०४

मूलम् (संयुक्तम्)

स॒जूरब्दोऽया॑वभिस्स॒जूरु॒षा अरु॑णीभिस्स॒जूस्सूर्य॒ एत॑शेन स॒जोषा॑व॒श्विना॒ दँसो॑भिस्स॒जूर॒ग्निर्वै॑श्वान॒र इडा॑भिर्घृ॒तेन॒ स्वाहा॑

विश्वास-प्रस्तुतिः

स॒जूरब्दोऽया॑वभिः +++घृ॒तेन॒ स्वाहा॑ +++ ।
स॒जूरु॒षा अरु॑णीभिः +++घृ॒तेन॒ स्वाहा॑ +++ ।
स॒जूस् सूर्य॒ एत॑शेन +++घृ॒तेन॒ स्वाहा॑ +++ ।
स॒जोषा॑व॒श्विना॒ दँसो॑भिः +++घृ॒तेन॒ स्वाहा॑ +++।
स॒जूर॒ग्निर्वै॑श्वान॒र इडा॑भिः +++घृ॒तेन॒ स्वाहा॑ +++।
घृ॒तेन॒ स्वाहा॑ ।

मूलम्

स॒जूरब्दोऽया॑वभिः +++घृ॒तेन॒ स्वाहा॑ +++ ।
स॒जूरु॒षा अरु॑णीभिः +++घृ॒तेन॒ स्वाहा॑ +++ ।
स॒जूस् सूर्य॒ एत॑शेन +++घृ॒तेन॒ स्वाहा॑ +++ ।
स॒जोषा॑व॒श्विना॒ दँसो॑भिः +++घृ॒तेन॒ स्वाहा॑ +++।
स॒जूर॒ग्निर्वै॑श्वान॒र इडा॑भिः +++घृ॒तेन॒ स्वाहा॑ +++।
घृ॒तेन॒ स्वाहा॑ ।

भट्टभास्कर-टीका

1दर्भस्तम्बे स्नुवाहुतीरभिजुहेति - सजूरब्द इत्यादिभिः ॥ वाक्यस्यापरिसमाप्तत्वात् घृतेन स्वाहेति सर्वत्रानुषज्यते । सर्वा एकपदाः त्रिष्टुभः । अन्त्याधिकाक्षरा । केचिद्व्रतेनेत्यस्मादनुषङ्गाद्याश्चतस्रो गायत्रीराहुः । सजूस्समानप्रीतिरब्दः संवत्सरः । केन अयावभिः मासैः ते हि संवत्सरान्न यान्ति । तादृशो ह्यब्दः प्रजानां समृद्ध्यै भवति । ‘संवत्सरो वा अब्दो मासा अयावाः’ इति ब्राह्मणम् । यातेः ‘आतो मनिन्’ इति वनिप् । ब्राह्मणे त्वौणादिको वप्रत्ययः । जुषेः क्विपि ‘ससजुषोरुः’ इति रुत्वम् । ‘समानस्य छन्दसि’ इति सभावः, ‘परादिश्छन्दसि’ इत्युत्तरपदान्तोदात्तत्वम् । सजूरब्दो यावभिर्यथा भवति तदनुरूपं घृतेन स्वाहुतं करोति दर्भस्तम्बमभिजुहोति । एतेन शिष्टं व्याख्यातम् । उषाः प्रसिद्धाः अरुण्यो गावः ता हि तत्र मोदन्ते । सा च तादृशी प्रजानां भूतये भवति । एतशेन श्वेतेन सजूस्सूर्यः प्रजानां पुष्ट्यै भवति । अश्विनौ द्यावापृथिव्यौ व्यापकेनादित्येन तद्वत्यौ । ‘इमे अश्विना’ इति च ब्राह्मणम् । अश्वित्वेन स्तुतेः पुल्लिङ्गता । तौ सजोषसौ दंसोभि. आश्चर्थकर्मभिर्जन्तुभिः सजोषाः वैश्यानरोग्निस्संवत्सरात्मा इडाभिः पशुभिस्सजूः ॥

मूलम् (संयुक्तम्)

सव्ँवत्स॒रो वा अब्दो॒ मासा॒ अया॑वा उ॒षा अरु॑णी॒ सूर्य॒ एत॑श इ॒मे अ॒श्विना॑ सव्ँवत्स॒रो॑ऽग्निर्वै॑श्वान॒रᳶ प॒शव॒ इडा॑ प॒शवो॑ घृ॒तँ सव्ँ॑वत्स॒रम्प॒शवोऽनु॒ प्र जा॑यन्ते सव्ँवत्स॒रेणै॒वास्मै॑ प॒शून्प्र ज॑नयति

