०७

मूलम् (संयुक्तम्)

प्राची॒मनु॑ प्र॒दिश॒म्प्रेहि॑ वि॒द्वानित्या॑ह देवलो॒कमे॒वैतयो॒पाव॑र्तते॒ क्रम॑ध्वम॒ग्निना॒ नाक॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्क्र॑मते पृथि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मारु॑ह॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्त्स॒मारो॑हति॒ सुव॒र्यन्तो॒ नापे॑क्षन्त॒ इत्या॑ह सुव॒र्गमे॒वैतया॑ लो॒कमे॒त्यग्ने॒ प्रेहि॑ [30]
प्र॒थ॒मो दे॑वय॒तामित्या॑हो॒भये॑ष्वे॒वैतया॑ देवमनु॒ष्येषु॒ चक्षु॑र्दधाति

विश्वास-प्रस्तुतिः

“प्राची॒मनु॑ प्र॒दिश॒म् प्रेहि॑ वि॒द्वान्” इत्य् आ॑ह
दे॒व॒लो॒कम् ए॒वैतयो॒पाव॑र्तते

मूलम्

प्राची॒मनु॑ प्र॒दिश॒म् प्रेहि॑ वि॒द्वान् इत्या॑ह ।
दे॒व॒लो॒कम् ए॒वैतयो॒पाव॑र्तते ।

भट्टभास्कर-टीका

1प्राचीमित्यादि ॥ अग्निना सह चित्यधिश्रयणमन्त्रा एते - ‘प्राचीमनु प्रदिशं’ इत्याद्याः पञ्च । देवलोकमिति । देवलोकस्थानीयं आहवनीयं ‘सु आहवनीय’ इत्येतया प्रथमया ऋचाउपावर्तते उपसंप्राप्तुं क्रमते ।

सायण-टीका

तत्र प्रथममन्त्रस्य तात्पर्यं दर्शयति —
“प्राचीमनु प्रादिशं प्रेहि विद्वानित्याह देवलोकमेवैतयोपावर्तते” (सं. का. ५ प्र. ४ अ. ७) इति।
देवलोकमेवोद्धिश्यानयर्चा प्रवृत्तो भवति।

विश्वास-प्रस्तुतिः

क्रम॑ध्वम् अ॒ग्निना॒ नाक॒म् इत्या॑ह ।
इ॒मान् ए॒वैतया॑ लो॒कान् क्र॑मते

मूलम्

क्रम॑ध्वम॒ग्निना॒ नाक॒म् इत्या॑ह ।
इ॒मान् ए॒वैतया॑ लो॒कान् क्र॑मते ।

भट्टभास्कर-टीका

द्वितीयया लोकान् क्रमते उपगच्छति । वृत्तावात्मनेपदम् ।

सायण-टीका

द्वितीयमन्त्रस्य तात्पर्यं दर्शयति —
“क्रमध्वमग्निना नाकमित्याहेमानेवैतया लोकान्क्रमते” (सं. का. ५ प्र. ४ अ. ७) इति।
इमानेव लोकानुद्दिश्यानयर्चा पादविन्यासं करोति

विश्वास-प्रस्तुतिः

पृथि॒व्या अ॒हम् उद् अ॒न्तरि॑क्ष॒म् आरु॑ह॒म् इत्या॑ह ।
इ॒माने॒वैतया॑ लो॒कान्त् स॒मारो॑हति

मूलम्

पृथि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मारु॑ह॒मित्या॑ह ।
इ॒माने॒वैतया॑ लो॒कान्त् स॒मारो॑हति ।

भट्टभास्कर-टीका

तृतीयया लोकान् समारोहति - स्वर्गं प्राप्नोति स्वर्गस्थानीयं वा अग्निमधिरोहति ।

सायण-टीका

तृतीयमन्त्रस्य तात्पर्यं दर्शयति —
“पृथिव्या अहमुदन्तरिक्षमाऽरुहमित्याहेमानेवैतया लोकान्समारोहति” (सं. का. ५ प्र. ४ अ. ७) इति।
इमानेव लोकानुद्दिश्यानयर्चा सम्यगारोहति।

विश्वास-प्रस्तुतिः

सुव॒र्यन्तो॒ नापे॑क्षन्त॒ इत्या॑ह ।
सु॒व॒र्गम् ए॒वैतया॑ लो॒कम् ए॑ति

मूलम्

सुव॒र्यन्तो॒ नापे॑क्षन्त॒ इत्या॑ह ।
सु॒व॒र्गमे॒वैतया॑ लो॒कमे॑ति ।

सायण-टीका

चतुर्थमन्त्रस्य तात्पर्यं दर्शयति —
“सुवर्यन्तो नापेक्षन्त इत्याह सुवर्गमेवतैया लोकमेति” (सं. का. ५ प्र. ४ अ. ७) इति।
स्वर्गप्राप्तिप्रतिपादकशब्दस्यात्र सद्भावात्तदृचा स्वर्ग’ प्राप्तिः।

