मूलम् (संयुक्तम्)
सव्ँ॒व॒त्स॒रमुख्य॑म्भृ॒त्वा द्वि॒तीये॑ सव्ँवत्स॒र आ॑ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेदै॒न्द्रमेका॑दशकपालव्ँ वैश्वदे॒वन्द्वाद॑शकपालम्बार्हस्प॒त्यञ्च॒रुव्ँ वै॑ष्ण॒वन्त्रि॑कपा॒लन्तृ॒तीये॑ सव्ँवत्स॒रे॑ऽभि॒जिता॑ यजेत॒
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रमुख्य॑म्भृ॒त्वा द्वि॒तीये॑ सव्ँवत्स॒र आ॑ग्ने॒यम॒ष्टाक॑पाल॒न् निर्व॑पेद् -
ऐ॒न्द्रमेका॑दशकपालव्ँ - वैश्वदे॒वन् द्वाद॑शकपालम्, बार्हस्प॒त्यञ् च॒रुव्ँ - वै॑ष्ण॒वन् त्रि॑कपा॒लम् ।
तृ॒तीये॑ सव्ँवत्स॒रे॑ऽभि॒जिता॑ यजेत ।
मूलम्

भट्टभास्कर-टीका
1संवत्सरमित्यादिस्तावः चितेऽग्नौ गुणविकारविधिः । तत्रैवोख्यस्य संवत्सरभरणम् । द्वितीये संवत्सरे आग्नेयादिनिर्वापः । तृतीये अभिजिता अग्निष्टोमेन यजेत ॥
मूलम् (संयुक्तम्)
यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्र्या॑ग्ने॒यङ्गा॑य॒त्रम्प्रा॑तस्सव॒नम्प्रा॑तस्सव॒नमे॒व तेन॑ दाधार गाय॒त्रीञ्छन्दो॒
विश्वास-प्रस्तुतिः
यद् अ॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्र्या॑ग्ने॒यङ् गा॑य॒त्रम् प्रा॑तस्सव॒नम् ।
प्रा॒त॒सव॒नमे॒व तेन॑ दाधार गाय॒त्रीञ् छन्दः॑ ।
मूलम्
यद् अ॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्र्या॑ग्ने॒यङ् गा॑य॒त्रम् प्रा॑तस्सव॒नम् ।
प्रा॒त॒सव॒नमे॒व तेन॑ दाधार गाय॒त्रीञ् छन्दः॑ ।
भट्टभास्कर-टीका
2यदित्यादिरेषामष्टाकपालादीनां क्रमेण स्तुतिः । दाधार धारयति । छान्दसो लिट् । गायत्रीछन्दः दाधारेत्येव ॥
मूलम् (संयुक्तम्)
यदेका॑दशकपालो॒ भव॒त्येका॑दशाक्षरा त्रि॒ष्टुगै॒न्द्रन्त्रैष्टु॑भ॒म्माध्य॑न्दिनँ॒ सव॑न॒म्माध्य॑न्दिनमे॒व सव॑न॒न्तेन॑ दाधार त्रि॒ष्टुभ॑म् [20]
छन्दो॒ यद्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती वैश्वदे॒वञ्जाग॑तन्तृतीयसव॒नन्तृ॑तीयसव॒नमे॒व तेन॑ दाधार॒ जग॑ती॒ञ्छन्दो॒ यद्बा॑र्हस्प॒त्यश्च॒रुर्भव॑ति॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्मै॒व तेन॑ दाधार॒ यद्वै॑ष्ण॒वस्त्रि॑कपा॒लो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒व तेन॑ दाधार॒ यत्तृ॒तीये॑ सव्ँवत्स॒रे॑ऽभि॒जिता॒ यज॑ते॒ऽभिजि॑त्यै॒
विश्वास-प्रस्तुतिः
यदेका॑दशकपालो॒ भव॒त्येका॑दशाक्षरा त्रि॒ष्टुगै॒न्द्रन्त्रैष्टु॑भ॒म्माध्य॑न्दिनँ॒ सव॑नम् ।
माध्य॑न्दिनमे॒व सव॑न॒न्तेन॑ दाधार त्रि॒ष्टुभ॒ञ् छन्दः॑ ।
यद् द्वाद॑शकपालो॒ भव॑ति॒, द्वाद॑शाक्षरा॒ जग॑ती, वैश्वदे॒वञ् जाग॑तन् तृतीयसव॒नम् ।
तृ॒ती॒य॒स॒व॒नमे॒व तेन॑ दाधार॒ जग॑ती॒ञ् छन्दः॑ ।
यद् बा॑र्हस्प॒त्यश् च॒रुर् भव॑ति॒, ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पतिः॑ ।
ब्रह्मै॒व तेन॑ दाधार ।
यद् वै॑ष्ण॒वस् त्रि॑कपा॒लो भव॑ति, य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञमे॒व तेन॑ दाधार ।
यत् तृ॒तीये॑ सव्ँवत्स॒रे॑ऽभि॒जिता॒ यज॑ते॒ ऽभिजि॑त्यै ।

