११

मूलम् (संयुक्तम्)

छ॒न्द॒श्चित॑ञ्चिन्वीत प॒शुका॑मᳶ प॒शवो॒ वै छन्दाँ॑सि पशु॒माने॒व भ॑वति

विश्वास-प्रस्तुतिः

छ॒न्द॒श्चित॑ञ्चिन्वीत प॒शुका॑मᳶ ,
प॒शवो॒ वै छन्दाँ॑सि, पशु॒माने॒व भ॑वति ।

मूलम्

छ॒न्द॒श्चित॑ञ्चिन्वीत प॒शुका॑मᳶ ,
प॒शवो॒ वै छन्दाँ॑सि, पशु॒माने॒व भ॑वति ।

भट्टभास्कर-टीका

1छन्दश्चितमित्यादयो विधयः छन्दोभिश्चीयत इति । छन्दश्चित् । ‘कर्मण्याख्यायाम्’ इति क्विप् । अत्र सामर्थ्यादवधारणं गम्यते छन्दोभिरेवेति । उक्तं ‘छन्दांस्युप दधाति’ इति तैरेव ‘अग्निर्मूर्धा’ इत्यादिभिः मन्त्रैस्सर्वोग्निश्चीयते । अन्य आहुः छन्दोभिरेव नेष्टकाभिरिति । छन्दश्शब्दस्य मन्त्रवाचित्वात् मन्त्रैरेव’अग्निर्मूर्धा’ इत्यादिभिश्चीयत इति । सर्वैर्मन्त्रैरित्यपरे । छन्दसां पशुसाधनत्वात् पशुमान् भवति । ‘ह्रस्वनुङ्भ्याम्’ इति मतुप उदात्तत्वम् ॥

मूलम् (संयुक्तम्)

श्येन॒चित॑ञ्चिन्वीत सुव॒र्गका॑मश्श्ये॒नो वै वय॑सा॒म्पति॑ष्ठश्श्ये॒न ए॒व भू॒त्वा सु॑व॒र्गल्ँ लो॒कम्प॑तति

विश्वास-प्रस्तुतिः

श्ये॒न॒चित॑ञ्चिन्वीत सुव॒र्गका॑मश् श्ये॒नो वै वय॑सा॒म्पति॑ष्ठः ।
श्ये॒न ए॒व भू॒त्वा सु॑व॒र्गल्ँ लो॒कम्प॑तति ।

मूलम्

श्ये॒न॒चित॑ञ्चिन्वीत सुव॒र्गका॑मश् श्ये॒नो वै वय॑सा॒म्पति॑ष्ठः ।
श्ये॒न ए॒व भू॒त्वा सु॑व॒र्गल्ँ लो॒कम्प॑तति ।

भट्टभास्कर-टीका

2श्येनचितमिति ॥ श्येन इव चीयते वक्रपक्षो व्यस्तपुच्छ इति । स एव क्विप् । नित्य एव; नात्र कामसंयोगः । उक्तं च ‘श्येनचिदग्नीनां’ इति । पतिष्ठः पतितृतमः पक्षिणां मध्ये । ‘तुश्छन्दसि’ इतीष्ठनि ‘तुरिष्ठेमेयस्सु’ इति लोपः ॥

मूलम् (संयुक्तम्)

कङ्क॒चित॑ञ्चिन्वीत॒ यᳵ का॒मये॑त शीर्ष॒ण्वान॒मुष्मिल्ँ॑ लो॒के स्या॒मिति॑ शीर्ष॒ण्वाने॒वामुष्मिल्ँ॑ लो॒के भ॑वत्य्

विश्वास-प्रस्तुतिः

क॒ङ्क॒चित॑ञ्चिन्वीत॒ , यᳵ का॒मये॑त “शीर्ष॒ण्वान॒मुष्मिल्ँ॑ लो॒के स्या॑म्” +इति॑ ।
शी॒र्ष॒ण्वाने॒वामुष्मिल्ँ॑ लो॒के भ॑वति ।

