०३

मूलम् (संयुक्तम्)

भू॒ते॒ष्ट॒का उप॑ दधा॒त्यत्रा॑त्र॒ वै मृ॒त्युर्जा॑यते॒ यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते॒ तत॑ ए॒वैन॒मव॑ यजते॒ तस्मा॑दग्नि॒चित्सर्व॒मायु॑रेति॒ सर्वे॒ ह्य॑स्य मृ॒त्यवोऽवे॑ष्टा॒स्तस्मा॑दग्नि॒चिन्नाभिच॑रित॒वै प्र॒त्यगे॑नमभिचा॒रस्स्तृ॑णुते

विश्वास-प्रस्तुतिः

भू॒ते॒ष्ट॒का उप॑ दधाति ।
अत्रा॑त्र॒ वै मृ॒त्युर्जा॑यते ।
यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते॒ तत॑ ए॒वैन॒मव॑ यजते ।
तस्मा॑दग्नि॒चित् सर्व॒मायु॑रेति॒ सर्वे॒ ह्य॑स्य मृ॒त्यवोऽवे॑ष्टाः ।
तस्मा॑दग्नि॒चिन् - नाभिच॑रित॒ वै प्र॒त्यग् - ए॑नमभिचा॒रस् स्तृ॑णुते ।

मूलम्

भू॒ते॒ष्ट॒का उप॑ दधाति ।
अत्रा॑त्र॒ वै मृ॒त्युर्जा॑यते ।
यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते॒ तत॑ ए॒वैन॒मव॑ यजते ।
तस्मा॑दग्नि॒चित् सर्व॒मायु॑रेति॒ सर्वे॒ ह्य॑स्य मृ॒त्यवोऽवे॑ष्टाः ।
तस्मा॑दग्नि॒चिन् - नाभिच॑रित॒ वै प्र॒त्यग् - ए॑नमभिचा॒रस् स्तृ॑णुते ।

भट्टभास्कर-टीका

1भूतेष्टका इत्यादि ॥ भूतानि पृथिव्यादीनि तत्सम्बन्धिन्य इष्टकाः भूतेष्टकाः ‘पृथिव्यै स्वाहा’ इत्येवं मन्त्राकारः । अत्रात्रेति । सर्वत्र पृथिव्या एकदेशे मृत्युर्जायते यत्रयत्र जायते ततस्सर्वस्मादेनं मृत्युमवयजते निवारयति भूतेष्टकाभिः । उभयत्रापि ‘अनुदात्तश्च’ इति द्वितीयोऽनुदात्तः । तस्मादित्यत्रैव हेतुमाह - सर्वे हि मृत्यवोऽवेष्टाः निराकृताः । तत्सर्वमायुः पुरुषायुषं जीवति । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्तरत्वम् । तस्मादिति । एवं निरस्तमृत्युत्वादग्निचित् नाभिचरितव्यः न मारयितव्यः । कृत्यार्थे तवैप्रत्ययः । ‘तवैचान्तश्च युगपत्’ इति गतेः प्रकृतिस्वरत्वम्, प्रत्ययस्य चान्तोदात्तत्वम् । यद्यभिचरेदेनं अभिचरितारमेव अभिचारः प्रत्यक् स्तृणुते प्रतिमुखमागत्य मारयति ॥

मूलम् (संयुक्तम्)

सू॒यते॒ वा ए॒ष यो॑ऽग्निञ्चि॑नु॒ते दे॑वसु॒वामे॒तानि॑ ह॒वीँषि॑ भवन्त्ये॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वास्त ए॒व [11]
अ॒स्मै॒ स॒वान्प्र य॑च्छन्ति॒ त ए॑नँ सुवन्ते

विश्वास-प्रस्तुतिः

सू॒यते॒ वा ए॒ष यो॑ऽग्निञ् चि॑नु॒ते ।
दे॒व॒सु॒वामे॒तानि॑ ह॒वीँषि॑ भवन्ति ।
ए॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वाः ।
त ए॒वा॒स्मै॒ स॒वान् प्र य॑च्छन्ति ।
त ए॑नँ सुवन्ते ।

