१०

मूलम् (संयुक्तम्)

सुव॒र्गाय॒ वै लो॒काय॑ देवर॒थो यु॑ज्यते यत्राकू॒ताय॑ मनुष्यर॒थ ए॒ष खलु॒ वै दे॑वर॒थो यद॒ग्निर॒ग्निय्ँयु॑नज्मि॒ शव॑सा घृ॒तेनेत्या॑ह यु॒नक्त्ये॒वैनँ॒ स ए॑नय्ँयु॒क्तस्सु॑व॒र्गल्ँ लो॒कम॒भि व॑हति॒

विश्वास-प्रस्तुतिः

सु॒व॒र्गाय॒ वै लो॒काय॑ देवर॒थो यु॑ज्यते यत्राकू॒ताय॑ मनुष्य॒थः ।
ए॒ष खलु॒ वै दे॑वर॒थो यद॒ग्निर॒ग्निय्ँयु॑नज्मि॒ शव॑सा घृ॒तेनेत्या॑ह ।
यु॒नक्त्ये॒वैनँ॒ स ए॑नय्ँ यु॒क्तस्सु॑व॒र्गल्ँ लो॒कम॒भि व॑हति ।

मूलम्

सु॒व॒र्गाय॒ वै लो॒काय॑ देवर॒थो यु॑ज्यते यत्राकू॒ताय॑ मनुष्य॒थः ।
ए॒ष खलु॒ वै दे॑वर॒थो यद॒ग्निर॒ग्निय्ँयु॑नज्मि॒ शव॑सा घृ॒तेनेत्या॑ह ।
यु॒नक्त्ये॒वैनँ॒ स ए॑नय्ँ यु॒क्तस्सु॑व॒र्गल्ँ लो॒कम॒भि व॑हति ।

भट्टभास्कर-टीका

1सुवर्गायेत्यादि ॥ अग्नियोगविधिः । स्वर्गायैव लोकाय देवरथो युज्यते । मनुष्यरथस्तु यत्राकूताय यत्रक्वचिदाकूताय अभिप्रेताय देशाय यत्राभिप्रेतं देशं गन्तुं युज्यते । उभयत्रापि ‘क्रियार्थोपपदस्य’ इति कर्मणि चतुर्थी । प्रसिद्ध एव मनुष्यरथः कः पुनरसौ देवरथ इत्याह - एष इति । देवानां रमयिता रथः इष्टप्राप्तिहेतुत्वात् ‘अग्निं युनज्मि’ इत्यादिभिः तिसृभिरेनमग्निं युनक्त्येव अभिभवनक्षममेव करोति ॥

मूलम् (संयुक्तम्)

यत्सर्वा॑भिᳶ प॒ञ्चभि॑र्यु॒ञ्ज्याद्यु॒क्तो॑ऽस्या॒ग्निᳶ प्रच्यु॑तस्स्या॒दप्र॑तिष्ठिता॒ आहु॑तय॒स्स्युरप्र॑तिष्ठिता॒स्स्तोमा॒ अप्र॑तिष्ठितान्यु॒क्थानि॑ ति॒सृभिᳶ॑ प्रातस्सव॒ने॑ऽभि मृ॑शति त्रि॒वृत् [47]
वा अ॒ग्निर्यावा॑ने॒वाग्निस्तय्ँयु॑नक्ति॒ यथाऽन॑सि यु॒क्त आ॑धी॒यत॑ ए॒वमे॒व तत्प्रत्याहु॑तय॒स्तिष्ठ॑न्ति॒ प्रति॒ स्तोमा॒ᳶ प्रत्यु॒क्थानि॑

विश्वास-प्रस्तुतिः

यत्सर्वा॑भिᳶ प॒ञ्चभि॑र्यु॒ञ्ज्याद्यु॒क्तो॑ऽस्या॒ग्निᳶ प्रच्यु॑तस्स्यात् ।

अप्र॑तिष्ठिता॒ आहु॑तय॒स्स्युरप्र॑तिष्ठिता॒स् स्तोमा॒ , अप्र॑तिष्ठितान्यु॒क्थानि॑ ।
ति॒सृभिᳶ॑ प्रातस्सव॒ने॑ऽभि मृ॑शति ।

त्रि॒वृद् वा अ॒ग्निर्यावा॑ने॒वाग्निस्तय्ँ यु॑नक्ति । [47]

यथाऽन॑सि यु॒क्त आ॑धी॒यत॑ , ए॒वमे॒व तत्प्रत्याहु॑तय॒स्तिष्ठ॑न्ति॒ , प्रति॒ स्तोमा॒ᳶ प्रत्यु॒क्थानि॑ ।