मूलम्

क॒ङ्क॒चित॑ञ्चिन्वीत॒ , यᳵ का॒मये॑त “शीर्ष॒ण्वान॒मुष्मिल्ँ॑ लो॒के स्या॑म्” +इति॑ ।
शी॒र्ष॒ण्वाने॒वामुष्मिल्ँ॑ लो॒के भ॑वति ।

भट्टभास्कर-टीका

3कङ्कचितमिति ॥ कङ्क इव चीयत इति श्येनभेद एव अयं पक्षी वर्षीयांसौ पक्षौ पुच्छाद्वक्रौ सन्नं पुच्छं दीर्घ आत्मा मण्डल-शिरश्च । शीर्षण्वानिति । प्रशस्तशिरस्कः प्रभूतत्वेनोच्छ्रितत्वं शिरसः प्रशस्तत्वम् । ‘अनो नुट्’ पूर्ववन्मतुप उदात्तत्वम् ॥

मूलम् (संयुक्तम्)

अलज॒चित॑ञ्चिन्वीत॒ चतु॑स्सीतम्प्रति॒ष्ठाका॑म॒श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठति

विश्वास-प्रस्तुतिः

अ॒ल॒ज॒चित॑ञ्चिन्वीत॒ , चतु॑स्सीतम्प्रति॒ष्ठाका॑म॒श्चत॑स्रो॒ दिशः॑ ।
दि॒क्ष्वे॑व प्रति॑ तिष्ठति ।

मूलम्

अ॒ल॒ज॒चित॑ञ्चिन्वीत॒ , चतु॑स्सीतम्प्रति॒ष्ठाका॑म॒श्चत॑स्रो॒ दिशः॑ ।
दि॒क्ष्वे॑व प्रति॑ तिष्ठति ।

भट्टभास्कर-टीका

4अलजचितमिति ॥ अलजो नाम भासाख्यः कङ्कसमानकमि[नाकृ]तिपक्षिविशेषः, स इव चीयत इति क्विप् । चतुस्सीतमिति । द्वादशत्वस्य प्रत्याम्नानाच्चतुष्ट्वं; तिसृणां स्थान एकैका ॥

मूलम् (संयुक्तम्)

प्रउग॒चित॑ञ्चिन्वीत॒ भ्रातृ॑व्यवा॒न्प्र [52]
ए॒व भ्रातृ॑व्यान्नुदत

विश्वास-प्रस्तुतिः

प्रउग॒चित॑ञ्चिन्वीत॒ भ्रातृ॑व्यवा॒न् , प्रैव भ्रातृ॑व्यान्नुदते ।[52]

मूलम्

प्रउग॒चित॑ञ्चिन्वीत॒ भ्रातृ॑व्यवा॒न् , प्रैव भ्रातृ॑व्यान्नुदते ।[52]

भट्टभास्कर-टीका

5प्रउगचितमिति ॥ प्रौगं अनोमुखम् । यावानग्निस्सारत्निप्रदेशतो द्विस्तावतीं भूमिं चतुरश्रं कृत्वा पूर्वस्याः करण्याः अर्घाच्छ्रोणीं प्रत्यालिखेत् । लेखयोरन्तः प्रउगाकारो दृश्यते; तदिव चीयत इति । स एव क्विप् । प्रणुदत एव भ्रातृव्यान् शत्रून् । व्यन् ॥

मूलम् (संयुक्तम्)

उभ॒यतᳶ॑प्रउगञ्चिन्वीत॒ यᳵ का॒मये॑त॒ प्र जा॒तान्भ्रातृ॑व्यान्नु॒देय॒ प्रति॑जनि॒ष्यमा॑णा॒निति॒ प्रैव जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णान्

विश्वास-प्रस्तुतिः

उ॒भ॒यतᳶ॑ प्रउगञ्चिन्वीत ।
यᳵ का॒मये॑त॒
“प्र जा॒तान्भ्रातृ॑व्यान्नु॒देय॒ प्रति॑जनि॒ष्यमा॑णान्” + इति॒ , प्रैव जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णान् ।