मूलम्

सू॒यते॒ वा ए॒ष यो॑ऽग्निञ् चि॑नु॒ते ।
दे॒व॒सु॒वामे॒तानि॑ ह॒वीँषि॑ भवन्ति ।
ए॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वाः ।
त ए॒वा॒स्मै॒ स॒वान् प्र य॑च्छन्ति ।
त ए॑नँ सुवन्ते ।

भट्टभास्कर-टीका

2सूयते वा इत्यादि ॥ अग्निं चिन्वानो हि अग्निना सूयते ईश्वरः क्रियते । कर्मणि यत् । देवसुवामिति । देवानां सुवते ईशते इति देवसुत इति वक्तव्ये ‘उगवादीनाम्’ इति सुवतेस्तुगपवाद औकारः । ते च ‘अग्नये गृहपतये’ इत्याम्नाताः अग्न्यादयोऽष्टौ देवाः । तेषामेतानि हवींषि भवन्ति ‘अग्नये गृहपतये पुरोडाशमष्टाकपालं’ इत्यादीनि । तान्यत्र कर्तव्यानीति गम्यते । एतावन्त इति । एतावन्त्येव देवतानामैश्वर्यसाधनानि यान्यग्न्यादीनि हवींषि । सुवतेः करणे अप् । ‘सवजवौ छन्दसि’ इत्यन्तोदात्तत्वम् । तस्मात्ते सवाः स्वस्वामिनोग्न्यादयः अस्मै यजमानाय सवान् ऐश्वर्याणि प्रयच्छन्ति । त एवाग्न्यादय एनं सुबन्ते अनुजानन्ति ऐश्वर्याय प्रेरयन्तीत्यर्थः । पू प्रेरणे ॥

मूलम् (संयुक्तम्)

स॒वो॑ऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑म्ब्रह्मस॒वश्चित्यो॑ दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह सवि॒तृप्र॑सूत ए॒वैन॒म्ब्रह्म॑णा दे॒वता॑भिर॒भि षि॑ञ्च॒त्य्…

विश्वास-प्रस्तुतिः

स॒वो॑ऽग्निर् व॑रुणस॒वो रा॑ज॒सूय॑म् ब्रह्मस॒वश् चित्यः॑ ।
“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व” इत्या॑ह ।

स॒वि॒तृप्र॑सूत ए॒वैन॒म् ब्रह्म॑णा दे॒वता॑भिर् अ॒भि षि॑ञ्च॒ति ।

मूलम्

स॒वो॑ऽग्निर् व॑रुणस॒वो रा॑ज॒सूय॑म् ब्रह्मस॒वश् चित्यः॑ ।
“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व” इत्या॑ह ।

स॒वि॒तृप्र॑सूत ए॒वैन॒म् ब्रह्म॑णा दे॒वता॑भिर् अ॒भि षि॑ञ्च॒ति ।

भट्टभास्कर-टीका

3सवोग्निरित्यादिरभिषेकविधिः ॥ ऐश्वर्यहेतुरयमग्रिः तत्र वरुणैश्वर्यहेतुः राजसूयं, ब्रह्मैश्वर्यहेतुऽश्चित्योग्निः । तस्मात् ‘देवस्य त्वा’ इत्यभिषेके ब्रह्मैश्वर्यलाभ इति । राजसूयग्रहणं तत्तुल्यतां चित्यस्याग्नेः प्रदर्शयितुम् ॥

मूलम् (संयुक्तम्)

अन्न॑स्यान्नस्या॒भि षि॑ञ्च॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्यै

विश्वास-प्रस्तुतिः

अन्न॑स्यान्नस्या॒भि षि॑ञ्चति ।
अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ।