2यदित्यादि ॥ सर्वाभिः पञ्चभिरपि ऋग्भिर्युञ्ज्यात् युगपदेव प्रातस्सवने तदाऽस्य युक्तो गमनयोग्यो जातस्तदानीमेव प्रच्युतस्स्यात् गन्तव्यं प्रतिगच्छेत् । तस्मिन्गते अग्न्यभावात् अप्रतिष्ठिता अप्रतिष्ठाने आहुतयस्य्युः स्तोमा उक्थानि च । तस्मात् पुरस्तात् प्रातरनुवाकात्तिसृभिः आद्याभिरभिमृशन् अग्निं युनक्ति । त्रित्वान्वयात्त्रिवृदग्निः सर्वोपि युक्तो भवति । ततश्च यथाऽनसि शकटे युक्ते गमनयोग्ये कृते आधीयते वोढव्यं द्रव्यजातमेवमेवैतत् । तस्मिन् अप्रच्युते आहुत्यादयः प्रतितिष्ठन्ति द्वाभ्यां युक्तत्वात् न सहसा प्रच्युत इति भावः । उभयत्रापि ‘चादिलोपे विभाषा’ इति प्रथमा तिङ्विभक्तिर्न निहन्यते ॥

मूलम् (संयुक्तम्)

यज्ञाय॒ज्ञिय॑स्य स्तो॒त्रे द्वाभ्या॑म॒भि मृ॑शत्ये॒तावा॒न्वै य॒ज्ञो यावा॑नग्निष्टो॒मो भू॒मा त्वा अ॒स्यात॑ ऊ॒र्ध्वᳵ क्रि॑यते॒ यावा॑ने॒व य॒ज्ञस्तम॑न्त॒तो॑ऽन्वारो॑हति॒ द्वाभ्या॒म्प्रति॑ष्ठित्या॒ एक॒याप्र॑स्तुत॒म्भव॒त्यथ॑ [48]
अ॒भि मृ॑श॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑म॒त्यथो॒ सन्त॑त्यै॒

विश्वास-प्रस्तुतिः

य॒ज्ञा॒य॒ज्ञिय॑स्य स्तो॒त्रे द्वाभ्या॑म॒भि मृ॑शति ।
ए॒तावा॒न्वै य॒ज्ञो यावा॑नग्निष्टो॒मः ।
भू॒मा त्वा अ॒स्यात॑ ऊ॒र्ध्वᳵ क्रि॑यते ।
यावा॑ने॒व य॒ज्ञस्तम॑न्त॒तो॑ऽन्वारो॑हति॒ , द्वाभ्या॒म्प्रति॑ष्ठित्यै ।
एक॒याऽप्र॑स्तुत॒म्भव॒त्यथा॒भि मृ॑शति ।[48]
उपै॑न॒मुत्त॑रो य॒ज्ञो न॑म॒त्यथो॒ सन्त॑त्यै ।

3कस्तर्हि ताभ्यामुपयोग इत्याह - यज्ञायज्ञियस्य यज्ञायज्ञशब्दोऽस्मिन् अस्तीति ‘मतौ छस्सूक्तसाम्नोः’ इति छः । यज्ञायज्ञियमग्निष्टोमसाम येनाग्निष्टोमः संतिष्ठते ‘यज्ञायज्ञिय’ इत्येतद्योनिकम् । तत्र स्तोत्रकाले द्वाभ्यां शिष्टाभ्यां अन्तरभिमृशति । एतावानित्यादि । अग्निष्टोम एव सर्वोपि यज्ञः नैतद्व्यतिरेकेण यज्ञोऽन्योऽस्ति । ननु उक्थ्यादयोऽन्ये यज्ञाः सन्तीत्यत आह - भूमा त्वेति । अस्यैव भूमा वृद्धिः सोत ऊर्ध्वमुक्थ्यादि क्रियते, न तु यज्ञान्तरम् । तस्मात्सर्वं ततोऽन्वारोहति यावत् । पूर्ववन्निघाताभावः । अथास्मिन्काले द्वाभ्यामभिमृशति तत उत्तरो यज्ञ उक्थ्यादिरेनं उपनमति शीघ्रमन्त्यायास्स्तोत्रीयायाः स्थापनात् पूर्वं ‘विश्वस्य मूर्धन्नधि तिष्ठसि श्रितः’ इति च मन्त्रलिङ्गात् । अथो अपि च संतत्यै अविच्छेदाय यज्ञानां भवति समाप्ते चेत् यज्ञायज्ञिये स्यात् समाप्तत्वात् यज्ञविच्छेदस्य ॥

मूलम् (संयुक्तम्)