मूलम्

उ॒भ॒यतᳶ॑ प्रउगञ्चिन्वीत ।
यᳵ का॒मये॑त॒
“प्र जा॒तान्भ्रातृ॑व्यान्नु॒देय॒ प्रति॑जनि॒ष्यमा॑णान्” + इति॒ , प्रैव जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णान् ।

भट्टभास्कर-टीका

6उभयतःप्रउगमिति ॥ उभयोरन्तयोः प्रउगस्येवाकारो यस्येति स उभयतःप्रउगः । मध्ये विस्तीर्णया विमुखे शकटे तदर्धं पूर्वोक्तप्रमाणं क्षेत्रं चतुरश्रं विहृत्य पूर्वापरयोः करण्योरर्धान्तादिति दक्षिणोत्तरयोरन्तर्निपातयेत् । मध्ये उभयतःप्रउगं दृश्यते इति । जातान् भ्रातृव्यान् प्रणुदते नाशयति । जनिष्यमाणान् प्रतिनुदते उत्पत्तिनिरोधेन अनुत्पन्नानेव करोति ॥

मूलम् (संयुक्तम्)

रथचक्र॒चित॑ञ्चिन्वीत॒ भ्रातृ॑व्य॒वान्वज्रो॒ वै रथो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्य॒ᳶ प्र ह॑रति

विश्वास-प्रस्तुतिः

र॒थ॒च॒क्र॒चित॑ञ्चिन्वीत॒ , भ्रातृ॑व्य॒वान् ।
वज्रो॒ वै रथो॒ , वज्र॑मे॒व भ्रातृ॑व्येभ्य॒ᳶ प्र ह॑रति ।

मूलम्

र॒थ॒च॒क्र॒चित॑ञ्चिन्वीत॒ , भ्रातृ॑व्य॒वान् ।
वज्रो॒ वै रथो॒ , वज्र॑मे॒व भ्रातृ॑व्येभ्य॒ᳶ प्र ह॑रति ।

भट्टभास्कर-टीका

7रथचक्रमिति ॥ रथस्तृतीयमुक्तां? । तस्य चक्रमिव चीयत इति । स एव क्विप् । वज्रवज्जयसाधनं रथः तत्रावयवावयविनोरभेदोपचारात् चक्रं रथ उच्यते ॥

मूलम् (संयुक्तम्)

द्रोण॒चित॑ञ्चिन्वी॒तान्न॑कामो॒ द्रोणे॒ वा अन्न॑म्भ्रियते॒ सयो॑न्ये॒वान्न॒मव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

द्रो॒ण॒चित॑ञ्चिन्वीता॒न्न॑कामः ।
द्रोणे॒ वा अन्न॑म्भ्रियते॒ ,
सयो॑न्ये॒वान्न॒मव॑ रुन्धे ।

मूलम्

द्रो॒ण॒चित॑ञ्चिन्वीता॒न्न॑कामः ।
द्रोणे॒ वा अन्न॑म्भ्रियते॒ ,
सयो॑न्ये॒वान्न॒मव॑ रुन्धे ।

भट्टभास्कर-टीका

8द्रोणचितमिति ॥ यत्रान्नमाह्रियते तद्द्रोणं, तदिव चीयत इति । सतोमण्डलश्चतुरश्रो वा । पूर्ववत्क्विप् । सयोनीति । कारणसहितमेवान्नमवरुन्धे ॥

मूलम् (संयुक्तम्)

समू॒ह्य॑ञ्चिन्वीत प॒शुका॑मᳶ पशु॒माने॒व भ॑वति [53]

विश्वास-प्रस्तुतिः

स॒मू॒ह्य॑ञ्चिन्वीत प॒शुका॑मᳶ , पशु॒माने॒व भ॑वति । [53]

मूलम्

स॒मू॒ह्य॑ञ्चिन्वीत प॒शुका॑मᳶ , पशु॒माने॒व भ॑वति । [53]