मूलम्

अन्न॑स्यान्नस्या॒भि षि॑ञ्चति ।
अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ।

भट्टभास्कर-टीका

4अन्नस्यान्नस्येति ॥ सर्वौषधेनाभिषिञ्चति । विभक्तिव्यत्ययः । सर्वान्नाभिषेकः सर्वान्नलाभाय भवति ॥

मूलम् (संयुक्तम्)

पु॒रस्ता॑त्प्र॒त्यञ्च॑म॒भि षि॑ञ्चति पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते॑

विश्वास-प्रस्तुतिः

पु॒रस्ता॑त् प्र॒त्यञ्च॑म् अ॒भि षि॑ञ्चति ।
पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म् अ॒द्यते॑ ।

मूलम्

पु॒रस्ता॑त् प्र॒त्यञ्च॑म् अ॒भि षि॑ञ्चति ।
पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म् अ॒द्यते॑ ।

भट्टभास्कर-टीका

5पुरस्तादित्यादि । गतम् ॥

+++( सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम्। )+++

मूलम् (संयुक्तम्)

शीर्ष॒तो॑ऽभि षि॑ञ्चति शीर्ष॒तो ह्यन्न॑म॒द्यत॒ आ मुखा॑द॒न्वव॑स्रावयति [12]
मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्य॑न्दधात्य्…

विश्वास-प्रस्तुतिः

शी॒र्ष॒तो॑ऽभि षि॑ञ्चति ।
शी॒र्ष॒तो ह्यन्न॑म॒द्यते॑ ।
आ मुखा॑द॒न्वव॑स्रावयति ।
मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्य॑न् दधाति ।

मूलम्

शी॒र्ष॒तो॑ऽभि षि॑ञ्चति ।
शी॒र्ष॒तो ह्यन्न॑म॒द्यते॑ ।
आ मुखा॑द॒न्वव॑स्रावयति ।
मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्य॑न् दधाति ।

भट्टभास्कर-टीका

6शीर्षत इति ॥ शिरस्त आरभ्य आमुखादविच्छिन्नमन्ववस्रावयति अस्य मुखे अन्नाद्यं स्थापितं भवति । ‘आद्यादिभ्यस्तसिः’ ॥

मूलम् (संयुक्तम्)

अ॒ग्नेस्त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चा॒मीत्या॑है॒ष वा अ॒ग्नेस्स॒वस्तेनै॒वैन॑म॒भि षि॑ञ्चति॒ बृह॒स्पते॑स्त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चा॒मीत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भि षि॑ञ्च॒तीन्द्र॑स्य त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चा॒मीत्या॑हेन्द्रि॒यमे॒वास्मि॑न्नु॒परि॑ष्टाद्दधात्य्…

विश्वास-प्रस्तुतिः

“अ॒ग्नेस् त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चामि” + इत्या॑ह ।
ए॒ष वा अ॒ग्नेस् स॒वः ।
तेनै॒वैन॑म् अ॒भि षि॑ञ्चति ।
“बृह॒स्पते॑स् त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चामि” + इत्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒वैन॑म॒भि षि॑ञ्चति ।
“इन्द्र॑स्य त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चामि”+ इत्या॑ह ।
इ॒न्द्रि॒यमे॒वास्मि॑न्न् उ॒परि॑ष्टाद् दधाति ।

मूलम्

“अ॒ग्नेस् त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चामि” + इत्या॑ह ।
ए॒ष वा अ॒ग्नेस् स॒वः ।
तेनै॒वैन॑म् अ॒भि षि॑ञ्चति ।
“बृह॒स्पते॑स् त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चामि” + इत्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒वैन॑म॒भि षि॑ञ्चति ।
“इन्द्र॑स्य त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चामि”+ इत्या॑ह ।
इ॒न्द्रि॒यमे॒वास्मि॑न्न् उ॒परि॑ष्टाद् दधाति ।

