मूलम् (संयुक्तम्)
वि॒श्वक॑र्मा दि॒शाम्पति॒स्स नᳶ॑ प॒शून्पा॑तु॒ सो॑ऽस्मान्पा॑तु॒ तस्मै॒ नमᳶ॑ प्र॒जाप॑ती रु॒द्रो वरु॑णो॒ऽग्निर्दि॒शाम्पति॒स्स नᳶ॑ प॒शून्पा॑तु॒ सो॑ऽस्मान्पा॑तु॒ तस्मै॒ नम॑
विश्वास-प्रस्तुतिः
वि॒श्वक॑र्मा दि॒शाम्पति॒स्स नᳶ॑ प॒शून्पा॑तु॒ सो॑ऽस्मान्पा॑तु॒ तस्मै॒ नमः॑ ।
प्र॒जाप॑ती रु॒द्रो वरु॑णो॒ऽग्निर् दि॒शाम्पति॒स् स नᳶ॑ प॒शून् पा॑तु॒ , सो॑ऽस्मान् पा॑तु॒ , तस्मै॒ नमः॑ ।
मूलम्
वि॒श्वक॑र्मा दि॒शाम्पति॒स्स नᳶ॑ प॒शून्पा॑तु॒ सो॑ऽस्मान्पा॑तु॒ तस्मै॒ नमः॑ ।
प्र॒जाप॑ती रु॒द्रो वरु॑णो॒ऽग्निर् दि॒शाम्पति॒स् स नᳶ॑ प॒शून् पा॑तु॒ , सो॑ऽस्मान् पा॑तु॒ , तस्मै॒ नमः॑ ।
भट्टभास्कर-टीका
1पशुशीर्षेषु क्रमेण हिरण्येष्टकोपधानमन्त्राः - विश्वकर्मा दिशां पतिरित्यादयः । विश्वकर्मा वायुरादित्यो वा दिशां पतिः सोस्माकं पशून्पातु अस्मांश्च पातु तस्मै नमः । एवं प्रजापत्यादि चतुर्ष्वपि दिशां पतिरित्यनुषज्यते ॥
मूलम् (संयुक्तम्)
ए॒ता वै दे॒वता॑ ए॒तेषा॑म्पशू॒नामधि॑पतय॒स्ताभ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यᳶ प॑शुशी॒र्षाण्यु॑प॒दधा॑ति हिरण्येष्ट॒का उप॑ दधात्ये॒ताभ्य॑ ए॒व दे॒वता॑भ्यो॒ नम॑स्करोति
विश्वास-प्रस्तुतिः
ए॒ता वै दे॒वता॑ ए॒तेषा॑म् पशू॒नामधि॑पतयः ।
ताभ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यᳶ प॑शुशी॒र्षाण्य् उ॑प॒दधा॑ति ।
हि॒र॒ण्ये॒ष्ट॒का उप॑ दधाति ।
ए॒ताभ्य॑ ए॒व दे॒वता॑भ्यो॒ नम॑स्करोति ।
मूलम्
ए॒ता वै दे॒वता॑ ए॒तेषा॑म् पशू॒नामधि॑पतयः ।
ताभ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यᳶ प॑शुशी॒र्षाण्य् उ॑प॒दधा॑ति ।
हि॒र॒ण्ये॒ष्ट॒का उप॑ दधाति ।
ए॒ताभ्य॑ ए॒व दे॒वता॑भ्यो॒ नम॑स्करोति ।
भट्टभास्कर-टीका
2एता वा इत्यादि ॥ एतेषां ब्राह्मणम् । एता विश्वकर्मादयो देवाः एतेपां पशूनां अधिपतयः एपां शिरांस्युपस्थितानि । ताभ्य इत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनः॑ [22]
व॒द॒न्त्य॒ग्नौ ग्रा॒म्यान्प॒शून्प्र द॑धाति शु॒चार॒ण्यान॑र्पयति॒ किन्तत॒ उच्छिँ॑ष॒तीति॒ यद्धि॑रण्येष्ट॒का उ॑प॒दधा॑त्य॒मृतव्ँ॒ वै हिर॑ण्यम॒मृते॑नै॒व ग्रा॒म्येभ्यᳶ॑ प॒शुभ्यो॑ भेष॒जङ्क॑रोति॒ नैना॑न् हिनस्ति
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति [22] - “अ॒ग्नौ ग्रा॒म्यान् प॒शून् प्रद॑धाति, शु॒चा ऽऽर॒ण्यान॑र्पयति॒ , किन् तत॒ उच्छिँ॑षति” + इति॑ ।
