मूलम् (संयुक्तम्)
पव॑स्व॒ वाज॑सातय॒ इत्य॑नु॒ष्टुक्प्र॑ति॒पद्भ॑वति ति॒स्रो॑ऽनु॒ष्टुभ॒श्चत॑स्रो गाय॒त्रियो॒ यत्ति॒स्रो॑ऽनु॒ष्टुभ॒स्तस्मा॒दश्व॑स्त्रि॒भिस्तिष्ठँ॑ स्तिष्ठति॒ यच्चत॑स्रो गाय॒त्रिय॒स्तस्मा॒त्सर्वाँ॑श्च॒तुरᳶ॑ प॒दᳶ प्र॑ति॒दध॒त्पला॑यते
विश्वास-प्रस्तुतिः
पव॑स्व॒ वाज॑सातय॒ इत्य॑नु॒ष्टुक्प्र॑ति॒पद्भ॑वति ।
ति॒स्रो॑ऽनु॒ष्टुभ॒श्चत॑स्रो गाय॒त्रियः॑ ।
यत्ति॒स्रो॑ ऽनु॒ष्टुभ॒स् तस्मा॒दश्व॑स् त्रि॒भिस् तिष्ठँ॑स्तिष्ठति ।
यच्चत॑स्रो गाय॒त्रिय॒स्तस्मा॒त्सर्वाँ॑श्च॒तुरᳶ॑ प॒दᳶ प्र॑ति॒दध॒त्पला॑यते ।
मूलम्
पव॑स्व॒ वाज॑सातय॒ इत्य॑नु॒ष्टुक्प्र॑ति॒पद्भ॑वति ।
ति॒स्रो॑ऽनु॒ष्टुभ॒श्चत॑स्रो गाय॒त्रियः॑ ।
यत्ति॒स्रो॑ ऽनु॒ष्टुभ॒स् तस्मा॒दश्व॑स् त्रि॒भिस् तिष्ठँ॑स्तिष्ठति ।
यच्चत॑स्रो गाय॒त्रिय॒स्तस्मा॒त्सर्वाँ॑श्च॒तुरᳶ॑ प॒दᳶ प्र॑ति॒दध॒त्पला॑यते ।
भट्टभास्कर-टीका
1अथाश्वमेधब्राह्मणं वैश्वदेवम् - पवस्वेत्यादि ॥ प्रतिपत् प्रथमा ऋक् । बहिष्पवमानस्याद्यतृचस्य पवस्वेत्यादिकाऽनुष्टुक् भवति । ततश्च तिस्रश्चतुष्पदा अनुष्टुभश्चतस्रः त्रिपदा गायत्र्यो भवन्ति । ‘तिसृभ्यो जसः’ इति जस उदात्तत्वम् । यस्मादेव तिस्रश्चतस्रश्च ता भवन्ति । तस्मात्त्र्रित्वान्वयादश्वस्त्रिभिः पादैः तिष्ठति । ततस्तिसृभिस्तिष्ठति चतुर्थमुद्यच्छति चतुष्ट्वान्वयात् । स च सर्वांचतुरोपि पदः प्रतिदधत् प्रतिक्षिपन् पलायते धावति । ‘उपसर्गस्यायतौ’ इति लत्वम् ॥
मूलम् (संयुक्तम्)
पर॒मा वा ए॒षा छन्द॑साय्ँ॒यद॑नु॒ष्टुक्प॑र॒मश्च॑तुष्टो॒मस्स्तोमा॑नाम्पर॒मस्त्रि॑रा॒त्रो य॒ज्ञाना॑म्पर॒मोऽश्वᳶ॑ पशू॒नाम्पर॑मेणै॒वैन॑म्पर॒मता॑ङ्गमयत्येकविँ॒शमह॑र्भवति [56]
यस्मि॒न्नश्व॑ आल॒भ्यते॒
विश्वास-प्रस्तुतिः
प॒र॒मा वा ए॒षा छन्द॑साय्ँ॒ यद॑नु॒ष्टुक् ।
प॒र॒मश्च॑तुष्टो॒मस् स्तोमा॑नाम् ।
प॒र॒मस्त्रि॑रा॒त्रो य॒ज्ञाना॑म् ।
प॒र॒मोश्वᳶ॑ पशू॒नाम् ।
प॒र॒मेणै॒वैन॑म्पर॒मता॑ङ् गमयति ।
ए॒क॒विँ॒शमह॑र्भवति , यस्मि॒न्नश्व॑ आल॒भ्यते॑ । [56]