विश्वास-प्रस्तुतिः

सव्ँ॒व॒त्स॒रो वा अब्दः॑ ।
मासा॒ अया॑वाः ।
उ॒षा अरु॑णी । सूर्य॒ एत॑शः ।
इ॒मे अ॒श्विना॑ ।
सव्ँ॒व॒त्स॒रो॑ऽग्निर्वै॑श्वान॒रः ।
प॒शव॒ इडा॑ ।
प॒शवो॑ घृ॒तम् ।
सव्ँ॒व॒त्स॒रम् प॒शवोऽनु॒ प्र जा॑यन्ते ।
सव्ँ॒व॒त्स॒रे॒णै॒वास्मै॑ प॒शून् प्र ज॑नयति ।

मूलम्

सव्ँ॒व॒त्स॒रो वा अब्दः॑ ।
मासा॒ अया॑वाः ।
उ॒षा अरु॑णी । सूर्य॒ एत॑शः ।
इ॒मे अ॒श्विना॑ ।
सव्ँ॒व॒त्स॒रो॑ऽग्निर्वै॑श्वान॒रः ।
प॒शव॒ इडा॑ ।
प॒शवो॑ घृ॒तम् ।
सव्ँ॒व॒त्स॒रम् प॒शवोऽनु॒ प्र जा॑यन्ते ।
सव्ँ॒व॒त्स॒रे॒णै॒वास्मै॑ प॒शून् प्र ज॑नयति ।

भट्टभास्कर-टीका

2अत्रैव ब्राह्मणं - संवत्सरो वा इत्यादि ॥ पदद्वयं व्याचष्टे - संवत्सरो वा अब्दो मासा अयावा इति । उषा अरुणीः सूर्य एतश इति । स्वरूपमात्रोपादानेन निगदसिद्वा एवैत इति दर्शयति । इमे इति । इयं चासौ च इमे द्यावापृथिव्यौ । ‘त्यदादीनां यत्परम्’ इतीदमश्शेषः । संवत्सरोग्निरित्यादि । गतम् । पशवो घृतमिति । तद्धेतुत्वात् संवत्सरमनुप्रजायन्ते पशवः । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । संवत्सरेणेति । संवत्सरत्वाद्वैश्वानरस्य अग्नेः ॥

मूलम् (संयुक्तम्)

दर्भस्त॒म्बे जु॑होति॒ यत् [15]
वा अ॒स्या अ॒मृतय्ँ॒यद्वी॒र्य॑न्तद्द॒र्भास्तस्मि॑ञ्जुहोति॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति॒ यस्यै॒वञ्जुह्व॑त्य्…

विश्वास-प्रस्तुतिः

द॒र्भ॒स्त॒म्बे जु॑होति ।
यद् वा अ॒स्या अ॒मृतय्ँ॒ यद् वी॒र्य॑न् तद् द॒र्भाः ।
तस्मि॑ञ् जुहोति ।
प्रैव जा॑यतेऽन्ना॒दो भ॑वति॒ यस्यै॒वञ् जुह्व॑ति ।

मूलम्

द॒र्भ॒स्त॒म्बे जु॑होति ।
यद् वा अ॒स्या अ॒मृतय्ँ॒ यद् वी॒र्य॑न् तद् द॒र्भाः ।
तस्मि॑ञ् जुहोति ।
प्रैव जा॑यतेऽन्ना॒दो भ॑वति॒ यस्यै॒वञ् जुह्व॑ति ।

भट्टभास्कर-टीका

3दर्भस्तम्ब इति ॥ एतैर्मन्त्रैः । यद्वा इत्यादि । गतम् । अमृतं अमरणहेतुः ॥

मूलम् (संयुक्तम्)

ए॒ता वै दे॒वता॑ अ॒ग्नेᳶ पु॒रस्ता॑द्भागा॒स्ता ए॒व प्री॑णा॒त्यथो॒ चक्षु॑रे॒वाग्नेᳶ पु॒रस्ता॒त्प्रति॑ दधा॒त्यन॑न्धो भवति॒ य ए॒वव्ँ वेद…

विश्वास-प्रस्तुतिः

ए॒ता वै दे॒वता॑ अ॒ग्नेᳶ पु॒रस्ता॑द्भागाः ।
ता ए॒व प्री॑णाति ।
अथो॒ चक्षु॑रे॒वाग्नेᳶ पु॒रस्ता॒त् प्रति॑ दधाति ।
अन॑न्धो भवति॒ य ए॒वव्ँ वेद॑ ।

