०९

मूलम् (संयुक्तम्)

अ॒ग्निर्दे॒वेभ्योऽपा॑क्रामद्भाग॒धेय॑मि॒च्छमा॑न॒स्तन्दे॒वा अ॑ब्रुव॒न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यन्नो॑ व॒हेति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणै॒ मह्य॑मे॒व वा॑जप्रस॒वीय॑ञ्जुहव॒न्निति॒ तस्मा॑द॒ग्नये॑ वाजप्रस॒वीय॑ञ्जुह्वति॒ यद्वा॑जप्रस॒वीय॑ञ्जु॒होत्य॒ग्निमे॒व तद्भा॑ग॒धेये॑न॒ सम॑र्धय॒त्यथो॑ अभिषे॒क ए॒वास्य॒ स

विश्वास-प्रस्तुतिः

अ॒ग्निर्दे॒वेभ्योऽपा॑क्रामद्भाग॒धेय॑मि॒च्छमा॑नः ।
तन्दे॒वा अ॑ब्रुव॒न्न् - उप॑ न॒ आ व॑र्तस्व ह॒व्यन्नो॑ व॒हेति॑ ।
सो॑ऽब्रवी॒द् - “वरव्ँ॑ वृणै॒ मह्य॑मे॒व वा॑जप्रस॒वीय॑ञ्जुहवन्न्” + इति॑ ।
तस्मा॑द॒ग्नये॑ वाजप्रस॒वीय॑ञ्जुह्वति ।
यद्वा॑जप्रस॒वीय॑ञ्जु॒होत्य॒ग्निमे॒व तद्भा॑ग॒धेये॑न॒ सम॑र्धयति ।
अथो॑ अभिषे॒क ए॒वास्य॒ सः ।

मूलम्

अ॒ग्निर्दे॒वेभ्योऽपा॑क्रामद्भाग॒धेय॑मि॒च्छमा॑नः ।
तन्दे॒वा अ॑ब्रुव॒न्न् - उप॑ न॒ आ व॑र्तस्व ह॒व्यन्नो॑ व॒हेति॑ ।
सो॑ऽब्रवी॒द् - “वरव्ँ॑ वृणै॒ मह्य॑मे॒व वा॑जप्रस॒वीय॑ञ्जुहवन्न्” + इति॑ ।
तस्मा॑द॒ग्नये॑ वाजप्रस॒वीय॑ञ्जुह्वति ।
यद्वा॑जप्रस॒वीय॑ञ्जु॒होत्य॒ग्निमे॒व तद्भा॑ग॒धेये॑न॒ सम॑र्धयति ।
अथो॑ अभिषे॒क ए॒वास्य॒ सः ।

भट्टभास्कर-टीका

1अग्निर्देवेभ्य इत्यादि ॥ भागधेयमसाधारणमिच्छन् देवेभ्योपागच्छत् । तमित्यादि । गतम् । वाजप्रसवीयमिति । ‘वाञो नस्सप्त’ इति सप्तभिस्सप्तभिः यत्क्रियते वाजोऽन्नं तस्य प्रसवः प्रसूतिरुत्पादनं तत्प्रयोजनेन होमः वाजप्रसवीयः । अनुप्रवचनादिलक्षणश्छः । चतुर्दशौषधिहोमस्य संज्ञा । जुहवन्निति । जुहुयुः । पञ्चमो लकारः । अथो अपि च अभिषेक एवास्याग्नेः स वाजप्रसवीयः देवानामादित्ये स्थापनात् । न केवल भागधेयसमृद्धिरेवास्यानेन भवति ॥

मूलम् (संयुक्तम्)

च॑तुर्द॒शभि॑र्जुहोति स॒प्त ग्रा॒म्या ओष॑धयस्स॒प्त [43]
आ॒र॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या॒

विश्वास-प्रस्तुतिः

च॒तु॒र्द॒शभि॑र्जुहोति ।
स॒प्त ग्रा॒म्या ओष॑धयस्स॒प्तार॒ण्याः ।[43]
उ॒भयी॑षा॒मव॑रुद्ध्यै ।

मूलम्

च॒तु॒र्द॒शभि॑र्जुहोति ।
स॒प्त ग्रा॒म्या ओष॑धयस्स॒प्तार॒ण्याः ।[43]
उ॒भयी॑षा॒मव॑रुद्ध्यै ।

