०२

मूलम् (संयुक्तम्)

अ॒पाङ्ग्रहा॑न्गृह्णात्ये॒तद्वाव रा॑ज॒सूयय्ँ॒यदे॒ते ग्रहाः॑ स॒वो॑ऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑मग्निस॒वश्चित्य॒स्ताभ्या॑मे॒व सू॑य॒तेऽथो॑ उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा॑ग्नि॒चित॒…

विश्वास-प्रस्तुतिः

अ॒पाङ्ग्रहा॑न् गृह्णाति ।
ए॒तद्वाव रा॑ज॒सूयय्ँ॒ यदे॒ते ग्रहाः॑ स॒वो॑ऽग्निः ।
व॑रुणस॒वो रा॑ज॒सूय॑मग्निस॒वश् चित्यः॑ ।
ताभ्या॑मे॒व सू॑यते ।

अथो॑ उ॒भावे॒व लो॒काव॒भि ज॑यति॒, यश् च॑ राज॒सूये॑नेजा॒नस्य॒ यश्च॑ + अ॒ग्नि॒चितः॑ ।

मूलम्

अ॒पाङ्ग्रहा॑न् गृह्णाति ।
ए॒तद्वाव रा॑ज॒सूयय्ँ॒ यदे॒ते ग्रहाः॑ स॒वो॑ऽग्निः ।
व॑रुणस॒वो रा॑ज॒सूय॑मग्निस॒वश् चित्यः॑ ।
ताभ्या॑मे॒व सू॑यते ।

अथो॑ उ॒भावे॒व लो॒काव॒भि ज॑यति॒, यश् च॑ राज॒सूये॑नेजा॒नस्य॒ यश्च॑ + अ॒ग्नि॒चितः॑ ।

भट्टभास्कर-टीका

1अथासां ब्राह्मणं - अपां ग्रहान् गृह्णातीति विधिः ॥ गृह्यन्त इति ग्रहाः कुम्भाश्च कुम्भ्यश्च कुम्भेष्टका उच्यन्ते । ‘ग्रहवृदृनिश्चिगमश्च’ इत्यप् । अपां सम्बन्धिन्यः कुम्भस्थाः आपोपां ग्रहाः ग्रहसंस्तवात् गृह्णाति चोदिताः एता उपदधातीति यावत् । वक्ष्यति च ‘यस्यैता उपधीयन्ते’ इति । यद्वा - आपो गृह्यन्ते आसु ता अपां ग्रहाः कुम्भेष्टका उच्यन्ते । एतद्वावेति । तत्सादृश्याताच्छब्द्यम् । सवोग्निरिति । सवो यज्ञविशेपः येनेश्वरो भवति अग्निचित्या स्वयं स्व एवाग्निरिति । पूर्ववताच्छब्द्यम् । उक्तं कुम्भेष्टकानां राजसूयत्वम् । इदानीं तयोरेव विशेषमाह - वरुणसवः वरुणयज्ञो राजसूयं अग्निसवश्चित्योग्निरिति तत्प्रधानत्वात् याभ्यां तावीश्वरावभूताम् । ‘चित्याऽग्निचित्ये च’ इति निपात्यते । चेतव्यश्चित्यः । ताभ्यामिति । अग्नीवरुणाभ्यामनुज्ञायते । यद्वा - ईश्वरः स्तूयते । षु प्रसवैश्वर्ययोः, कर्मणि यत् । अपर आह - ताभ्यामग्निसववरुणसवाभ्यां स्तूयते स्तोत्रीयते ताम्यामुभाम्यां अनेनेष्टं भवतीति तद्वदीश्वरो भवतीत्यर्थः । अथो इत्यादि । गतम् । अग्निं चितवात् ‘अग्नौ चेः’ इति भूते क्विप् ॥

मूलम् (संयुक्तम्)

आपो॑ भव॒न्त्यापो॒ वा अ॒ग्नेर्भ्रातृ॑व्या॒ यद॒पो॑ऽग्नेर॒धस्ता॑दुप॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवत्य्…

विश्वास-प्रस्तुतिः

आपो॑ भवन्ति ।
आपो॒ वा अ॒ग्नेर्भ्रातृ॑व्याः ।
यद् अ॒पो॑ऽग्नेर् अ॒धस्ता॑दुप॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै ।
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।