यद्धि॑रण्येष्ट॒का उ॑प॒दधा॑त्य्, अ॒मृतव्ँ॒ वै हिर॑ण्यम्, अ॒मृते॑नै॒व ग्रा॒म्येभ्य॑ᳶ प॒शुभ्यो॑ भेष॒जङ्क॑रोति॒, नैना॑न् हिनस्ति ।

3ब्रह्मवादिन इत्यादि ॥ ग्राम्याः पशवोऽग्नौ निधीयन्ते दह्यन्ते आरण्याश्शोकेन योज्यन्ते । यथोक्तं - ‘ग्राम्येभ्य एव पशुभ्य आरण्यान् पशून् शुचमनूत्सृजति’ इति । तदिदानीं (दनेन) ग्राम्यारण्येभ्यः किंमुच्छिंषति किं पशुजातं शेषयति पशुशिरसामुपधाने । हन्त सर्वमपि पशुजातं विनाशितं भवतीति । यदित्यादि समाधानं गतम् ॥+++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम्।)+++
मूलम् (संयुक्तम्)
प्रा॒णो वै प्र॑थ॒मा स्व॑यमातृ॒ण्णा व्या॒नो द्वि॒तीया॑पा॒नस्तृ॒तीयानु॒ प्राण्या॑त्प्रथ॒माँ स्व॑यमातृ॒ण्णामु॑प॒धाय॑ प्रा॒णेनै॒व प्रा॒णँ सम॑र्धयति॒ व्य॑न्यात् [23]
द्वि॒तीया॑मुप॒धाय॑ व्या॒नेनै॒व व्या॒नँ सम॑र्धय॒त्यपा॑न्यात्तृ॒तीया॑मुप॒धाया॑पा॒नेनै॒वापा॒नँ सम॑र्धय॒त्यथो॑ प्रा॒णैरे॒वैनँ॒ समि॑न्द्धे॒
विश्वास-प्रस्तुतिः
प्रा॒णो वै प्र॑थ॒मा स्व॑यमातृ॒ण्णा, व्या॒नो द्वि॒तीया॑, ऽपा॒नस् तृ॒तीया॑ ।
अनु॒ प्राण्या॑त् प्रथ॒माँ स्व॑यमातृ॒ण्णामु॑प॒धाय॑ ।
प्रा॒णेनै॒व प्रा॒णँ सम॑र्धयति ।
व्य॑न्यात् द्वि॒तीया॑म् उप॒धाय॑ । [23]
व्या॒नेनै॒व व्या॒नँ सम॑र्धयति ।
अपा॑न्यात् तृ॒तीया॑म् उप॒धाय॑ ।
अ॒पा॒नेनै॒वापा॒नँ सम॑र्धयति ।
अथो॑ प्रा॒णैरे॒वैनँ॒ समि॑न्धे ।

4प्राणो वा इत्यादिना स्वयमातृण्णानां प्राणादित्वेन स्तुतिः ॥ प्राणादय इत्युक्ताः अनुप्राण्यादिविधिः । अथो इति । यजमानं च प्राणैसमृद्धं करोति ॥
मूलम् (संयुक्तम्)
भूर्भुव॒स्सुव॒रिति॑ स्वयमातृ॒ण्णा उप॑ दधाती॒मे वै लो॒कास्स्व॑यमातृ॒ण्णा ए॒ताभि॒ᳵ खलु॒ वै व्याहृ॑तीभिᳶ प्र॒जाप॑ति॒ᳶ प्राजा॑यत॒ यदे॒ताभि॒र्व्याहृ॑तीभिस्स्वयमातृ॒ण्णा उ॑प॒दधा॑ती॒माने॒व लो॒कानु॑प॒धायै॒षु [24]
लो॒केष्वधि॒ प्र जा॑यते
विश्वास-प्रस्तुतिः
भूर् भुव॒स् सुव॒रिति॑ स्वयमातृ॒ण्णा उप॑ दधाति ।
इ॒मे वै लो॒कास् स्व॑यमातृ॒ण्णाः ।
ए॒ताभि॒ᳵ खलु॒ वै व्याहृ॑तीभिᳶ प्र॒जाप॑ति॒ᳶ प्राजा॑यत ।
यद् ए॒ताभि॒र् व्याहृ॑तीभिस् स्वयमातृ॒ण्णा उ॑प॒दधा॑ति + इ॒माने॒व लो॒कान् उ॑प॒धाय॑ + ए॒षु लो॒केष्वधि॒ प्र जा॑यते ।[24]

