ दधी॒चो अ॒स्थभि॒रिति॑ ।
यदिष्ट॑काभिर् अ॒ग्निञ् चि॒नोति॒ सात्मा॑नमे॒वाग्निञ् चि॑नुते ।
सात्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति॒, य ए॒वव्ँ वेद॑ ।

मूलम्

प्र॒जाप॑ति॒र् वा अथ॑र्वा ।
अ॒ग्निरे॒व द॒ध्यङ्ङा॑थर्व॒णः ।
तस्येष्ट॑का अ॒स्थानि॑ ।
ए॒तँ ह॒ वाव तदृषि॑र॒भ्यनू॑वाच ।
इन्द्रो॑ दधी॒चो अ॒स्थभि॒रिति॑ ।
यदिष्ट॑काभिर् अ॒ग्निञ् चि॒नोति॒ सात्मा॑नमे॒वाग्निञ् चि॑नुते ।
सात्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति॒, य ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

7प्रजापतिर्वा इत्यादि ॥ इष्टकास्तुतिः । तत्र ‘इन्द्रो दधीचो अस्थभिः’ इति श्रुतिविशेषानुरोधेन अग्नेरस्थित्वेनेष्टका निरूप्यन्ते । प्रजापतिरथर्वा तत्पुरुष आथर्वणो दध्यङ्नाम सोग्निरेव तस्यास्थीनि इष्टका अभवत् । ‘छन्दस्यपि दृश्यते’ इत्यनङ् । अमुमेवार्थं मन्त्रलिङ्गेन समर्थयते - एतं ह वावेति । अमुमेवार्थं ‘इन्द्रो दधीचः’ इति मन्त्रेण ऋषिर्वेदो ह्यनुवदति तस्मादिष्टकाभिश्चयनात्सात्माऽग्निश्चितो भवति आत्मीयावयवसहित इत्यर्थः । एवं वेदिता अमुष्मिन् लोके भोगस्थाने सात्मा अमृतो भवति ॥

मूलम् (संयुक्तम्)

शरी॑रव्ँ॒वा ए॒तद॒ग्नेर्यच्चित्य॑ आ॒त्मा वै॑श्वान॒रो यच्चि॒ते वै॑श्वान॒रञ्जु॒होति॒ शरी॑रमे॒व सँ॒स्कृत्य॑ [25]
अ॒भ्यारो॑हति॒ शरी॑रव्ँ॒वा ए॒तद्यज॑मान॒स्सँस्कु॑रुते॒ यद॒ग्निञ्चि॑नु॒ते

विश्वास-प्रस्तुतिः

शरी॑रव्ँ॒ वा ए॒तद॒ग्नेर् यच् चित्य॑ आ॒त्मा वै॑श्वान॒रः ।
यच् चि॒ते वै॑श्वान॒रञ् जु॒होति॒, शरी॑रमे॒व सँ॒स्कृत्या॒भ्यारो॑हति ।
शरी॑रव्ँ॒ वा ए॒तद्यज॑मान॒स् सँस्कु॑रुते॒ यद॒ग्निञ् चि॑नु॒ते।

मूलम्

शरी॑रव्ँ॒ वा ए॒तद॒ग्नेर् यच् चित्य॑ आ॒त्मा वै॑श्वान॒रः ।
यच् चि॒ते वै॑श्वान॒रञ् जु॒होति॒, शरी॑रमे॒व सँ॒स्कृत्या॒भ्यारो॑हति ।
शरी॑रव्ँ॒ वा ए॒तद्यज॑मान॒स् सँस्कु॑रुते॒ यद॒ग्निञ् चि॑नु॒ते।

भट्टभास्कर-टीका

8शरीरं वा इत्यादि ॥ वैश्वानरहोमविधिः । चित्यश्चेतव्योग्नेः शरीरम् । यत्र यो वैश्वानरं द्वादशकपालम् ॥

मूलम् (संयुक्तम्)

यच्चि॒ते वै॑श्वान॒रञ्जु॒होति॒ शरी॑रमे॒व सँ॒स्कृत्या॒त्मना॒भ्यारो॑हति॒ तस्मा॒त्तस्य॒ नाव॑ द्यन्ति॒ जीव॑न्ने॒व दे॒वानप्ये॑ति

विश्वास-प्रस्तुतिः

यच् चि॒ते वै॑श्वान॒रञ् जु॒होति॒, शरी॑रमे॒व सँ॒स्कृत्या॒त्मना॒ ऽभ्यारो॑हति ।
तस्मा॒त् तस्य॒ नाव॑ द्यन्ति॒ जीव॑न्ने॒व दे॒वानप्ये॑ति ।

मूलम्

यच् चि॒ते वै॑श्वान॒रञ् जु॒होति॒, शरी॑रमे॒व सँ॒स्कृत्या॒त्मना॒ ऽभ्यारो॑हति ।
तस्मा॒त् तस्य॒ नाव॑ द्यन्ति॒ जीव॑न्ने॒व दे॒वानप्ये॑ति ।

भट्टभास्कर-टीका

9यदित्यादि ॥ यजमानशरीरत्वेन रूपणं वैश्वानरस्यावदानप्रतिषेधार्थम् । आत्मना स्वयमारोहति । तस्मादात्मशरीरस्य अवदानं न युज्यते । जीवन्नेव च देवान्गच्छति ॥

मूलम् (संयुक्तम्)

वैश्वान॒र्यर्चा पुरी॑ष॒मुप॑ दधाती॒यव्ँ वा अ॒ग्निर्वै॑श्वान॒रस्तस्यै॒षा चिति॒र्यत्पुरी॑षम॒ग्निमे॒व वै॑श्वान॒रञ्चि॑नुत ए॒षा वा अ॒ग्नेᳶ प्रि॒या त॒नूर्यद्वै॑श्वान॒रᳶ प्रि॒यामे॒वास्य॑ त॒नुव॒मव॑ रुन्द्धे ॥ [26]

विश्वास-प्रस्तुतिः

वै॒श्वा॒न॒र्यर्चा पुरी॑ष॒मुप॑ दधाति ।
इ॒यव्ँ वा अ॒ग्निर् वै॑श्वान॒रः ।
तस्यै॒षा चिति॒र् यत् पुरी॑षम् ।
अ॒ग्निमे॒व वै॑श्वान॒रञ् चि॑नुत ।
ए॒षा वा अ॒ग्नेᳶ प्रि॒या त॒नूर् यद् वै॑श्वान॒रः ।
प्रि॒यामे॒वास्य॑ त॒नुव॒मव॑ रुन्धे ॥ [26]

मूलम्

वै॒श्वा॒न॒र्यर्चा पुरी॑ष॒मुप॑ दधाति ।
इ॒यव्ँ वा अ॒ग्निर् वै॑श्वान॒रः ।
तस्यै॒षा चिति॒र् यत् पुरी॑षम् ।
अ॒ग्निमे॒व वै॑श्वान॒रञ् चि॑नुत ।
ए॒षा वा अ॒ग्नेᳶ प्रि॒या त॒नूर् यद् वै॑श्वान॒रः ।
प्रि॒यामे॒वास्य॑ त॒नुव॒मव॑ रुन्धे ॥ [26]

भट्टभास्कर-टीका

10वैश्वानर्यर्चेति ॥ ‘पृष्टो दिवि’ इत्येतया । इयं वा इत्यादि पुरीषोपधानस्तुतिः गता ॥

इति पञ्चमे षष्ठे पष्ठोनुवाकः ॥