3यदेकादशकपाल इत्यादि ॥ व्याख्यातमेतेन ॥
मूलम् (संयुक्तम्)
यत्सव्ँ॑वत्स॒रमुख्य॑म्बि॒भर्ती॒ममे॒व [21]
तेन॑ लो॒कँ स्पृ॑णोति॒ यद्द्वि॒तीये॑ सव्ँवत्स॒रे॑ऽग्निञ्चि॑नु॒ते॑ऽन्तरि॑क्षमे॒व तेन॑ स्पृणोति॒ यत्तृ॒तीये॑ सव्ँवत्स॒रे यज॑ते॒ऽमुमे॒व तेन॑ लो॒कँ स्पृ॑णोत्य्…
विश्वास-प्रस्तुतिः
यत् सव्ँ॑वत्स॒रमुख्य॑म् बि॒भर्ति॑ + इ॒ममे॒व तेन॑ लो॒कँ स्पृ॑णोति ।
यद् द्वि॒तीये॑ सव्ँवत्स॒रे॑ऽग्निञ् चि॑नु॒ते॑ , ऽन्तरि॑क्षमे॒व तेन॑ स्पृणोति ।
यत् तृ॒तीये॑ सव्ँवत्स॒रे यज॑ते॒, ऽमुमे॒व तेन॑ लो॒कँ स्पृ॑णोति ।

4यत्संवत्सरमित्यादि ॥ संवत्सरकर्मस्तुतिः । इमं मनुष्यलोकं स्पृणोति प्रीणयति रक्षयतीत्यर्थः । स्पृ प्रीतौ । गतमन्यत् ॥
मूलम् (संयुक्तम्)
ए॒तव्ँ वै पर॑ आट्णा॒रᳵ क॒क्षीवाँ॑ औशि॒जो वी॒तह॑व्यश्श्राय॒सस्त्र॒सद॑स्युᳶ पौरुकु॒त्स्यᳶ प्र॒जाका॑मा अचिन्वत॒ ततो॒ वै ते स॒हस्रँ॑सहस्रम्पु॒त्रान॑विन्दन्त॒
विश्वास-प्रस्तुतिः
ए॒तव्ँ वै पर॑ आट्णा॒रᳵ क॒क्षीवाँ॑ औशि॒जो वी॒तह॑व्यश् श्राय॒सस् त्र॒सद॑स्युᳶ पौरुकु॒त्स्यᳶ प्र॒जाका॑मा अचिन्वत ।
ततो॒ वै ते स॒हस्रँ॑सहस्रम् पु॒त्रान॑विन्दन्त ।
मूलम्
ए॒तव्ँ वै पर॑ आट्णा॒रᳵ क॒क्षीवाँ॑ औशि॒जो वी॒तह॑व्यश् श्राय॒सस् त्र॒सद॑स्युᳶ पौरुकु॒त्स्यᳶ प्र॒जाका॑मा अचिन्वत ।
ततो॒ वै ते स॒हस्रँ॑सहस्रम् पु॒त्रान॑विन्दन्त ।
भट्टभास्कर-टीका
5एतं वा इत्याति ॥ एतमग्निं परादयश्चत्वारः प्रजाकामा अचिन्वत । चित्वा च प्रत्येकं सहस्त्रं पुत्रानलभन्त ॥
मूलम् (संयुक्तम्)
प्रथ॑ते प्र॒जया॑ प॒शुभि॒स्ताम्मात्रा॑माप्नोति॒ यान्तेऽग॑च्छ॒न्य ए॒वव्ँवि॒द्वाने॒तम॒ग्निञ्चि॑नु॒ते ॥ [22]
विश्वास-प्रस्तुतिः
प्रथ॑ते प्र॒जया॑ प॒शुभि॒स् ताम् मात्रा॑माप्नोति॒ यान् तेऽग॑च्छ॒न् ,
य ए॒वव्ँ वि॒द्वाने॒तम॒ग्निञ् चि॑नु॒ते ॥ [22]
मूलम्
प्रथ॑ते प्र॒जया॑ प॒शुभि॒स् ताम् मात्रा॑माप्नोति॒ यान् तेऽग॑च्छ॒न् ,
य ए॒वव्ँ वि॒द्वाने॒तम॒ग्निञ् चि॑नु॒ते ॥ [22]
भट्टभास्कर-टीका
6प्रथत इत्यादिविदुषस्स्तुतिः । मात्रां पुत्रपरिमाणम् । एवं विदित्वा चिन्वानः परादय इव सहस्रपुत्रो भवतीत्यर्थः । अत्र परादयस्संज्ञाः, आट्णारादयः अपत्यप्रत्ययान्ताः ॥
इति पञ्चमे षष्ठे पञ्चमोनुवाकः ॥