भट्टभास्कर-टीका

9समूह्यमिति ॥ दिग्भ्यः पुरीषमस्मिन्निति अधिकरणे ण्यत् । ‘अग्नौ परिचाय्य’ इत्यादौ निपात्यते । आहुश्च - ‘चतुर्दिक्षु चात्वाला भवन्ति तेभ्यः पुरीषमूहन्तीति विज्ञायते’ इति । मृदेव समूह्य चीयत इति केचित् ॥

मूलम् (संयुक्तम्)

प॒रि॒चा॒य्य॑ञ्चिन्वीत॒ ग्राम॑कामो ग्रा॒म्ये॑व भ॑वति

विश्वास-प्रस्तुतिः

प॒रि॒चा॒य्य॑ञ्चिन्वीत॒ ग्राम॑कामो, ग्रा॒म्ये॑व भ॑वति ।

मूलम्

प॒रि॒चा॒य्य॑ञ्चिन्वीत॒ ग्राम॑कामो, ग्रा॒म्ये॑व भ॑वति ।

भट्टभास्कर-टीका

10परिचाय्यमिति । परितः प्रदक्षिणं चीयन्त इष्टकाः इति । तत्रैव निपात्यते । आहुश्च - मध्यमां स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति कर्षणादिकमपि मण्डलाकारमिति केचित् ॥

मूलम् (संयुक्तम्)

श्मशान॒चित॑ञ्चिन्वीत॒ यᳵ का॒मये॑त पितृलो॒क ऋ॑ध्नुया॒मिति॑ पितृलो॒क ए॒वर्ध्नो॑ति

विश्वास-प्रस्तुतिः

श्म॒शा॒न॒चित॑ञ्चिन्वीत॒ , यᳵ का॒मये॑त “पितृलो॒क ऋ॑ध्नुयाम्” +इति॑ ।
पितृलो॒क ए॒वर्ध्नो॑ति ।

मूलम्

श्म॒शा॒न॒चित॑ञ्चिन्वीत॒ , यᳵ का॒मये॑त “पितृलो॒क ऋ॑ध्नुयाम्” +इति॑ ।
पितृलो॒क ए॒वर्ध्नो॑ति ।

भट्टभास्कर-टीका

11श्मशानचितमिति ॥ श्मशानानि विषमाकाराणि चतुरश्राणि परिमण्डलानि च तद्वच्चीयत इति । स्वरुध्य [ऋद्ध्यै] द्रोणचित्समानम् । स एव क्विप् ॥

मूलम् (संयुक्तम्)

विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्धेताँ॒ स ए॒ता ज॒मद॑ग्निर्विह॒व्या॑ अपश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स वसि॑ष्ठस्येन्द्रि॒यव्ँवी॒र्य॑मवृङ्क्त॒ यद्वि॑ह॒व्या॑ उप॒दधा॑तीन्द्रि॒यमे॒व ताभि॑र्वी॒र्यय्ँ॑यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒

विश्वास-प्रस्तुतिः

वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी वसि॑ष्ठेनास्पर्धेताँ॒ ,
स ए॒ता ज॒मद॑ग्निर्विह॒व्या॑ अपश्य॒त्ता उपा॑धत्त॒ , ताभि॒र्वै स वसि॑ष्ठस्येन्द्रि॒यव्ँवी॒र्य॑मवृङ्क्त ।
यद्वि॑ह॒व्या॑ उप॒दधा॑तीन्द्रि॒यमे॒व ताभि॑र्वी॒र्यय्ँ॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते ।

मूलम्

वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी वसि॑ष्ठेनास्पर्धेताँ॒ ,
स ए॒ता ज॒मद॑ग्निर्विह॒व्या॑ अपश्य॒त्ता उपा॑धत्त॒ , ताभि॒र्वै स वसि॑ष्ठस्येन्द्रि॒यव्ँवी॒र्य॑मवृङ्क्त ।
यद्वि॑ह॒व्या॑ उप॒दधा॑तीन्द्रि॒यमे॒व ताभि॑र्वी॒र्यय्ँ॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते ।

