०८

मूलम् (संयुक्तम्)

वसो॒र्धारा॑ञ्जुहोति॒ वसो॑र्मे॒ धारा॑स॒दिति॒ वा ए॒षा हू॑यते घृ॒तस्य॒ वा ए॑नमे॒षा धारा॒मुष्मिल्ँ॑ लो॒के पिन्व॑मा॒नोप॑ तिष्ठत॒

विश्वास-प्रस्तुतिः

वसो॒र्धारा॑ञ् जुहोति ।
वसो॑र्मे॒ धारा॑स॒दिति॒ वा ए॒षा हू॑यते ।
घृ॒तस्य॒ वा ए॑नमे॒षा धारा॒मुष्मिल्ँ॑ लो॒के पिन्व॑मा॒नोप॑ तिष्ठते ।

मूलम्

वसो॒र्धारा॑ञ् जुहोति ।
वसो॑र्मे॒ धारा॑स॒दिति॒ वा ए॒षा हू॑यते ।
घृ॒तस्य॒ वा ए॑नमे॒षा धारा॒मुष्मिल्ँ॑ लो॒के पिन्व॑मा॒नोप॑ तिष्ठते ।

भट्टभास्कर-टीका

1वसोर्धारां जुहोतीति ॥ संज्ञैषा अविच्छिन्नस्यान्त्याहुतिविशेषस्य । निर्वचनं च करोति - वसोः धनस्य धारा मे असत् अस्तु इति अनेन कामेन एषा हूयते । तस्मादन्नादिवरिष्ठधनधाराहेतुत्वाच्च वसोर्धारेत्युच्यते इति । अस्तेर्लेटि ‘लेटोडाटौ’ इत्यडागमः । घृतस्येत्यादि । गतम् । पिन्वमाना सिञ्चति । पिवि, सेचने । एनं यजमानमुपतिष्ठते ॥

मूलम् (संयुक्तम्)

आज्ये॑न जुहोति॒ तेजो॒ वा आज्य॒न्तेजो॒ वसो॒र्धारा॒ तेज॑सै॒वास्मै॒ तेजोऽव॑ रु॒न्द्धे

विश्वास-प्रस्तुतिः

आज्ये॑न जुहोति ।
तेजो॒ वा आज्य॒न् तेजो॒ वसो॒र्धारा॑ ।
तेज॑सै॒वास्मै॒ तेजोऽव॑ रुन्धे ।

मूलम्

आज्ये॑न जुहोति ।
तेजो॒ वा आज्य॒न् तेजो॒ वसो॒र्धारा॑ ।
तेज॑सै॒वास्मै॒ तेजोऽव॑ रुन्धे ।

भट्टभास्कर-टीका

2आज्येनेत्यादि ॥ तेजोहेतुत्वादाज्यवत् वसोर्धारायास्ताच्छब्द्यम् ॥

मूलम् (संयुक्तम्)

ऽथो॒ कामा॒ वै वसो॒र्धारा॒ कामा॑ने॒वाव॑ रुन्द्धे॒

विश्वास-प्रस्तुतिः

अथो॒ कामा॒ वै वसो॒र्धारा॑ ।
कामा॑ने॒वाव॑ रुन्धे ।

मूलम्

अथो॒ कामा॒ वै वसो॒र्धारा॑ ।
कामा॑ने॒वाव॑ रुन्धे ।

भट्टभास्कर-टीका

3कामा इति ॥ काम्यन्त इति कामाः विषयाः । तद्धेतुत्वात्ताच्छब्द्यम् ॥

मूलम् (संयुक्तम्)

यङ्का॒मये॑त प्रा॒णान॑स्या॒न्नाद्यव्ँ॒वि [37]
छि॒न्द्या॒मिति॑ वि॒ग्राह॒न्तस्य॑ जुहुयात्प्रा॒णाने॒वास्या॒न्नाद्यव्ँ॒विच्छि॑नत्ति॒ यङ्का॒मये॑त प्रा॒णान॑स्या॒न्नाद्यँ॒ सन्त॑नुया॒मिति॒ सन्त॑ता॒न्तस्य॑ जुहुयात्प्रा॒णाने॒वास्या॒न्नाद्यँ॒ सन्त॑नोति॒