मूलम्

आपो॑ भवन्ति ।
आपो॒ वा अ॒ग्नेर्भ्रातृ॑व्याः ।
यद् अ॒पो॑ऽग्नेर् अ॒धस्ता॑दुप॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै ।
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।

भट्टभास्कर-टीका

2आपो भवन्तीति इष्टकास्वरूपविधिः ॥ अत्र च ‘अमृतं वा आपः’ इत्यादिस्तुतिर्भविष्यति । प्रागेवाधस्तात्त्वं विदधाति - अपो वा इत्यादि । यस्मादापोग्नेश्शत्रवः तस्मादग्नेरधस्तादेना उपदधाति भ्रातृव्याभिभवाय भवति । ततः स्वयं भूतिमान् सम्पद्यते, भ्रातृव्यश्च विनष्टो भवति ॥

मूलम् (संयुक्तम्)

अ॒मृत॑म् [5]
वा आप॒स्तस्मा॑द॒द्भिरव॑तान्तम॒भि षि॑ञ्चन्ति॒ नार्ति॒मार्च्छ॑ति॒ सर्व॒मायु॑रेति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद…

विश्वास-प्रस्तुतिः

अमृ॑तव्ँ॒ वा आपः ।
तस्मा॑द् अ॒द्भिरव॑तान्तम् अ॒भि षि॑ञ्चन्ति ।
नार्ति॒मार्च्छ॑ति॒ सर्व॒मायु॑रेति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद॑ ।

मूलम्

अमृ॑तव्ँ॒ वा आपः ।
तस्मा॑द् अ॒द्भिरव॑तान्तम् अ॒भि षि॑ञ्चन्ति ।
नार्ति॒मार्च्छ॑ति॒ सर्व॒मायु॑रेति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

3अमृतं वा इत्यादिरपां स्तुतिः ॥ अवतान्तं मूर्छितं अद्भिरभिषिञ्चन्ति । सर्वमायुरेत्युपधाता आसां, यश्चैवं वेदिता ॥

मूलम् (संयुक्तम्)

अन्नव्ँ॒वा आपᳶ॑ प॒शव॒ आपोऽन्न॑म्प॒शवो॑ऽन्ना॒दᳶ प॑शु॒मान्भ॑वति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद॒

विश्वास-प्रस्तुतिः

अन्नव्ँ॒ वा आपः॑ ।
प॒शव॒ आपः॑ ।
अन्न॑म् प॒शवः॑ ।
अ॒न्ना॒दᳶ प॑शु॒मान् भ॑वति॒, यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद॑ ।

मूलम्

अन्नव्ँ॒ वा आपः॑ ।
प॒शव॒ आपः॑ ।
अन्न॑म् प॒शवः॑ ।
अ॒न्ना॒दᳶ प॑शु॒मान् भ॑वति॒, यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

4अन्नं वा इत्यादि स्तुत्यन्तरमपाम् ॥ अन्नपशुसाधनात्वत्ताच्छब्द्यमपाम् । इदानीं प्रशस्ततरत्वं पशूनामाह - अन्नं पशव इति । अन्नस्यापि हेतवः पशव इति तेषामपि हेतव आप इति तासामुपधाता वेदिता च अन्नादः पशुमांश्च भवति ॥

मूलम् (संयुक्तम्)

द्वाद॑श भवन्ति॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रेणै॒वास्मै॑ [6]
अन्न॒मव॑ रुन्द्धे॒

विश्वास-प्रस्तुतिः

द्वाद॑श भवन्ति ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रुन्धे ।

मूलम्

द्वाद॑श भवन्ति ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रुन्धे ।

भट्टभास्कर-टीका

5द्वादशेति ॥ सङ्ख्याविधिर्गतः ॥

मूलम् (संयुक्तम्)

पात्रा॑णि भवन्ति॒ पात्रे॒ वा अन्न॑मद्यते॒ सयो॑न्ये॒वान्न॒मव॑ रुन्द्ध॒ आ द्वा॑द॒शात्पुरु॑षा॒दन्न॑म॒त्त्यथो॒ पात्रा॒न्न छि॑द्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद॑