मूलम्
प॒र॒मा वा ए॒षा छन्द॑साय्ँ॒ यद॑नु॒ष्टुक् ।
प॒र॒मश्च॑तुष्टो॒मस् स्तोमा॑नाम् ।
प॒र॒मस्त्रि॑रा॒त्रो य॒ज्ञाना॑म् ।
प॒र॒मोश्वᳶ॑ पशू॒नाम् ।
प॒र॒मेणै॒वैन॑म्पर॒मता॑ङ् गमयति ।
ए॒क॒विँ॒शमह॑र्भवति , यस्मि॒न्नश्व॑ आल॒भ्यते॑ । [56]
भट्टभास्कर-टीका
2परमेति ॥ ‘वाग्वा अनुष्टुप्’ इति छन्दसां मध्ये अनुष्टुगुत्तमा । चतुष्टोमत्वं च । त्रिरात्रं च प्रकृष्टकार्यत्वात् उत्तमत्वं जहाति । चतुष्टोमवानग्निष्टोमश्चतुष्टोमाभेदेनोच्यते । अग्निष्टोमः । कस्मात्पूर्ववदभेद उपचर्यते, कथं पुनस्तदहरित्याह - यस्मिन्निति । मध्यममि … ॥
मूलम् (संयुक्तम्)
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कविँ॒श ए॒ष प्र॒जाप॑तिᳶ प्राजाप॒त्योऽश्व॒स्तमे॒व सा॒क्षादृ॑ध्नोति॒
विश्वास-प्रस्तुतिः
द्वाद॑श॒ मासा॒ᳶ , पञ्च॒र्तव॒स् , त्रय॑ इ॒मे लो॒का , अ॒सावा॑दि॒त्य ए॑कविँ॒श , ए॒ष प्र॒जाप॑तिः ।
प्रा॒जा॒प॒त्योऽश्वः॑ ।
तमे॒व सा॒क्षादृ॑ध्नोति ।
मूलम्
द्वाद॑श॒ मासा॒ᳶ , पञ्च॒र्तव॒स् , त्रय॑ इ॒मे लो॒का , अ॒सावा॑दि॒त्य ए॑कविँ॒श , ए॒ष प्र॒जाप॑तिः ।
प्रा॒जा॒प॒त्योऽश्वः॑ ।
तमे॒व सा॒क्षादृ॑ध्नोति ।
भट्टभास्कर-टीका
3द्वादशेत्यादि ॥ गतम् । एष इति । मासस्य लोकादित्यात्मना प्रजापतिः । तमिति । तादृशः प्रजापत्यात्मिकामृद्धिमृध्नोति । साक्षादव्यवधानेन एकविंशत्यन्वयात् ॥
मूलम् (संयुक्तम्)
शक्व॑रयᳶ पृ॒ष्ठम्भ॑वन्त्य॒न्यद॑न्य॒च्छन्दो॒ऽन्ये॑न्ये॒ वा ए॒ते प॒शव॒ आ ल॑भ्यन्त उ॒तेव॑ ग्रा॒म्या उ॒तेवा॑र॒ण्या यच्छक्व॑रयᳶ पृ॒ष्ठम्भव॒न्त्यश्व॑स्य सर्व॒त्वाय॑
विश्वास-प्रस्तुतिः
शक्व॑रयᳶ पृ॒ष्ठम्भ॑वन्ति ।
अ॒न्यद॑न्य॒च्छन्दः॑ ।
अन्ये॑न्ये॒ वा ए॒ते प॒शव॒ आ ल॑भ्यन्त, उ॒तेव॑ ग्रा॒म्या, उ॒तेवा॑र॒ण्याः ।
यच्छक्व॑रयᳶ पृ॒ष्ठम्भव॒न्त्यश्व॑स्य सर्व॒त्वाय॑ ।
मूलम्
शक्व॑रयᳶ पृ॒ष्ठम्भ॑वन्ति ।
अ॒न्यद॑न्य॒च्छन्दः॑ ।
अन्ये॑न्ये॒ वा ए॒ते प॒शव॒ आ ल॑भ्यन्त, उ॒तेव॑ ग्रा॒म्या, उ॒तेवा॑र॒ण्याः ।