विश्वास-प्रस्तुतिः

यङ्का॒मये॑त
“प्रा॒णान॑स्या॒न्नाद्यव्ँ॒ वि छि॑न्द्याम्” +इति॑ वि॒ग्राह॒न् तस्य॑ जुहुयात् । [37]
प्रा॒णाने॒वास्या॒न्नाद्यव्ँ॒ विच्छि॑नत्ति ।
यङ्का॒मये॑त
“प्रा॒णान॑स्या॒न्नाद्यँ॒ सन्त॑नुया॒म्” इति॒ सन्त॑ता॒न् तस्य॑ जुहुयात् ।
प्रा॒णाने॒वास्या॒न्नाद्यँ॒ सन्त॑नोति ।

मूलम्

यङ्का॒मये॑त
“प्रा॒णान॑स्या॒न्नाद्यव्ँ॒ वि छि॑न्द्याम्” +इति॑ वि॒ग्राह॒न् तस्य॑ जुहुयात् । [37]
प्रा॒णाने॒वास्या॒न्नाद्यव्ँ॒ विच्छि॑नत्ति ।
यङ्का॒मये॑त
“प्रा॒णान॑स्या॒न्नाद्यँ॒ सन्त॑नुया॒म्” इति॒ सन्त॑ता॒न् तस्य॑ जुहुयात् ।
प्रा॒णाने॒वास्या॒न्नाद्यँ॒ सन्त॑नोति ।

भट्टभास्कर-टीका

4यमित्यादि ॥ यं यजमानमध्वर्युः कामयेत प्राणांश्चान्नाद्यं च विच्छिन्द्यामिति तस्य विग्राहं विगृह्य विच्छिद्य जुहुयात् । आभीक्ष्ण्ये णमुल् । मन्त्रस्य धाराया विच्छेदं कुर्यात् । सन्ततिरविच्छेदः ॥

मूलम् (संयुक्तम्)

द्वाद॑श द्वाद॒शानि॑ जुहोति॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रु॒न्द्धेऽन्न॑ञ्च॒ मेऽक्षु॑च्च म॒ इत्या॑है॒तद्वै [38]
अन्न॑स्य रू॒पँ रू॒पेणै॒वान्न॒मव॑ रुन्द्धे॒ऽग्निश्च॑ म॒ आप॑श्च म॒ इत्या॑ह

विश्वास-प्रस्तुतिः

द्वाद॑श द्वाद॒शानि॑ जुहोति ।
द्वाद॑श॒ मासा॑स् सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रुन्धे ।
अन्न॑ञ् च॒ मेऽक्षु॑च् च म॒ इत्या॑ह ।
ए॒तद् वा अन्न॑स्य रू॒पम् ।[38]
रू॒पेणै॒वान्न॒मव॑ रुन्धे ।
अग्निश्च॑ म॒ आप॑श्च म॒ इत्या॑ह ।

मूलम्

द्वाद॑श द्वाद॒शानि॑ जुहोति ।
द्वाद॑श॒ मासा॑स् सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रुन्धे ।
अन्न॑ञ् च॒ मेऽक्षु॑च् च म॒ इत्या॑ह ।
ए॒तद् वा अन्न॑स्य रू॒पम् ।[38]
रू॒पेणै॒वान्न॒मव॑ रुन्धे ।
अग्निश्च॑ म॒ आप॑श्च म॒ इत्या॑ह ।

भट्टभास्कर-टीका

5द्वादशेति ॥ द्वादशप्रमाणानि सङ्घातरूपाणि द्वादशानि । छान्दसो यः । तेषां मध्ये वक्ष्यमाणानि द्वादशानीति । प्रशस्ततराणि दर्शयितुं तान्येकैकश उपादाय स्तौति - ‘अन्नं च मेऽक्षुच्च मे’ इत्यादिना ‘वाजश्च प्रसवश्च द्वादशं जुहोति’ इत्यन्तेन । न्यूनत्वेन आवृत्त्या पूरयितव्यानि, आधिक्ये समविभक्तानि । तत्र स्तुतिसमर्थानि विशिष्टानि अवयवपदान्युपादीयन्ते । यद्वा - आदौ चतुश्चत्वारिंशदधिकशतसङ्ख्यानां त्रयाणां च द्वादशानां मन्त्राणां स्तुतिः । ‘अन्नं च मे’ इत्यादिरवयवस्तुतिरिति ॥

मूलम् (संयुक्तम्)

ए॒षा वा अन्न॑स्य॒ योनि॒स्सयो॑न्ये॒वान्न॒मव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

ए॒षा वा अन्न॑स्य॒ योनिः॑ ।
सयो॑न्ये॒वान्न॒मव॑ रुन्धे ।

मूलम्

ए॒षा वा अन्न॑स्य॒ योनिः॑ ।
सयो॑न्ये॒वान्न॒मव॑ रुन्धे ।

भट्टभास्कर-टीका

6योनिः कारणम् ॥

मूलम् (संयुक्तम्)