विश्वास-प्रस्तुतिः

पात्रा॑णि भवन्ति ।
पात्रे॒ वा अन्न॑मद्यते ।
सयो॑न्ये॒वान्न॒मव॑ रुन्धे ।
आ द्वा॑द॒शात् पुरु॑षा॒दन्न॑मत्ति + अथो॒ पात्रा॒न् न छि॑द्यते॒ , यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद॑ ।

मूलम्

पात्रा॑णि भवन्ति ।
पात्रे॒ वा अन्न॑मद्यते ।
सयो॑न्ये॒वान्न॒मव॑ रुन्धे ।
आ द्वा॑द॒शात् पुरु॑षा॒दन्न॑मत्ति + अथो॒ पात्रा॒न् न छि॑द्यते॒ , यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

6पात्राणीति ॥ जलाधाररूपाणि । आद्वादशादिति । द्वादशमभिव्याप्य अन्नस्य अत्ता भवति । अपि च पात्रत्वान्न छिद्यते उपधाता वेदिता च । विश्वजनादित्वात्तुगभावः ॥

मूलम् (संयुक्तम्)

कु॒म्भाश्च॑ कु॒म्भीश्च॑ मिथु॒नानि॑ भवन्ति मिथु॒नस्य॒ प्रजा॑त्यै॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ [7]
चै॒ना॒ ए॒वव्ँ वेद॒

विश्वास-प्रस्तुतिः

कु॒म्भाश्च॑ कु॒म्भीश्च॑ मिथु॒नानि॑ भवन्ति ।
मि॒थु॒नस्य॒ प्रजा॑त्यै ।
प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते॒, यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद॑ ।

मूलम्

कु॒म्भाश्च॑ कु॒म्भीश्च॑ मिथु॒नानि॑ भवन्ति ।
मि॒थु॒नस्य॒ प्रजा॑त्यै ।
प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते॒, यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

7पात्राणि विशेप्यन्ते - कुम्भाश्चेत्यादि ॥ गतम् ॥

मूलम् (संयुक्तम्)

शुग्वा अ॒ग्निस्सो॑ऽध्व॒र्युय्ँयज॑मानम्प्र॒जाश्शु॒चार्प॑यति॒ यद॒प उ॑प॒दधा॑ति॒ शुच॑मे॒वास्य॑ शमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मान॒श्शाम्य॑न्ति प्र॒जा यत्रै॒ता उ॑पधी॒यन्ते॒…

विश्वास-प्रस्तुतिः

शुग्वा अ॒ग्निः ।
सो॑ऽध्व॒र्युय्ँ यज॑मानम् प्र॒जाश् शु॒चाऽर्प॑यति ।
यद॒प उ॑प॒दधा॑ति॒ शुच॑मे॒वास्य॑ शमयति ।
नार्ति॒मार्च्छ॑त्यध्व॒र्युर् न यज॑मान॒श् शाम्य॑न्ति प्र॒जा यत्रै॒ता उ॑पधी॒यन्ते॑ ।

मूलम्

शुग्वा अ॒ग्निः ।
सो॑ऽध्व॒र्युय्ँ यज॑मानम् प्र॒जाश् शु॒चाऽर्प॑यति ।
यद॒प उ॑प॒दधा॑ति॒ शुच॑मे॒वास्य॑ शमयति ।
नार्ति॒मार्च्छ॑त्यध्व॒र्युर् न यज॑मान॒श् शाम्य॑न्ति प्र॒जा यत्रै॒ता उ॑पधी॒यन्ते॑ ।

भट्टभास्कर-टीका

8शुगित्यादि ॥ शोचयिता तापयिताऽग्निः अध्वर्युर्यजमानं प्रजाश्च शोकेन पीडयति । अपामुपधानेन स दोषः परिहृतो भवति ॥

मूलम् (संयुक्तम्)

ऽपाव्ँवा ए॒तानि॒ हृद॑यानि॒ यदे॒ता आपो॒ यदे॒ता अ॒प उ॑प॒दधा॑ति दि॒व्याभि॑रे॒वैना॒स्सँ सृ॑जति॒ वर्षु॑कᳶ प॒र्जन्यः॑ [8]
भ॒व॒ति॒