प्र वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते॒ यो॑ऽग्निञ्चि॑नु॒ते न वा ए॒तस्या॑निष्ट॒क आहु॑ति॒रव॑ कल्पते॒ याव्ँवा ए॒षो॑ऽनिष्ट॒क आहु॑तिञ्जु॒होति॒ स्रव॑ति॒ वै सा ताँ स्रव॑न्तीय्ँ य॒ज्ञोऽनु॒ परा॑ भवति य॒ज्ञय्ँयज॑मानो॒ यत्पु॑नश्चि॒तिञ्चि॑नु॒त आहु॑तीना॒म्प्रति॑ष्ठित्यै॒ प्रत्याहु॑तय॒स्तिष्ठ॑न्ति [49]
न य॒ज्ञᳶ प॑रा॒भव॑ति॒ न यज॑मानो॒

विश्वास-प्रस्तुतिः

प्र वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते॒ ,
यो॑ऽग्निञ्चि॑नु॒ते न वा ए॒तस्या॑निष्ट॒क आहु॑ति॒रव॑ कल्पते॒ ,
याव्ँ वा ए॒षो॑ऽनिष्ट॒क आहु॑तिञ्जु॒होति॑ ।

स्रव॑ति॒ वै सा , ताँ स्रव॑न्तीय्ँ य॒ज्ञोऽनु॒ परा॑ भवति य॒ज्ञय्ँयज॑मानो॒ यत्पु॑नश्चि॒तिञ्चि॑नु॒त आहु॑तीना॒म्प्रति॑ष्ठित्यै ।
प्रत्याहु॑तय॒स्तिष्ठ॑न्ति ।[49]
न य॒ज्ञᳶ प॑रा॒भव॑ति॒ न यज॑मानः ।

4प्र वा एष इति ॥ पुनश्चितिविधिः । अस्माद्यथावस्थिताल्लोकात् अग्निचित्प्रच्यवते अपगच्छति । तस्मादेतस्य अनिष्टके स्थाने आहुतिर्नावकल्पते यथावस्थिते ह्यग्निचितः पुनश्चितीष्टकारहिते चित्याग्नौ आहुतिर्न युज्यते यदि तादृशे जुहुयात् सा आहुतिः स्रवति नश्यति । अनन्तरं च यज्ञो यजमानश्च पराभवतः । पुनश्चितेस्तु चयनात् सर्वदोषाप्रसङ्ग इति । अन्य आहुः - अस्मिन्काले अग्निहोत्रादिकं यत्कर्तव्यं यावज्जीवादिविधानात् अवश्यकर्तव्यं च तस्मादप्येष प्रच्यवते न ह्यग्निचितोनिष्टकचिते देशे आहुतिस्सम्भवति । तस्माद्यामाहुतिमग्निहोत्रादिमनिष्टके जुहोति सा नश्यति । यज्ञादिश्च पराभवति । तस्मात् पुनश्चितिराहुतीनां अग्निहोत्रादनीं अपि प्रतिष्ठित्यै अस्रवणाय भवतीति ॥

मूलम् (संयुक्तम्)

ऽष्टावुप॑ दधात्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रेणै॒वैन॒ञ्छन्द॑सा चिनुते॒ यदेका॑दश॒ त्रैष्टु॑भेन॒ यद्द्वाद॑श॒ जाग॑तेन॒ छन्दो॑भिरे॒वैन॑ञ्चिनुते नपा॒त्को वै नामै॒षो॑ऽग्निर्यत्पु॑नश्चि॒तिर्य ए॒वव्ँवि॒द्वान्पु॑नश्चि॒तिञ्चि॑नु॒त आ तृ॒तीया॒त्पुरु॑षा॒दन्न॑मत्ति॒

विश्वास-प्रस्तुतिः

अ॒ष्टावुप॑ दधाति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रेणै॒वैन॒ञ्छन्द॑सा चिनुते ।
यदेका॑दश॒ त्रैष्टु॑भेन॒ यद्द्वाद॑श॒ जाग॑तेन॒ छन्दो॑भिरे॒वैन॑ञ्चिनुते ।

नपा॒त्को वै नामै॒षो॑ऽग्निर्यत्पु॑नश् चि॒तिर् य ए॒वव्ँ वि॒द्वान्पु॑नश्चि॒तिञ् चि॑नु॒त आ तृ॒तीया॒त्पुरु॑षा॒दन्न॑मत्ति ।