ऽर्धे॒न्द्राणि॑ जुहोति दे॒वता॑ ए॒वाव॑ रुन्द्धे॒ यत्सर्वे॑षाम॒र्धमिन्द्र॒ᳶ प्रति॒ तस्मा॒दिन्द्रो॑ दे॒वता॑नाम्भूयिष्ठ॒भाक्त॑म॒ इन्द्र॒मुत्त॑रमाहेन्द्रि॒यमे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति

विश्वास-प्रस्तुतिः

अ॒र्धे॒न्द्राणि॑ जुहोति ।
दे॒वता॑ ए॒वाव॑ रुन्धे ।
यत्सर्वे॑षाम॒र्धमिन्द्र॒ᳶ प्रति॒ तस्मा॒दिन्द्रो॑ दे॒वता॑नाम् भूयिष्ठ॒भाक्त॑मः ।
इन्द्र॒मुत्त॑रमाह ।
इ॒न्द्रि॒यमे॒वास्मि॑न्न् उ॒परि॑ष्टाद् दधाति ।

मूलम्

अ॒र्धे॒न्द्राणि॑ जुहोति ।
दे॒वता॑ ए॒वाव॑ रुन्धे ।
यत्सर्वे॑षाम॒र्धमिन्द्र॒ᳶ प्रति॒ तस्मा॒दिन्द्रो॑ दे॒वता॑नाम् भूयिष्ठ॒भाक्त॑मः ।
इन्द्र॒मुत्त॑रमाह ।
इ॒न्द्रि॒यमे॒वास्मि॑न्न् उ॒परि॑ष्टाद् दधाति ।

भट्टभास्कर-टीका

7अर्धेन्द्राणि अर्धमिन्द्रो येषां तानि ‘अग्निश्च म इन्द्रश्च मे’ इत्यादीनि । यत्सर्वेषां देवानां अग्न्यादीनां तत्प्रति इन्द्रो वर्तते प्रतिनिधिर्भवति । यद्वा - सर्वत्र सर्वेषामर्धं इन्द्रोऽर्हति, अर्धं सर्वे देवाः, सर्वेषां हविषामर्धं प्रति स्वामित्वेन इन्द्रो वर्तत इति । तस्मादत्र इन्द्रो देवानामर्धेन भूयिष्ठं भागं भजते । इन्द्रमुत्तरमिति । उद्गततरं अन्त्यम् ॥

मूलम् (संयुक्तम्)

यज्ञायु॒धानि॑ जुहोति य॒ज्ञः [39]
वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒वाव॑ रु॒न्द्धेऽथो॑ ए॒तद्वै य॒ज्ञस्य॑ रू॒पँ रू॒पेणै॒व य॒ज्ञमव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

य॒ज्ञा॒यु॒धानि॑ जुहोति ।
य॒ज्ञो वै य॑ज्ञायु॒धानि॑ । [39]
य॒ज्ञमे॒वाव॑ रुन्धे ।
अथो॑ ए॒तद् वै य॒ज्ञस्य॑ रू॒पम् ।
रू॒पेणै॒व य॒ज्ञमव॑ रुन्धे ।
“अ॒व॒भृ॒थश्च॑ मे स्वगाका॒रश्च॑ म॒” इत्या॑ह ।

मूलम्

य॒ज्ञा॒यु॒धानि॑ जुहोति ।
य॒ज्ञो वै य॑ज्ञायु॒धानि॑ । [39]
य॒ज्ञमे॒वाव॑ रुन्धे ।
अथो॑ ए॒तद् वै य॒ज्ञस्य॑ रू॒पम् ।
रू॒पेणै॒व य॒ज्ञमव॑ रुन्धे ।
“अ॒व॒भृ॒थश्च॑ मे स्वगाका॒रश्च॑ म॒” इत्या॑ह ।

भट्टभास्कर-टीका

8यज्ञायुधानीत्यादि ॥ ‘इध्मश्च मे’ इत्यादीनि ॥ +++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम् । ‘इध्मश्च मे’ इत्यादिमन्त्रः ४काण्डे ७प्रपाठके ८अनुवाके )+++

मूलम् (संयुक्तम्)

ऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ म॒ इत्या॑ह स्व॒गाकृ॑त्या अ॒ग्निश्च॑ मे घ॒र्मश्च॑ म॒ इत्या॑ह

विश्वास-प्रस्तुतिः

“अ॒व॒भृ॒थश्च॑ मे स्वगाका॒रश्च॑ म॒” इत्या॑ह ।
स्व॒गाकृ॑त्यै ।
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ म॒ इत्या॑ह ।