भट्टभास्कर-टीका

12विश्वामित्रजमदग्नी इति ॥ गतम् । विहव्या इति । ‘ममाग्ने वर्चः’ इत्यादिभिरुपधेयाः । विहवशब्दवानुपधाने मन्त्र आसाम् । पूर्ववद्यत् ॥

मूलम् (संयुक्तम्)

होतु॒र्धिष्णि॑य॒ उप॑ दधाति यजमानायत॒नव्ँ वै [54]
होता॒ स्व ए॒वास्मा॑ आ॒यत॑न इन्द्रि॒यव्ँवी॒र्य॑मव॑ रुन्द्धे॒ द्वाद॒शोप॑ दधाति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑ताᳶ प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे॒

विश्वास-प्रस्तुतिः

होतु॒र्धिष्णि॑य॒ उप॑ दधाति ।
य॒ज॒मा॒ना॒य॒त॒नव्ँ वै होता॒ , स्व ए॒वास्मा॑ आ॒यत॑न इन्द्रि॒यव्ँ वी॒र्य॑मव॑ रुन्धे ।[54]
द्वा॒द॒शोप॑ दधाति । द्वाद॑शाक्षरा॒ जग॑ती ।
जाग॑ताᳶ प॒शवः॑ । जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे ।

मूलम्

होतु॒र्धिष्णि॑य॒ उप॑ दधाति ।
य॒ज॒मा॒ना॒य॒त॒नव्ँ वै होता॒ , स्व ए॒वास्मा॑ आ॒यत॑न इन्द्रि॒यव्ँ वी॒र्य॑मव॑ रुन्धे ।[54]
द्वा॒द॒शोप॑ दधाति । द्वाद॑शाक्षरा॒ जग॑ती ।
जाग॑ताᳶ प॒शवः॑ । जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे ।

भट्टभास्कर-टीका

13होतुर्धिष्णिय इत्याद्याः सङ्ख्याविशेषविधयः । यजमानायतनं वा इति । तादर्थ्याद्यजमानायतनत्वं होतुः । द्वादशेति । एकां या जुषीमेकादश च लोकंपृणाः । गतमन्यत् ॥

अ॒ष्टाव् अ॑ष्टाव् ...{Loading}...
मूलम् (संयुक्तम्)

ऽष्टाव॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधात्य॒ष्टाश॑फाᳶ प॒शवᳶ॑ प॒शूने॒वाव॑ रुन्द्धे॒ षण्मा॑र्जा॒लीये॒ षड्वा ऋ॒तव॑ ऋ॒तव॒ᳵ खलु॒ वै दे॒वाᳶ पि॒तर॑ ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति ॥ [55]

विश्वास-प्रस्तुतिः

अष्टाव् अ॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधाति ।
अ॒ष्टाश॑फाᳶ प॒शवᳶ॑, प॒शूने॒वाव॑ रुन्धे ।
षण्मा॑र्जा॒लीये॒ , षड्वा ऋ॒तवः॑ ।
ऋ॒तव॒ᳵ खलु॒ वै दे॒वाᳶ पि॒तरः॑ ।
ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति ॥ [55]

मूलम्

अष्टाव॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधाति ।
अ॒ष्टाश॑फाᳶ प॒शवᳶ॑, प॒शूने॒वाव॑ रुन्धे ।
षण्मा॑र्जा॒लीये॒ , षड्वा ऋ॒तवः॑ ।
ऋ॒तव॒ᳵ खलु॒ वै दे॒वाᳶ पि॒तरः॑ ।
ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति ॥ [55]

भट्टभास्कर-टीका

14अष्टाविति ॥ एकां याजुषीम् । सप्त च लोकंपृणाः ।
अन्येषु धिष्ण्येषु आग्नीध्रीयादिषु षडिति । एकां याजुषीं पञ्च लोकंपृणाः ।
ऋतव एव खलु पितृरूपेण वर्तन्ते । तस्माद् उभयान्प्रीणातीति ॥

इति पञ्चमे चतुर्थे एकादशोनुवाकः ॥