भट्टभास्कर-टीका

2चतुर्दशभिरोषधीभिः । ‘तृतीया च होश्छन्दसि’ इति तृतीया । आहुतिश्च । सप्त ग्राम्या इति । उभयीषां होमादुभयीषां लाभः । तत्र ग्राम्याः - तिलमाषा व्रीहियवाः प्रियङ्गवोऽणवो गोधूमा इति । अथारण्याः - शामाकनीवारजर्तिलगवीधुका हाळका वास्याणवश्च ॥

मूलम् (संयुक्तम्)

अन्न॑स्यान्नस्य जुहो॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्या॒

विश्वास-प्रस्तुतिः

अन्न॑स्यान्नस्य जुहोति ।
अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ।

मूलम्

अन्न॑स्यान्नस्य जुहोति ।
अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ।

भट्टभास्कर-टीका

3अन्नस्यान्नस्येति ॥ पृथक् चतुर्दशान्नस्येति । ‘अनुदात्तं च’ इति द्वितीयस्यानुदात्तत्वम् ॥

मूलम् (संयुक्तम्)

औदु॑म्बरेण स्रु॒वेण॑ जुहो॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्गन्न॑मू॒र्जैवास्मा॒ ऊर्ज॒मन्न॒मव॑ रुन्द्धे॒

विश्वास-प्रस्तुतिः

औदु॑म्बरेण स्रु॒वेण॑ जुहोति ।
ऊर्ग्वा उ॑दु॒म्बर॒ , ऊर्गन्न॑म् ।
ऊ॒र्जैवास्मा॒ ऊर्ज॒मन्न॒मव॑ रुन्धे ।

मूलम्

औदु॑म्बरेण स्रु॒वेण॑ जुहोति ।
ऊर्ग्वा उ॑दु॒म्बर॒ , ऊर्गन्न॑म् ।
ऊ॒र्जैवास्मा॒ ऊर्ज॒मन्न॒मव॑ रुन्धे ।

भट्टभास्कर-टीका

4औदुम्बरेणेत्यादि ॥ गतम् ॥ +++( सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम् ।)+++

मूलम् (संयुक्तम्)

ऽग्निर्वै दे॒वाना॑म॒भिषि॑क्तोऽग्नि॒चिन्म॑नु॒ष्या॑णा॒न्तस्मा॑दग्नि॒चिद्वर्ष॑ति॒ न धा॑वे॒दव॑रुद्धँ॒ ह्य॑स्यान्न॒मन्न॑मिव॒ खलु॒ वै व॒र्षय्ँयद्धावे॑द॒न्नाद्या॑द्धावेदु॒पाव॑र्तेता॒न्नाद्य॑मे॒वाभि [44]
उ॒पाव॑र्तते॒ नक्तो॒षासेति॑ कृ॒ष्णायै॑ श्वे॒तव॑त्सायै॒ पय॑सा जुहो॒त्य्

विश्वास-प्रस्तुतिः

अ॒ग्निर्वै दे॒वाना॑म॒भिषि॑क्तोऽग्नि॒चिन्म॑नु॒ष्या॑णाम् ।
तस्मा॑दग्नि॒चिद्वर्ष॑ति॒ न धा॑वेत् ।
अव॑रुद्धँ॒ ह्य॑स्यान्न॑म् ।
अन्न॑मिव॒ खलु॒ वै व॒र्षम् ।
यद्धावे॑द॒न्नाद्या॑द्धावेत् ।
उ॒पाव॑र्तेत ।
अ॒न्नाद्य॑मे॒वाभ्यु॒पाव॑र्तते ।[44]
नक्तो॒षासेति॑ कृ॒ष्णायै॑ श्वे॒तव॑त्सायै॒ पय॑सा जुहोति ।

मूलम्

अ॒ग्निर्वै दे॒वाना॑म॒भिषि॑क्तोऽग्नि॒चिन्म॑नु॒ष्या॑णाम् ।
तस्मा॑दग्नि॒चिद्वर्ष॑ति॒ न धा॑वेत् ।
अव॑रुद्धँ॒ ह्य॑स्यान्न॑म् ।
अन्न॑मिव॒ खलु॒ वै व॒र्षम् ।
यद्धावे॑द॒न्नाद्या॑द्धावेत् ।
उ॒पाव॑र्तेत ।
अ॒न्नाद्य॑मे॒वाभ्यु॒पाव॑र्तते ।[44]
नक्तो॒षासेति॑ कृ॒ष्णायै॑ श्वे॒तव॑त्सायै॒ पय॑सा जुहोति ।