मूलम्

“अ॒व॒भृ॒थश्च॑ मे स्वगाका॒रश्च॑ म॒” इत्या॑ह ।
स्व॒गाकृ॑त्यै ।
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ म॒ इत्या॑ह ।

भट्टभास्कर-टीका

9स्वगाकृत्या इति ॥ यथास्वमात्मीयभागप्रतिलम्भनाय । छान्दसो डाचः ‘ऊर्यादिच्वि’ इति गतित्वात् ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

ए॒तद्वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पँ रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्द्ध॒ ऋक्च॑ मे॒ साम॑ च म॒ इत्या॑ह [40]
ए॒तद्वै छन्द॑साँ रू॒पँ रू॒पेणै॒व छन्दाँ॒स्यव॑ रुन्द्धे॒ गर्भा॑श्च मे व॒त्साश्च॑ म॒ इत्या॑है॒तद्वै प॑शू॒नाँ रू॒पँ रू॒पेणै॒व प॒शूनव॑ रुन्द्धे॒

विश्वास-प्रस्तुतिः

ए॒तद् वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पम् ।
रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे ।
“ऋक् च॑ मे॒ साम॑ च म॒” इत्या॑ह [40]
ए॒तद् वै छन्द॑साँ रू॒पम् ।
रू॒पेणै॒व छन्दाँ॒स्यव॑ रुन्धे ।
“गर्भा॑श्च मे व॒त्साश्च॑ म॒” इत्या॑ह ।
ए॒तद् वै प॑शू॒नाँ रू॒पम् ।
रू॒पेणै॒व प॒शूनव॑ रुन्धे ।

मूलम्

ए॒तद् वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पम् ।
रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे ।
“ऋक् च॑ मे॒ साम॑ च म॒” इत्या॑ह [40]
ए॒तद् वै छन्द॑साँ रू॒पम् ।
रू॒पेणै॒व छन्दाँ॒स्यव॑ रुन्धे ।
“गर्भा॑श्च मे व॒त्साश्च॑ म॒” इत्या॑ह ।
ए॒तद् वै प॑शू॒नाँ रू॒पम् ।
रू॒पेणै॒व प॒शूनव॑ रुन्धे ।

भट्टभास्कर-टीका

10ब्रह्मवर्चसस्येति ॥ अग्न्यादीनां तत्साधनत्वात् ॥ +++(सम्पादकटिप्पनी- विस्तृतं व्याख्यानमन्यत्र मृग्यम् ।)+++

मूलम् (संयुक्तम्)

कल्पा॑ञ्जुहो॒त्यकॢ॑प्तस्य॒ कॢप्त्यै॑

विश्वास-प्रस्तुतिः

कल्पा॑ञ् जुहोति ।
अकॢ॑प्तस्य॒ कॢप्त्यै॑ ।

मूलम्

कल्पा॑ञ् जुहोति ।
अकॢ॑प्तस्य॒ कॢप्त्यै॑ ।

भट्टभास्कर-टीका

11कल्पानिति ॥ ‘आयुर्यज्ञेन कल्पतां’ इत्यादिद्वादश । अकॢप्तस्य असम्पन्नस्य सम्पत्त्यै भवति ॥

मूलम् (संयुक्तम्)

युग्मदयु॒जे जु॑होति मिथुन॒त्वायो॑त्त॒राव॑ती भवतो॒ऽभिक्रा॑न्त्या॒ एका॑ च मे ति॒स्रश्च॑ म॒ इत्या॑ह देवछन्द॒सव्ँवा एका॑ च ति॒स्रश्च॑ [41]
म॒नु॒ष्य॒छ॒न्द॒सञ्चत॑स्रश्चा॒ष्टौ च॑ देवछन्द॒सञ्चै॒व म॑नुष्यछन्द॒सञ्चाव॑ रुन्द्ध॒

विश्वास-प्रस्तुतिः

यु॒ग्म॒द॒यु॒जे जु॑होति ।
मि॒थु॒न॒त्वाय॑ । उ॒त्त॒राव॑ती भवतः । अ॒भिक्रा॑न्त्यै ।
“एका॑ च मे ति॒स्रश्च॑ म॒” इत्या॑ह ।
दे॒व॒छ॒न्द॒सव्ँ वा एका॑ च ति॒स्रश्च॑ । [41]
म॒नु॒ष्य॒छ॒न्द॒सञ् चत॑स्रश्चा॒ष्टौ च॑ । दे॒व॒छ॒न्द॒सञ् चै॒व म॑नुष्यछन्द॒सञ् चाव॑ रुन्धे ।