यच्छक्व॑रयᳶ पृ॒ष्ठम्भव॒न्त्यश्व॑स्य सर्व॒त्वाय॑ ।
भट्टभास्कर-टीका
4शक्वरय इति ॥ शक्वरीछन्दस्कं पृष्ठसाम भवति । षट्पंच शक्वरयः । छान्दसं ह्रस्वत्वम् । आवृत्तिस्तोत्रेण पृष्ठस्य सामबहुत्वाभावाद्योन्यपेक्षं बहुवचनम् । अन्यदन्यदिति । एवमेवास्मिन्नहनि सर्वेष्वपि सामसु अन्यदन्यच्छन्दोस्मिन्नहनि अन्येऽन्ये वाऽप्येते पशव आलभ्यन्ते यथा चारण्या उक्ताः ग्राम्या आरण्याश्च पशवः । शक्वरीणां पृष्ठत्वं अश्वस्य सर्वत्वाय ॥
मूलम् (संयुक्तम्)
पार्थुर॒श्मम्ब्र॑ह्मसा॒मम्भ॑वति र॒श्मिना॒ वा अश्वः॑ [57]
य॒त ई॑श्व॒रो वा अश्वोऽय॒तोऽप्र॑तिष्ठित॒ᳶ परा॑म्परा॒वत॒ङ्गन्तो॒र्यर्त्पा॑र्थुर॒श्मम्ब्र॑ह्मसा॒मम्भव॒त्यश्व॑स्य॒ यत्यै॒ धृत्यै॒
विश्वास-प्रस्तुतिः
पा॒थु॒र॒श्मम्ब्र॑ह्मसा॒मम्भ॑वति ।
र॒श्मिना॒ वा अश्वो॑ य॒त ई॑श्व॒रो वा अश्वो ऽय॒तो ऽप्र॑तिष्ठित॒ᳶ परा॑म्परा॒वत॒ङ्गन्तोः॑ । [57]
यर्त्पा॑र्थुर॒श्मम् ब्र॑ह्मसा॒मम्भव॒त्यश्व॑स्य॒ यत्यै॒ धृत्यै ।
मूलम्
पा॒थु॒र॒श्मम्ब्र॑ह्मसा॒मम्भ॑वति ।
र॒श्मिना॒ वा अश्वो॑ य॒त ई॑श्व॒रो वा अश्वो ऽय॒तो ऽप्र॑तिष्ठित॒ᳶ परा॑म्परा॒वत॒ङ्गन्तोः॑ । [57]
यर्त्पा॑र्थुर॒श्मम् ब्र॑ह्मसा॒मम्भव॒त्यश्व॑स्य॒ यत्यै॒ धृत्यै ।
भट्टभास्कर-टीका
5पार्थुरश्ममिति ॥ एवमेवास्मिन्नहनि सर्वेष्वपि सामसु । पृथुरश्मिना दृष्टं साम पार्थुरश्मम् । ब्रह्मसाममिति । ‘अनसन्तान्नपुंसकात्’ इत्यच् समासान्तः । रश्मिनेति । यस्माद्रश्मिना यतो बद्धोश्वः कार्यवशे तिष्ठति । ईश्वर इत्यादि । अयतस्त्वश्वोऽप्रतिष्ठितोऽवशे वर्तमानः परां परावतं दूरादपि दूरतरं गन्तुमीश्वरः समर्थस्स्यात् । ‘उपसर्गाच्छदसि’ इति वतिः, ‘ईश्वरे तोसुन्कसुनौ’ इति तोसुन् । तस्मात्पार्थुरश्ममश्वस्य यत्वै बन्धनाय भवति ॥
मूलम् (संयुक्तम्)
सङ्कृ॑त्यच्छावाकसा॒मम्भ॑वत्युत्सन्नय॒ज्ञो वा ए॒ष यद॑श्वमे॒धᳵ कस्तद्वे॒देत्या॑हु॒र्यदि॒ सर्वो॑ वा क्रि॒यते॒ न वा॒ सर्व॒ इति॒ यत्सङ्कृ॑त्यच्छावाकसा॒मम्भव॒त्यश्व॑स्य सर्व॒त्वाय॒ पर्या॑प्त्या॒ अन॑न्तरायाय॒