भट्टभास्कर-टीका

5अग्निर्वा इत्यादि ॥ गतम् । उक्तं हि ‘अथो अभिषेक एवास्य’ इति देवानामभिषिक्तः । तद्वदग्निचिन्मनुष्याणां मध्ये अभिषिक्तः । उक्तं च ‘तस्मान्नासीनं यजमानमग्निमन्वारब्धं संपातैरभिषिञ्चति’ इति । तस्मादित्यादि । वर्षति देवे अग्निचित् न धावेत् । परिगृह्य हेतुमाह - अस्य ह्यन्नमरुद्धं संपाताभिषेकेणैव लब्धत्वात् । तथाऽन्नं भवतु वर्षति मा यातव्यमित्यत आह - अन्नमिव खलु वै वर्षं अन्नकारणकारणत्वात् अन्नमेवेति भावः । तस्माद्यदि धावेत् अन्नादत एवोत्पत्तेः न वर्षाभिमुख्येन गच्छेत्, यथाऽभिमुखं वर्षमागच्छति ततो गच्छेत् । तथा कुर्वन्नन्नाद्यमेव आभिमुख्येनोपगच्छति ॥

मूलम् (संयुक्तम्)

अह्नै॒वास्मै॒ रात्रि॒म्प्र दा॑पयति॒ रात्रि॒याह॑रहोरा॒त्रे ए॒वास्मै॒ प्रत्ते॒ काम॑म॒न्नाद्य॑न्दुहाते

विश्वास-प्रस्तुतिः

अह्नै॒वास्मै॒ रात्रि॒म्प्र दा॑पयति॒ रात्रि॒याहः॑ ।
अ॒हो॒रा॒त्रे ए॒वास्मै॒ प्रत्ते॒ काम॑म॒न्नाद्य॑न् दुहाते ।

मूलम्

अह्नै॒वास्मै॒ रात्रि॒म्प्र दा॑पयति॒ रात्रि॒याहः॑ ।
अ॒हो॒रा॒त्रे ए॒वास्मै॒ प्रत्ते॒ काम॑म॒न्नाद्य॑न् दुहाते ।

भट्टभास्कर-टीका

6अह्नैवेति ॥ अह्ना वत्सस्थानीयेन रात्र्यात्मिकां गां प्रदापयति प्रस्नुतस्तनीं करोति । रात्र्या वत्सस्थानीयया अहरात्मिकां गां प्रदापयति । ततश्चाहोरात्रे प्रत्ते प्रस्नुतस्तने सर्वं काममन्नाद्यं दुहाते । ‘हेमन्तशिशिरावहोरात्रे च’ इति नपुंसकत्वम् । दातुमारब्धे प्रत्ते । आदिकर्मणि निष्ठा, ‘अच उपसर्गात्तः’ इति तादेशः ॥

मूलम् (संयुक्तम्)

राष्ट्र॒भृतो॑ जुहोति रा॒ष्ट्रमे॒वाव॑ रुन्द्धे ष॒ड्भिर्जु॑होति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति॒

विश्वास-प्रस्तुतिः

रा॒ष्ट॒भृतो॑ जुहोति ।
रा॒ष्ट्रमे॒वाव॑ रुन्धे ।
ष॒ड्भिर्जु॑होति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुष्वे॒व प्रति॑ तिष्ठति ।

मूलम्

रा॒ष्ट॒भृतो॑ जुहोति ।
रा॒ष्ट्रमे॒वाव॑ रुन्धे ।
ष॒ड्भिर्जु॑होति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुष्वे॒व प्रति॑ तिष्ठति ।

भट्टभास्कर-टीका

7राष्ट्रभृत इति ॥ ‘ऋताषाट्’ इत्याद्याः षड्भिःषड्भिः पर्यायैः द्वादश जुहोति ॥

मूलम् (संयुक्तम्)

भुव॑नस्य पत॒ इति॑ रथमु॒खे पञ्चाहु॑तीर्जुहोति॒ वज्रो॒ वै रथो॒ वज्रे॑णै॒व दिशः॑ [45]
अ॒भि ज॑यत्य्

