१६

मूलम् (संयुक्तम्)

सौ॒री ब॒लाकर्श्यो॑ म॒यूर॑श्श्ये॒नस्ते ग॑न्ध॒र्वाणाव्ँ॒वसू॑नाङ्क॒पिञ्ज॑लो रु॒द्राणा॑न्तित्ति॒री रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ता अ॑प्स॒रसा॒मर॑ण्याय सृम॒रः ॥ [54]

विश्वास-प्रस्तुतिः

सौ॒री ब॒लाका॑ ।
ऋश्यो॑ म॒यूर॑श् श्ये॒नस् ते ग॑न्ध॒र्वाणा॑म् ।
वसू॑नाङ्क॒पिञ्ज॑लः ।
रु॒द्राणा॑न् तित्ति॒री ।
रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ता अ॑प्स॒रसा॑म् ।
अर॑ण्याय सृम॒रः ॥ [54]

मूलम्

सौ॒री ब॒लाका॑ ।
ऋश्यो॑ म॒यूर॑श् श्ये॒नस् ते ग॑न्ध॒र्वाणा॑म् ।
वसू॑नाङ्क॒पिञ्ज॑लः ।
रु॒द्राणा॑न् तित्ति॒री ।
रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ता अ॑प्स॒रसा॑म् ।
अर॑ण्याय सृम॒रः ॥ [54]

भट्टभास्कर-टीका

1सौरी बलाका प्रावृट्प्रिया । ऋश्यादयस्त्रयो गन्धर्वाणाम् । गन्धर्वा देवताः प्रसिद्धाः । वसूनां कपिञ्जलः तित्तिरिजातीयः अधो निपात्यः रुद्राणां तित्तिरिः पुरुषस्वरः । रोहिताद्याः तिस्रः अप्सरसाम् । रोहित् ऋश्यस्त्री कुण्डृणाची ग्रहगौळिका । गोलत्तिका खञ्जरीटका । पीतशुक्लेति केचित् । अरण्याय सृमरः चमरः ॥

इति पञ्चमे पञ्चमे षोडशोनुवाकः ॥