मूलम्

ए॒ता वै दे॒वता॑ अ॒ग्नेᳶ पु॒रस्ता॑द्भागाः ।
ता ए॒व प्री॑णाति ।
अथो॒ चक्षु॑रे॒वाग्नेᳶ पु॒रस्ता॒त् प्रति॑ दधाति ।
अन॑न्धो भवति॒ य ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

4एता वा इति ॥ अब्दादयो देवता अग्नेरपि पूर्वभागभाजः ताः प्रीणयत्यनेन होमेन । अपि च पुरस्ताद्धोमेनाग्नेः चक्षुः प्रतिदधाति । एवं वेदिताऽप्यनन्धो भवति, कि पुनः कर्ता ॥

मूलम् (संयुक्तम्)

आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्स प्र॒जाप॑तिᳶ पुष्करप॒र्णे वातो॑ भू॒तो॑ऽलेलाय॒त्सः [16]
प्र॒ति॒ष्ठान्नावि॑न्द॒त स ए॒तद॒पाङ्कु॒लाय॑मपश्य॒त्तस्मि॑न्न॒ग्निम॑चिनुत॒ तदि॒यम॑भव॒त्ततो॒ वै स प्रत्य॑तिष्ठ॒द्याम्पु॒रस्ता॑दु॒पाद॑धा॒त्तच्छिरो॑ऽभव॒त्सा प्राची॒ दिग्यान्द॑क्षिण॒त उ॒पाद॑धा॒त्स दक्षि॑णᳶ प॒क्षो॑ऽभव॒त्सा द॑क्षि॒णा दिग्याम्प॒श्चादु॒पाद॑धा॒त्तत्पुच्छ॑मभव॒त्सा प्र॒तीची॒ दिग्यामु॑त्तर॒त उ॒पाद॑धात् [17]
स उत्त॑रᳶ प॒क्षो॑ऽभव॒त्सोदी॑ची॒ दिग्यामु॒परि॑ष्टादु॒पाद॑धा॒त्तत्पृ॒ष्ठम॑भव॒त्सोर्ध्वा दिग्…

विश्वास-प्रस्तुतिः

आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत् ।
स प्र॒जाप॑तिᳶ पुष्करप॒र्णे वातो॑ भू॒तो॑ऽलेलायत् ।
स प्र॒ति॒ष्ठान् नावि॑न्दत ।[16]
स ए॒तद॒पाङ्कु॒लाय॑मपश्यत् ।
तस्मि॑न्न् अ॒ग्निम॑चिनुत ।
तदि॒यम॑भवत् ।
ततो॒ वै स प्रत्य॑तिष्ठत् ।
याम् पु॒रस्ता॑दु॒पाद॑धा॒त् तच्छिरो॑ऽभव॒त्, सा प्राची॒ दिक् ।
यान् द॑क्षिण॒त उ॒पाद॑धा॒त् स दक्षि॑णᳶ प॒क्षो॑ऽभव॒त् , सा द॑क्षि॒णा दिक् ।
याम् प॒श्चादु॒पाद॑धा॒त् तत्पुच्छ॑मभव॒त् , सा प्र॒तीची॒ दिक् ।
याम् उ॑त्तर॒त उ॒पाद॑धा॒त् स उत्त॑रᳶ प॒क्षो॑ ऽभव॒त् सोदी॑ची॒ दिक् ।
याम् उ॒परि॑ष्टादु॒पाद॑धा॒त् तत्पृ॒ष्ठम॑भव॒त् सोर्ध्वा दिक् ।

मूलम्

आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत् ।
स प्र॒जाप॑तिᳶ पुष्करप॒र्णे वातो॑ भू॒तो॑ऽलेलायत् ।
स प्र॒ति॒ष्ठान् नावि॑न्दत ।[16]
स ए॒तद॒पाङ्कु॒लाय॑मपश्यत् ।
तस्मि॑न्न् अ॒ग्निम॑चिनुत ।
तदि॒यम॑भवत् ।
ततो॒ वै स प्रत्य॑तिष्ठत् ।
याम् पु॒रस्ता॑दु॒पाद॑धा॒त् तच्छिरो॑ऽभव॒त्, सा प्राची॒ दिक् ।
यान् द॑क्षिण॒त उ॒पाद॑धा॒त् स दक्षि॑णᳶ प॒क्षो॑ऽभव॒त् , सा द॑क्षि॒णा दिक् ।
याम् प॒श्चादु॒पाद॑धा॒त् तत्पुच्छ॑मभव॒त् , सा प्र॒तीची॒ दिक् ।
याम् उ॑त्तर॒त उ॒पाद॑धा॒त् स उत्त॑रᳶ प॒क्षो॑ ऽभव॒त् सोदी॑ची॒ दिक् ।
याम् उ॒परि॑ष्टादु॒पाद॑धा॒त् तत्पृ॒ष्ठम॑भव॒त् सोर्ध्वा दिक् ।