भट्टभास्कर-टीका

7अग्नेस्त्वेत्यादि ॥ मन्त्रावयवस्तुतिः । अग्नेः सवः अग्नेरैश्वर्यं ब्रह्मणैवोदितेन ब्रह्मैश्वर्यलाभः । गतमन्यत् ॥ +++( सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम्। )+++

मूलम् (संयुक्तम्)

ए॒तत् [13]
वै रा॑ज॒सूय॑स्य रू॒पय्ँय ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒त उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा॑ग्नि॒चित॒

विश्वास-प्रस्तुतिः

ए॒तद् वै रा॑ज॒सूय॑स्य रू॒पम् ।

य ए॒वव्ँ वि॒द्वान् अ॒ग्निञ् चि॑नु॒त उ॒भावे॒व लो॒काव॒भि ज॑यति॒, यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश् चा॑ग्नि॒चितः॑ ।

मूलम्

ए॒तद् वै रा॑ज॒सूय॑स्य रू॒पम् ।

य ए॒वव्ँ वि॒द्वान् अ॒ग्निञ् चि॑नु॒त उ॒भावे॒व लो॒काव॒भि ज॑यति॒, यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश् चा॑ग्नि॒चितः॑ ।

भट्टभास्कर-टीका

8एतद्वा इति ॥ राजसूयस्य स्वरूपमभिषेकाख्यं एतदग्नौ क्रियते । तस्मादेवं विदित्वाऽग्निं चिन्वान उभौ लोकावभिजयति । राजसूययाजिनोग्निचितश्च ॥

मूलम् (संयुक्तम्)

इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्ँवी॒र्य॑म्परा॑पत॒त्तद्दे॒वास्सौ॑त्राम॒ण्या सम॑भरन्त्सू॒यते॒ वा ए॒ष यो॑ऽग्निञ्चि॑नु॒ते॑ऽग्निञ्चि॒त्वा सौ॑त्राम॒ण्या य॑जेतेन्द्रि॒यमे॒व वी॒र्यँ॑ स॒म्भृत्या॒त्मन्ध॑त्ते ॥ [14]

विश्वास-प्रस्तुतिः

इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्ँ वी॒र्य॑म् परा॑ऽपतत् ।
तद् दे॒वास् सौ॑त्राम॒ण्या सम॑भरन् ।
सू॒यते॒ वा ए॒ष यो॑ऽग्निञ्चि॑नु॒ते॑ ।
ऽग्निञ्चि॒त्वा सौ॑त्राम॒ण्या य॑जेत + इ॒न्द्रि॒य॒मे॒व वी॒र्यँ॑ स॒म्भृत्या॒त्मन्ध॑त्ते ॥ [14]

मूलम्

इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्ँ वी॒र्य॑म् परा॑ऽपतत् ।
तद् दे॒वास् सौ॑त्राम॒ण्या सम॑भरन् ।
सू॒यते॒ वा ए॒ष यो॑ऽग्निञ्चि॑नु॒ते॑ ।
ऽग्निञ्चि॒त्वा सौ॑त्राम॒ण्या य॑जेत + इ॒न्द्रि॒य॒मे॒व वी॒र्यँ॑ स॒म्भृत्या॒त्मन्ध॑त्ते ॥ [14]

भट्टभास्कर-टीका

9इन्द्रस्येत्यादि ॥ सौत्रामण्या विधिः । सुषुवाणस्य लब्धैश्वर्यस्य इन्द्रस्य दशधा विशीर्णमिन्द्रियं च पराऽपतत् । तन्मा पराऽपतदित्यग्निचयनानन्तरं सौत्रामण्या यजेत तत्तदिन्द्रियं वीर्यं च संभृत्याविशीर्णरूपं कृत्वा आत्मनि स्थापयति । ‘सुपां सुलुक्’ इति सप्तम्या लुक्, ‘नङिसंबुद्ध्योः’ इति नलोपाभावः ॥

इति पञ्चमे षष्ठे तृतीयोनुवाकः ॥