5भूरित्यादि ॥ लोकत्रयात्मिका व्याहृतयः स्वयमातृण्णा च यथोक्ता । किञ्चैताभिर्व्याहतीभिः प्रजापतिः प्राजायत इत्यादि । गतम् ॥ ++++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम्।)+++
मूलम् (संयुक्तम्)
प्रा॒णाय॑ व्या॒नाया॑पा॒नाय॑ वा॒चे त्वा॒ चक्षु॑षे त्वा॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द…
विश्वास-प्रस्तुतिः
प्रा॒णाय॑ व्या॒नाया॑पा॒नाय॑ वा॒चे त्वा॒, चक्षु॑षे त्वा॒, तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।
मूलम्
प्रा॒णाय॑ व्या॒नाया॑पा॒नाय॑ वा॒चे त्वा॒, चक्षु॑षे त्वा॒, तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।
भट्टभास्कर-टीका
6प्राणायेत्यादिस्तयादेवतस्य विशेषो गतः ॥ +++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम् ।)+++
मूलम् (संयुक्तम्)
अ॒ग्निना॒ वै दे॒वास्सु॑व॒र्गल्ँ लो॒कम॑जिगाँस॒न्तेन॒ पति॑तु॒न्नाश॑क्नुव॒न्त ए॒ताश्चत॑स्रस्स्वयमातृ॒ण्णा अ॑पश्य॒न्ता दि॒क्षूपा॑दधत॒ तेन॑ स॒र्वत॑श्चक्षुषा सुव॒र्गल्ँ लो॒कमा॑य॒न्…
विश्वास-प्रस्तुतिः
अ॒ग्निना॒ वै दे॒वास् सु॑व॒र्गल्ँ लो॒कम॑जिगाँसन् ।
तेन॒ पति॑तु॒न् नाश॑क्नुवन् ।
त ए॒ताश् चत॑स्रस् स्वयमातृ॒ण्णा अ॑पश्यन् ।
ता दि॒क्षूपा॑दधत ।
तेन॑ स॒र्वत॑श् चक्षुषा सुव॒र्गल्ँ लो॒कमा॑यन् ।

7अग्निनेत्यादि ॥ अजिगांसन् गन्तुमैच्छन् । एतेः ‘सनि च’ इति गमिरादेशः, ‘अझ्झनगमां सनि’ इति दीर्घत्वम् । तेन स्वयमातृण्णारहितेन । एता इति । प्राणाय व्यानाय वाच इति प्राणादिषु प्रत्येकत्वाच्चक्षुषे त्वेत्यादेः अनुषङ्गः । तेन सर्वतश्चक्षुषेत्यनेन दिक्षूपहितचतुस्स्वयमातृण्णेन सर्वास्वपि दिक्षु ‘चक्षुषे त्वा’ इत्यादिचक्षुष्मन्मन्तसहितेन एतेन चक्षुषे त्वेत्यदेः सर्वानुषङ्गतां दर्शयति ॥
मूलम् (संयुक्तम्)
यच्चत॑स्रस्स्वयमातृ॒ण्णा दि॒क्षू॑प॒दधा॑ति स॒र्वत॑श्चक्षुषै॒व तद॒ग्निना॒ यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति ॥ [25]
विश्वास-प्रस्तुतिः
यच् चत॑स्रस् स्वयमातृ॒ण्णा दि॒क्षु + उ॒प॒दधा॑ति ,
स॒र्वत॑श् चक्षुषै॒व तद॒ग्निना॒ यज॑मानस् सुव॒र्गल्ँ लो॒कमे॑ति ॥ [25]
मूलम्
यच् चत॑स्रस् स्वयमातृ॒ण्णा दि॒क्षु + उ॒प॒दधा॑ति ,
स॒र्वत॑श् चक्षुषै॒व तद॒ग्निना॒ यज॑मानस् सुव॒र्गल्ँ लो॒कमे॑ति ॥ [25]
भट्टभास्कर-टीका
8यदित्यादि ॥ गतम् ॥ +++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम्। )+++
इति पञ्चमे पञ्चमे पञ्चमः ॥