विश्वास-प्रस्तुतिः

भुव॑नस्य पत॒ इति॑ रथमु॒खे पञ्चाहु॑तीर्जुहोति ।
वज्रो॒ वै रथः॑ ।
वज्रे॑णै॒व दिशो॒भि ज॑यति ।[45]

मूलम्

भुव॑नस्य पत॒ इति॑ रथमु॒खे पञ्चाहु॑तीर्जुहोति ।
वज्रो॒ वै रथः॑ ।
वज्रे॑णै॒व दिशो॒भि ज॑यति ।[45]

भट्टभास्कर-टीका

8पञ्चेति ॥ ‘भुवनस्य पते’ इति पञ्चभिःपञ्चभिः पर्यायैः ॥

मूलम् (संयुक्तम्)

अग्नि॒चितँ॑ ह॒ वा अ॒मुष्मिल्ँ॑ लो॒के वातो॒ऽभि प॑वते वातना॒मानि॑ जुहोत्य॒भ्ये॑वैन॑म॒मुष्मिल्ँ॑ लो॒के वातᳶ॑ पवते॒ त्रीणि॑ जुहोति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒व लो॒केभ्यो॒ वात॒मव॑ रुन्द्धे समु॒द्रो॑ऽसि॒ नभ॑स्वा॒नित्या॑है॒तद्वै वात॑स्य रू॒पँ रू॒पेणै॒व वात॒मव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

अ॒ग्नि॒चितँ॑ ह॒ वा अ॒मुष्मिल्ँ॑ लो॒के वातो॒ऽभि प॑वते ।
वा॒त॒ना॒मानि॑ जुहोति ।
अ॒भ्ये॑वैन॑म॒मुष्मिल्ँ॑ लो॒के वातᳶ॑ पवते ।
त्रीणि॑ जुहोति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒भ्य ए॒व लो॒केभ्यो॒ वात॒मव॑ रुन्धे ।
स॒मु॒द्रो॑ऽसि॒ नभ॑स्वा॒नित्या॑ह ।
ए॒तद्वै वात॑स्य रू॒पम् । रू॒पेणै॒व वात॒मव॑ रुन्धे ।

मूलम्

अ॒ग्नि॒चितँ॑ ह॒ वा अ॒मुष्मिल्ँ॑ लो॒के वातो॒ऽभि प॑वते ।
वा॒त॒ना॒मानि॑ जुहोति ।
अ॒भ्ये॑वैन॑म॒मुष्मिल्ँ॑ लो॒के वातᳶ॑ पवते ।
त्रीणि॑ जुहोति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒भ्य ए॒व लो॒केभ्यो॒ वात॒मव॑ रुन्धे ।
स॒मु॒द्रो॑ऽसि॒ नभ॑स्वा॒नित्या॑ह ।
ए॒तद्वै वात॑स्य रू॒पम् । रू॒पेणै॒व वात॒मव॑ रुन्धे ।

भट्टभास्कर-टीका

9अग्निचितं हेत्यादि ॥ आभिमुख्येन आगत्य सुखयति वातः । वातनामानीति । ‘समुद्रोसि नभस्वान्’ इत्यादीनि । गतमन्यत् ॥

मूलम् (संयुक्तम्)

ऽञ्ज॒लिना॑ जुहोति॒ न ह्ये॑तेषा॑म॒न्यथाहु॑तिरव॒कल्प॑ते ॥ [46]

विश्वास-प्रस्तुतिः

अ॒ञ्ज॒लिना॑ जुहोति ।
न ह्ये॑तेषा॑म॒न्यथाऽऽहु॑तिरव॒कल्प॑ते ॥ [46]

मूलम्

अ॒ञ्ज॒लिना॑ जुहोति ।
न ह्ये॑तेषा॑म॒न्यथाऽऽहु॑तिरव॒कल्प॑ते ॥ [46]

भट्टभास्कर-टीका

10अञ्जलिनेति ॥ विधिः । न ही ति । अञ्जलिव्यतिरेकेण एतेषामाहुतिर्न सम्भवति । मन्त्रभेदेनाहुतिभेदमाश्रित्य एतेषामिति बहुवचनम् ॥

इति पञ्चमे चतुर्थे नवमोनुवाकः ॥