भट्टभास्कर-टीका

5आपो वा इत्यादि ॥ चित्यत्वेन पृथिव्यास्स्तुतिः । इदं विश्वं अग्रे आदौ सलिलमात्रमासीत् प्रत्यस्तमितसमस्तविकारं सर्वमादौ सलिलमेवासीत् । यदिदमब्विकारं सर्वं आदौ सलिलमेवासीत् । तदानीं प्रजापतिः पुष्करपर्णे पद्मपत्रे तत्प्रभवे वातो भूतः वात इव भूत्वा अलेलायात् । लीयतेर्यङ्लुगन्तात् लुङि व्यत्ययेन शप्, वृद्धिश्च । लेलेतिवा कण्ड्वादिः । तदानीं प्रतिष्ठामवस्थितां नाविन्दत नालभत पुष्करपर्णस्य लोलत्वादात्मनश्च वातभूतत्वात् । स तदानीमेव अपां कुलायं शैवलमित्यपश्यत् फेनमित्यमन्यत । तस्मिन्नग्निमचिनुत तदियं पृथिवी जाता । प्रजापतिश्च तत्र प्रतिष्ठितोऽभवत् । तत्र यामिष्टकां पूर्वस्यां दिश्युपादधात् तदस्याग्नेश्शिरोभवत् प्रथमोऽत्पन्नत्वात् । ततः प्रभृति सा प्राची दिगासीत् । यां दक्षिणत इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

इ॒यव्ँ वा अ॒ग्निᳶ पञ्चे॑ष्टक॒स्तस्मा॒द्यद॒स्याङ्खन॑न्त्य॒भीष्ट॑कान्तृ॒न्दन्त्य॒भि शर्क॑राँ॒…

विश्वास-प्रस्तुतिः

इ॒यव्ँ वा अ॒ग्निᳶ पञ्चे॑ष्टकः ।
तस्मा॒द् यद॒स्याङ्खन॑न्त्य् - अ॒भीष्ट॑कान् तृ॒न्दन्त्य् - अ॒भि शर्क॑राम् ।

मूलम्

इ॒यव्ँ वा अ॒ग्निᳶ पञ्चे॑ष्टकः ।
तस्मा॒द् यद॒स्याङ्खन॑न्त्य् - अ॒भीष्ट॑कान् तृ॒न्दन्त्य् - अ॒भि शर्क॑राम् ।

भट्टभास्कर-टीका

6इयं वा इति ॥ इयं पृथिवी पञ्चेष्टकोग्निः तस्मादस्यां यत्खनन्ति तदिष्टकामभिक्रन्दन्ति पूर्वं प्रजापतिनोपहितामच्छिद्रं यन्ति । उ तृदिर् हिंसानादरयोः, रौधादिकः । अभिशर्करामिति । तृन्दन्तीत्येव ॥

मूलम् (संयुक्तम्)

सर्वा॒ वा इ॒यव्ँवयो॑भ्यो॒ नक्त॑न्दृ॒शे दी॑प्यते॒ तस्मा॑दि॒माव्ँवयाँ॑सि॒ नक्त॒न्नाध्या॑सते॒ य ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒ते प्रत्ये॒व [18]
ति॒ष्ठ॒त्य॒भि दिशो॑ जयत्य्…

विश्वास-प्रस्तुतिः

सर्वा॒ वा इ॒यव्ँ वयो॑भ्यो॒ नक्त॑न् दृ॒शे दी॑प्यते ।
तस्मा॑दि॒माव्ँ वयाँ॑सि॒ नक्त॒न् नाध्या॑सते ।
य ए॒वव्ँ वि॒द्वान् - अ॒ग्निञ् चि॑नु॒ते प्रत्ये॒व ति॑ष्ठति + अ॒भि दिशो॑ जयति ।