विश्वास-प्रस्तुतिः

अ॒पाव्ँ वा ए॒तानि॒ हृद॑यानि॒ यदे॒ता आपः॑ ।
यदे॒ता अ॒प उ॑प॒दधा॑ति, दि॒व्याभि॑र् ए॒वैना॒स् सँ सृ॑जति॒, वर्षु॑कᳶ प॒र्जन्यो॑ भवति ।

मूलम्

अ॒पाव्ँ वा ए॒तानि॒ हृद॑यानि॒ यदे॒ता आपः॑ ।
यदे॒ता अ॒प उ॑प॒दधा॑ति, दि॒व्याभि॑र् ए॒वैना॒स् सँ सृ॑जति॒, वर्षु॑कᳶ प॒र्जन्यो॑ भवति ।

भट्टभास्कर-टीका

9अपां वा इत्यादि ॥ समुदायावयवभावेन स्तुतिः । प्रियतरत्वाद्धृदयत्वम् । दिव्याभिरिति । दिव्याभिर्वृष्ट्यादिभिः एना अवयवभूतात्मिकाः संसृजति मिश्रयति । ततो वर्षणशीलः पर्जन्यस्स्यात् हृदयस्थानीयानामासां इहोपहितत्वात् । ‘लषपत’ इत्यादिना उकञ् ॥

मूलम् (संयुक्तम्)

यो वा ए॒तासा॑मा॒यत॑न॒ङ्कॢप्तिव्ँ॒वेदा॒यत॑नवान्भवति॒ कल्प॑तेऽस्मा अनुसी॒तमुप॑ दधात्ये॒तद्वा आ॑सामा॒यत॑नमे॒षा कॢप्ति॒र्य ए॒वव्ँ वेदा॒यत॑नवान्भवति॒ कल्प॑तेऽस्मै

विश्वास-प्रस्तुतिः

यो वा ए॒तासा॑मा॒यत॑न॒ङ्कॢप्तिव्ँ॒ वेद॑ + आ॒यत॑नवान् भवति॒ कल्प॑तेऽस्मै ।
अ॒नु॒सी॒त॒मुप॑ दधाति ।
ए॒तद् वा आ॑सामा॒यत॑नमे॒षा कॢप्तिः ।
य ए॒वव्ँ वेदा॒यत॑नवान् भवति॒ कल्प॑तेऽस्मै ।

मूलम्

यो वा ए॒तासा॑मा॒यत॑न॒ङ्कॢप्तिव्ँ॒ वेद॑ + आ॒यत॑नवान् भवति॒ कल्प॑तेऽस्मै ।
अ॒नु॒सी॒त॒मुप॑ दधाति ।
ए॒तद् वा आ॑सामा॒यत॑नमे॒षा कॢप्तिः ।
य ए॒वव्ँ वेदा॒यत॑नवान् भवति॒ कल्प॑तेऽस्मै ।

भट्टभास्कर-टीका

10यो वा इत्यादि ॥ आयतनं सीतात्मकं स्थानं क्लृप्तं उपधानविशेषं सामर्थ्यं वा एतदुभयं यो वेद स आयतनवान् भवति । कल्पते चास्मै अभिमतं सामर्थ्यं वा अस्मै जायते । अनुसीतमित्यादि। । विभक्त्यर्थे अव्ययीभावः । सीतास्वित्यर्थः । एतदिति । सीताः ॥

मूलम् (संयुक्तम्)

द्व॒न्द्वम॒न्या उप॑ दधाति॒ चत॑स्रो॒ मध्ये॒ धृत्या॒

विश्वास-प्रस्तुतिः

द्व॒न्द्व॒म॒न्या उप॑ दधाति॒ , चत॑स्रो॒ मध्ये॒, धृत्यै ।

मूलम्

द्व॒न्द्व॒म॒न्या उप॑ दधाति॒ , चत॑स्रो॒ मध्ये॒, धृत्यै ।

भट्टभास्कर-टीका

11द्वन्द्वमित्यादि ॥ यज्ञपात्रप्रयोगे ‘द्वन्द्वम्’ इति निपात्यते । आन्या आहुतयः प्राच्यादिषु मध्ये तु चतस्रः । तथा कृतं धारणाय भवति समर्थम् ॥