5अष्टाविति ॥ ‘येनर्षयः’ इत्यादिभिः । यदेकादशेति । उपदधातीत्येव । त्रैष्टुभेनेति । उपदधातीत्येवैनं छन्दसा चिनुत इत्येव । एवमुत्तरत्रापि । नपात्क इति । नपात्को नामायं पुनश्चितिराहुतीनां अग्निहोत्रादीनां अपि प्रतिष्ठित्यै । अग्निर्नपात् नप्ता चतुर्थः पुत्रस्थानीयः । तस्मात्स एष पूर्वान् त्रीन् पुरुषान् पुरुषानन्तरोपि तृतीयं पुरुषमपि व्याप्य तैस्सहान्नमत्ति । यद्वा - न पातयतीति नपात् ‘न भ्राण्णपात्’ इति निपात्यते । अपत्यसन्तानकारीत्यर्थः । अथ समृद्ध्यर्थतां पुनश्चितेराह ॥

मूलम् (संयुक्तम्)

यथा॒ वै पु॑नरा॒धेय॑ ए॒वम्पु॑नश्चि॒तिर्यो॑ऽग्न्या॒धेये॑न॒ न [50]
ऋ॒ध्नोति॒ स पु॑नरा॒धेय॒मा ध॑त्ते॒ यो॑ऽग्निञ्चि॒त्वा नर्ध्नोति॒ स पु॑नश्चि॒तिञ्चि॑नुते॒ यत्पु॑नश्चि॒तिञ्चि॑नु॒त ऋद्ध्या॒ अथो॒ खल्वा॑हु॒र्न चे॑त॒व्येति॑ रु॒द्रो वा ए॒ष यद॒ग्निर्यथा॑ व्या॒घ्रँ सु॒प्तम्बो॒धय॑ति ता॒दृगे॒व तदथो॒ खल्वा॑हुश्चेत॒व्येति॒ यथा॒ वसी॑याँसम्भाग॒धेये॑न बो॒धय॑ति ता॒दृगे॒व तन्

विश्वास-प्रस्तुतिः

यथा॒ वै पु॑नरा॒धेय॑ ए॒वम्पु॑नश् चि॒तिर् यो॑ऽग्न्या॒धेये॑न॒ नर्ध्नोति॒ स पु॑नरा॒धेय॒मा ध॑त्ते॒ , यो॑ऽग्निञ्चि॒त्वा नर्ध्नोति॒ स पु॑नश्चि॒तिञ्चि॑नुते॒ ,
यत्पु॑नश्चि॒तिञ् चि॑नु॒त ऋद्ध्यै॑ । [50]

अथो॒ खल्वा॑हु॒र्न चे॑त॒व्येति॑ , रु॒द्रो वा ए॒ष यद॒ग्निर्यथा॑ व्या॒घ्रँ सु॒प्तम्बो॒धय॑ति ता॒दृगे॒व तत् ।
अथो॒ खल्वा॑हुश्चेत॒व्येति॒ , यथा॒ वसी॑याँसम्भाग॒धेये॑न बो॒धय॑ति ता॒दृगे॒व तत् ।

6यथेत्यादि ॥ गतम् । अ … त्यादिश्च समाप्तौ कोपहेतुना पुनश्चित्येति मन्यते । चेतव्येति । पुनश्चित्यैव । चितेः पूरणे निघाताभावः । किञ्च यो भागधेयेन उपहारं विबोधयति स खलु तोषयत्येव तं न कोपयति ॥

मूलम् (संयुक्तम्)

मनु॑र॒ग्निम॑चिनुत॒ तेन॒ नार्ध्नो॒त्स ए॒ताम्पु॑नश्चि॒तिम॑पश्य॒त्ताम॑चिनुत॒ तया॒ वै स आ॑र्ध्नो॒द्यत्पु॑नश्चि॒तिञ्चि॑नु॒त ऋद्ध्यै॑ ॥ [51]

विश्वास-प्रस्तुतिः

मनु॑र॒ग्निम॑चिनुत॒ तेन॒ नार्ध्नो॑त् ।
स ए॒ताम्पु॑नश्चि॒तिम॑पश्य॒त्ताम॑चिनुत ।
तया॒ वै स आ॑र्ध्नो॒द् यत्पु॑नश्चि॒तिञ् चि॑नु॒त ऋद्ध्यै॑ ॥ [51]

मूलम्

मनु॑र॒ग्निम॑चिनुत॒ तेन॒ नार्ध्नो॑त् ।
स ए॒ताम्पु॑नश्चि॒तिम॑पश्य॒त्ताम॑चिनुत ।
तया॒ वै स आ॑र्ध्नो॒द् यत्पु॑नश्चि॒तिञ् चि॑नु॒त ऋद्ध्यै॑ ॥ [51]

भट्टभास्कर-टीका

7मनुरित्यादि ॥ गतम् । उक्तमर्थं शिष्टाचारेणापि प्रथयति ॥

इति पञ्चमे चतुर्थे दशमोनुवाकः ॥