मूलम्

सर्वा॒ वा इ॒यव्ँ वयो॑भ्यो॒ नक्त॑न् दृ॒शे दी॑प्यते ।
तस्मा॑दि॒माव्ँ वयाँ॑सि॒ नक्त॒न् नाध्या॑सते ।
य ए॒वव्ँ वि॒द्वान् - अ॒ग्निञ् चि॑नु॒ते प्रत्ये॒व ति॑ष्ठति + अ॒भि दिशो॑ जयति ।

भट्टभास्कर-टीका

7इदानीं पृथिव्या अग्नित्वं लोकवृत्तान्तेन विप्रतिपन्नान् प्रति समर्थयते - सर्वा वा इति ॥ सर्वेयं पृथिवी रात्रौ पक्षिभ्यो दीप्यते प्रकाशते दृशे द्रष्टुं यथा सर्वां पृथिवीं वयांसि पश्यन्ति । तस्मादिमां रात्रौ नाध्यासते वयांसि वृक्षादावेव शेरते भयात् । तस्मादेवं ज्ञात्वा चिन्वानः प्रतितिष्ठत्येव, दिशश्चाभिजयति ॥

मूलम् (संयुक्तम्)

आग्ने॒यो वै ब्रा॑ह्म॒णस्तस्मा॑द्ब्राह्म॒णाय॒ सर्वा॑सु दि॒क्ष्वर्धु॑कँ॒ स्वामे॒व तद्दिश॒मन्वे॑त्य्…

विश्वास-प्रस्तुतिः

आ॒ग्ने॒यो वै ब्रा॑ह्म॒णः ।
तस्मा॑द्ब्राह्म॒णाय॒ सर्वा॑सु दि॒क्ष्वर्धु॑कम् ।
स्वामे॒व तद् दिश॒मन्वे॑ति ।

मूलम्

आ॒ग्ने॒यो वै ब्रा॑ह्म॒णः ।
तस्मा॑द्ब्राह्म॒णाय॒ सर्वा॑सु दि॒क्ष्वर्धु॑कम् ।
स्वामे॒व तद् दिश॒मन्वे॑ति ।

भट्टभास्कर-टीका

8आग्नेयो वा इत्यादि ॥ उक्तं ‘इयं वा अग्निः’ इति । यस्मादेवं तस्मादाग्नेयस्य अग्निना सहोत्पन्नत्वात् नित्यमग्निना सम्बन्धोऽस्य ब्राह्मणस्य । ‘सर्वत्राग्निकलिभ्याम्’ इति ढक् । सर्वासु दिक्षु गमनमर्धुकम् ऋद्धिशीलमग्नित्वात् सर्वासां दिशाम् । तदेवाह - स्वामेव आत्मभूतामेव दिशमत्येति अनु गच्छति । स्वार्थिक उकञ् ॥

मूलम् (संयुक्तम्)

अ॒पाव्ँ वा अ॒ग्निᳵ कु॒लाय॒न्तस्मा॒दापो॒ऽग्निँ हारु॑का॒स्स्वामे॒व तद्योनि॒म्प्र वि॑शन्ति ॥ [19]

विश्वास-प्रस्तुतिः

अ॒पाव्ँ वा अ॒ग्निᳵ कु॒लाय॑म् ।
तस्मा॒दापो॒ऽग्निँ हारु॑काः ।
स्वामे॒व तद्योनि॒म् प्र वि॑शन्ति ॥ [19]

मूलम्

अ॒पाव्ँ वा अ॒ग्निᳵ कु॒लाय॑म् ।
तस्मा॒दापो॒ऽग्निँ हारु॑काः ।
स्वामे॒व तद्योनि॒म् प्र वि॑शन्ति ॥ [19]

भट्टभास्कर-टीका

9अपां वा इत्यादि ॥ उक्तमेवार्थं प्रत्यक्षेण समर्थयते । यस्मादपामग्निः कुलायं निवासस्थानं उक्तेन न्यायेन पृथिव्या अग्नित्वात् तादर्थ्याद्वा अपां ‘अग्नेरापः’ इति ततो निर्गतत्वात् । तस्मादापोऽग्निं हारुकाः अग्निं हुत्वा तमनुप्रविशन्तीः पश्याम औष्ण्योपलम्भात् पृथिवीं चानुप्रविशन्तीः पश्यामः । पूर्ववदुकञ्, ‘न लोकाव्यय’ इति षष्ठीप्रतिषेधः । ततः स्वामेव योनिं निवासं कारणं वा अनुप्रविशन्ति । तस्मादुपपन्नमस्याग्नित्वमिति ॥

इति पञ्चमकाण्डे षष्ठप्रश्ने चतुर्थोनुवाकः ॥