मूलम् (संयुक्तम्)

अन्नव्ँ॒वा इष्ट॑का ए॒तत्खलु॒ वै सा॒क्षादन्नय्ँ॒यदे॒ष च॒रुर्यदे॒तञ्च॒रुमु॑प॒दधा॑ति सा॒क्षात् [9]
ए॒वास्मा॒ अन्न॒मव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

अन्नव्ँ॒ वा इष्ट॑काः ।
ए॒तत् खलु॒ वै सा॒क्षादन्नय्ँ॒ यदे॒ष च॒रुः ।
यदे॒तञ् च॒रुम् उ॑प॒दधा॑ति , सा॒क्षाद् ए॒वास्मा॒ अन्न॒मव॑ रुन्धे ।

मूलम्

अन्नव्ँ॒ वा इष्ट॑काः ।
ए॒तत् खलु॒ वै सा॒क्षादन्नय्ँ॒ यदे॒ष च॒रुः ।
यदे॒तञ् च॒रुम् उ॑प॒दधा॑ति , सा॒क्षाद् ए॒वास्मा॒ अन्न॒मव॑ रुन्धे ।

भट्टभास्कर-टीका

12अन्नं वा इति ॥ चरुविधिः । तत्साधनत्वात् ताच्छब्द्यम् । अपामित्यष्टकानां न मुख्यं, चरुस्तु साक्षादेव अव्यवधानेनान्नानामिति । यदेतमित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

मध्य॒त उप॑ दधाति मध्य॒त ए॒वास्मा॒ अन्न॑न्दधाति॒ तस्मा॑न्मध्य॒तोऽन्न॑मद्यते

विश्वास-प्रस्तुतिः

म॒ध्य॒त उप॑ दधाति ।
म॒ध्य॒त ए॒वास्मा॒ अन्न॑न्दधाति ।
तस्मा॑न् मध्य॒तो ऽन्न॑मद्यते ।

मूलम्

म॒ध्य॒त उप॑ दधाति ।
म॒ध्य॒त ए॒वास्मा॒ अन्न॑न्दधाति ।
तस्मा॑न् मध्य॒तो ऽन्न॑मद्यते ।

भट्टभास्कर-टीका

13मध्यत इति ॥ सर्वासामिष्टकानां मध्यत उदरे अन्नं दधाति तस्मान्मध्यत इति । मध्यमे वयसि भूयिष्ठं अन्नमद्यते ॥

मूलम् (संयुक्तम्)

बार्हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मा॒ अन्न॒मव॑ रुन्द्धे ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॒ त्वेत्या॑ह तेज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति॒ यस्यै॒ष उ॑पधी॒यते॒ य उ॑ चैनमे॒वव्ँवेद॑ ॥ [10]

विश्वास-प्रस्तुतिः

बा॒र्ह॒स्प॒त्यो भ॑वति ।
ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒वास्मा॒ अन्न॒मव॑ रुन्धे ।
“ब्र॒ह्म॒व॒र्च॒सम॑सि ब्रह्मवर्च॒साय॒ त्वा”+ इत्या॑ह ।
ते॒ज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति॒ , यस्यै॒ष उ॑पधी॒यते॒ य उ॑ चैनम् ए॒वव्ँ वेद॑ ॥ [10]

मूलम्

बा॒र्ह॒स्प॒त्यो भ॑वति ।
ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒वास्मा॒ अन्न॒मव॑ रुन्धे ।
“ब्र॒ह्म॒व॒र्च॒सम॑सि ब्रह्मवर्च॒साय॒ त्वा”+ इत्या॑ह ।
ते॒ज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति॒ , यस्यै॒ष उ॑पधी॒यते॒ य उ॑ चैनम् ए॒वव्ँ वेद॑ ॥ [10]

भट्टभास्कर-टीका

14बार्हस्पत्य इत्यादि ॥ गतम् ॥ +++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम् । )+++

इति पञ्चमे षष्ठे द्वितीयोनुवाकः॥