मूलम्

यु॒ग्म॒द॒यु॒जे जु॑होति ।
मि॒थु॒न॒त्वाय॑ । उ॒त्त॒राव॑ती भवतः । अ॒भिक्रा॑न्त्यै ।
“एका॑ च मे ति॒स्रश्च॑ म॒” इत्या॑ह ।
दे॒व॒छ॒न्द॒सव्ँ वा एका॑ च ति॒स्रश्च॑ । [41]
म॒नु॒ष्य॒छ॒न्द॒सञ् चत॑स्रश्चा॒ष्टौ च॑ । दे॒व॒छ॒न्द॒सञ् चै॒व म॑नुष्यछन्द॒सञ् चाव॑ रुन्धे ।

भट्टभास्कर-टीका

12युग्मदयुजे ॥ योगो युक् सदृशसंख्यान्वयारब्धत्वं तद्वती द्विचतुरादि । तद्रहिता अयुक् एकादि । युग्मच्च अयुक्चेति ‘द्वन्द्वाच्चुदषहान्तात्’ इति व्यत्ययेन इतरेतरयोगेऽपि अच् समासान्तः । मिथुनत्वायेति विधाद्वयलाभेन । उत्तरावती इति । उत्तरोत्तरसंख्यावत्यौ युग्मदयुजे भवतः ‘एका च मे तित्रश्च मे’ इति । उत्तरा ‘चतस्रश्च मे अष्टौ च मे’ इति चतुरुत्तरा, यस्मा एवं तस्मादभिक्रान्त्यै भवतो युग्मदयुजे । अभिक्रमणं उपरिगमनं स्वर्गप्राप्तिः, शत्रूणामाक्रमणं वा । केचिदाहूः - उत्तरावत्त्वं विधीयत इत्युत्तरसंख्यासहिताभ्यां कर्तव्य इति । यथा ‘एका च मे तिस्रश्च मे स्वाहा चतस्रश्च मेऽष्टौ च मे स्वाहा’ इति । देवछन्दसमिति देवानां प्रीतिहेतुः ‘एका च मे तिस्रश्च मे’ इत्येतावत्युत्तरा अयुक्सङ्ख्या, चतस्रश्च अष्टौ चेत्येवं चतुरुत्तरा युक्संख्या मनुष्याणां प्रीतिहेतुरिति । ‘अनसन्तान्न पुंसकाच्छन्दसि’ इति अच् समासान्तः ॥

मूलम् (संयुक्तम्)

आ त्रय॑स्त्रिँशतो जुहोति॒ त्रय॑स्त्रिँश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रुन्द्ध॒ आष्टाच॑त्वारिँशतो जुहोत्य॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती॒ जाग॑ताᳶ प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे॒ वाज॑श्च प्रस॒वश्चेति॑

विश्वास-प्रस्तुतिः

आ त्रय॑स्त्रिँशतो जुहोति ।
त्रय॑स्त्रिँश॒द्वै दे॒वताः॑ ।
दे॒वता॑ ए॒वाव॑ रुन्धे ।
आऽष्टाच॑त्वारिँशतो जुहोति ।
अ॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती ।
जाग॑ताᳶ प॒शवः॑ ।
जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे ।
वाज॑श्च प्रस॒वश्चेति॑ ।

मूलम्

आ त्रय॑स्त्रिँशतो जुहोति ।
त्रय॑स्त्रिँश॒द्वै दे॒वताः॑ ।
दे॒वता॑ ए॒वाव॑ रुन्धे ।
आऽष्टाच॑त्वारिँशतो जुहोति ।
अ॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती ।
जाग॑ताᳶ प॒शवः॑ ।
जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे ।
वाज॑श्च प्रस॒वश्चेति॑ ।

भट्टभास्कर-टीका

13आ त्रयस्त्रिंशत इत्यादि ॥ गतम् ॥ +++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम् ।)+++

मूलम् (संयुक्तम्)

द्वाद॒शञ्जु॑होति॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठति ॥ [42]

विश्वास-प्रस्तुतिः

द्वा॒द॒शञ्जु॑होति ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒र ए॒व प्रति॑ तिष्ठति ॥ [42]

मूलम्

द्वा॒द॒शञ्जु॑होति ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒र ए॒व प्रति॑ तिष्ठति ॥ [42]

भट्टभास्कर-टीका

14द्वादशं इति ॥ द्वादशकमित्येके । द्वादशप्रमाणं सङ्घातमित्येके ॥

इति पञ्चमे चतुर्थे अष्टमोनुवाकः ॥