मूलम् (संयुक्तम्)
म॒युᳶ प्रा॑जाप॒त्य ऊ॒लो हली॑क्ष्णो वृषदँ॒शस्ते धा॒तुस्सर॑स्वत्यै॒ शारि॑श्श्ये॒ता पु॑रुष॒वाक्सर॑स्वते॒ शुक॑श्श्ये॒तᳶ पु॑रुष॒वागा॑र॒ण्यो॑ऽजो न॑कु॒लश्शका॒ ते पौ॒ष्णा वा॒चे क्रौ॒ञ्चः ॥ [50]
विश्वास-प्रस्तुतिः
म॒युᳶ प्रा॑जाप॒त्यः ।
ऊ॒लो हली॑क्ष्णो वृषदँ॒शस्ते धा॒तुः ।
सर॑स्वत्यै॒ शारि॑श् श्ये॒ता पु॑रुष॒वाक् ।
सर॑स्वते॒ शुक॑श्श्ये॒तᳶ पु॑रुष॒वाक् ।
आ॒र॒ण्यो॑ ऽजो न॑कु॒लश्शका॒ ते पौ॒ष्णाः ।
वा॒चे क्रौ॒ञ्चः ॥ [50]
मूलम्
म॒युᳶ प्रा॑जाप॒त्यः ।
ऊ॒लो हली॑क्ष्णो वृषदँ॒शस्ते धा॒तुः ।
सर॑स्वत्यै॒ शारि॑श् श्ये॒ता पु॑रुष॒वाक् ।
सर॑स्वते॒ शुक॑श्श्ये॒तᳶ पु॑रुष॒वाक् ।
आ॒र॒ण्यो॑ ऽजो न॑कु॒लश्शका॒ ते पौ॒ष्णाः ।
वा॒चे क्रौ॒ञ्चः ॥ [50]
भट्टभास्कर-टीका
1मयुः किंपुरुष इत्येके । आरण्यमयूर इत्यन्ये । स प्राजापत्यः । ऊलादयस्त्रयो धातुः । ऊलः कुररः । कङ्क इत्यन्ये । दीर्घकर्ण इत्यपरे । यच्छब्दश्रवणान्मत्स्या उत्तिष्ठन्ति । हलीक्ष्णः तृणसिंह इत्यन्ये । हरितचटक इत्येके । वृषदंशो मार्जारः तत्सदृश इत्येके । दीर्घकार्णो - मृगसदृश इत्यन्ये । शार्यादयस्सरस्वते । शूकादयस्सप्त पौष्णाः । वाचे सरस्वत्याः क्रौञ्चः खञ्जरीटः दारुणरवः ॥
इति पञ्चमे पञ्चमे द्वादशोनुवाकः ॥