विश्वास-प्रस्तुतिः
सङ्कृ॑त्यच्छावाकसा॒मम्भ॑वति ।
उ॒त्स॒न्न॒य॒ज्ञो वा ए॒ष यद॑श्वमे॒धः ।
कस्तद् वे॒देत्या॑हु॒र् “यदि॒ सर्वो॑ वा क्रि॒यते॒ न वा॒ सर्व॒” इति॑ ।
यत्सङ्कृ॑त्यच्छावाकसा॒मम्भव॒त्यश्व॑स्य सर्व॒त्वाय॒ पर्या॑प्त्या॒ अन॑न्तरायाय ।
मूलम्
सङ्कृ॑त्यच्छावाकसा॒मम्भ॑वति ।
उ॒त्स॒न्न॒य॒ज्ञो वा ए॒ष यद॑श्वमे॒धः ।
कस्तद् वे॒देत्या॑हु॒र् “यदि॒ सर्वो॑ वा क्रि॒यते॒ न वा॒ सर्व॒” इति॑ ।
यत्सङ्कृ॑त्यच्छावाकसा॒मम्भव॒त्यश्व॑स्य सर्व॒त्वाय॒ पर्या॑प्त्या॒ अन॑न्तरायाय ।
भट्टभास्कर-टीका
6संकृतीति ॥ संकृतिसंज्ञाच्छावाकसाम भवति मध्यमेऽहनि । समीचीनाकृतिः अस्येति संकृतिः । उत्सन्नयज्ञ इत्यादि । उत्सन्नभूयिष्ठावयवोश्वमेधः कार्त्स्न्येन संपादयितुमशक्यत्वात् । तदेवाह – कस्तदिति । यद्ययं सर्वोप्यविकल एव अनुष्ठीयते यदि वा न तमिमं विशेषं को वेदितुमर्हतीति पुराविद आहुः । तस्मादच्छावाकसाम्नः संकृतित्वं अश्वस्य सर्वत्वाय अविकलत्वाय भवति । तच्च पर्याप्तयै देवानां भवति । नन्तरायाय अविघ्नाय स्वर्गप्राप्तयै भवति ॥
मूलम् (संयुक्तम्)
सर्व॑स्तोमोऽतिरा॒त्र उ॑त्त॒ममह॑र्भवति॒ सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्यै॒ सर्व॑मे॒व तेना॑प्नोति॒ सर्व॑ञ्जयति ॥ [58]
विश्वास-प्रस्तुतिः
सर्व॑स्तोमोऽतिरा॒त्र उ॑त्त॒ममह॑र्भवति॒, सर्व॒स्याप्त्यै॒ , सर्व॑स्य॒ जित्यै॑ ।
सर्व॑मे॒व तेना॑प्नोति॒ , सर्व॑ञ्जयति ॥ [58]
मूलम्
सर्व॑स्तोमोऽतिरा॒त्र उ॑त्त॒ममह॑र्भवति॒, सर्व॒स्याप्त्यै॒ , सर्व॑स्य॒ जित्यै॑ ।
सर्व॑मे॒व तेना॑प्नोति॒ , सर्व॑ञ्जयति ॥ [58]
भट्टभास्कर-टीका
7सर्वस्तोम इति ॥ उपलक्षणत्वात् सर्वस्तोमः सर्वपृष्ठश्चातिरात्र उत्तमस्तृतीयाहर्भवति सर्वस्याप्तै सर्वस्य जेतव्यस्य जित्यै । एतेनाश्वमेधेन हि सर्वमाप्नोति जयति च सर्वं इति ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये पञ्चमे काण्डे चतुर्थे प्रपाठके द्वादशोनुवाकः ॥ समाप्तश्च प्रपाठकः ॥ हरिः ओम् ॥