विश्वास-प्रस्तुतिः

अग्ने॒ प्रेहि॑ प्र॒थ॒मो दे॑वय॒ताम् इत्या॑ह ।[30]
उ॒भये॑ष्वे॒वैतया॑ देवमनु॒ष्येषु॒ चक्षु॑र् दधाति ।

मूलम्

अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒ताम् इत्या॑ह ।[30]
उ॒भये॑ष्वे॒वैतया॑ देवमनु॒ष्येषु॒ चक्षु॑र् दधाति

भट्टभास्कर-टीका

पञ्चम्या मनुष्यान्देवांश्च चक्षुष्मतः करोति ॥

सायण-टीका

पञ्चममन्त्रस्य तात्पर्यं दर्शयति —
अग्ने प्रेहि प्रथमो देवयतामित्याहोभयेष्वेवतया देवमनुष्येषु चक्षुर्दधाति’ (सं. का. ५ प्र. ४ अ. ७) इति।

उभयचक्षुःप्रतिपादस्य शब्दस्यात्र सद्भावादेतयर्चोभयत्र चक्षुःस्थापनम्।

मूलम् (संयुक्तम्)

प॒ञ्चभि॒रधि॑ क्रामति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तेन॑ स॒ह सु॑व॒र्गल्ँ लो॒कमे॑ति॒

विश्वास-प्रस्तुतिः

प॒ञ्चभि॒र् अधि॑ क्रामति
पाङ्क्तो॑ य॒ज्ञः ।
यावा॑न् ए॒व य॒ज्ञस् ,
तेन॑ स॒ह सु॑व॒र्गल्ँ लो॒कमे॑ति ।

मूलम्

प॒ञ्चभि॒रधि॑ क्रामति ।
पाङ्क्तो॑ य॒ज्ञः ।
यावा॑ने॒व य॒ज्ञस् , तेन॑ स॒ह सु॑व॒र्गल्ँ लो॒कमे॑ति ।

भट्टभास्कर-टीका

2पञ्चभिरिति ॥ पुच्छादारभ्याधिरोहति । पाङ्क्त इति । धानादिपञ्चकसाध्यत्वात् पङ्क्तिप्रभवत्वाद्वा । पङ्क्तिशब्दादुत्सादित्वादञ् । पञ्चत्वान्वयात् पाङ्क्तेन यज्ञेन सह स्वर्गस्थानीयं चित्याग्निं प्राप्नोति । यद्वा - यजनीयोग्निः यज्ञः । तेन सर्वेण सह चितिमारोहति ॥

सायण-टीका

मन्त्रान्विनियुङ्क्ते —

मूलम् (संयुक्तम्)

नक्तो॒षासेति॑ पुरोनुवा॒क्या॑मन्वा॑ह॒ प्रत्त्या॒

विश्वास-प्रस्तुतिः

नक्तो॒षासेति॑ पुरोनुवा॒क्या॑म् अन्वा॑ह ।
प्रत्त्यै॑ ।

मूलम्

नक्तो॒षासेति॑ पुरोनुवा॒क्या॑म् अन्वा॑ह ।
प्रत्त्यै॑ ।

भट्टभास्कर-टीका

3पुरोनुवाक्यामिति ॥ दध्नः पूर्णामौदुम्बरीं स्वयमातृण्णायां जुहोति । तत्र ‘नक्तोषासा’ इति पुरोनुवाक्यामन्वाह । प्रत्यै इति । द्यावापृथिव्योः प्रस्नवनार्थं प्रदानारम्भः [प्रतिः । तस्यै] प्रत्यै । यथा वत्सला गौः वत्सदर्शनेन ऊधःपूरणात्प्रस्नुतस्तनी भवति यथोक्तम् - ‘प्रत्ता वै गौर्दुहे’ । एवमग्नेर्दर्शनात् द्यावापृथिव्यौ प्रत्ते क्रियेते अनया पुरोनुवाक्ययेति भावः । ददातेः प्रपूर्वात् ‘अच उपसर्गात्तः’ इति तादेशः । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥

सायण-टीका

तत्र प्रथममन्त्रं विनियुङ्क्ते —
“नक्तोषासेति पुरोनुवाक्यामन्वाह प्रत्त्यै” (सं. का. ५ प्र. ४ अ. ७) इति।
पुरोभवाः ( बा ) प्रदानमन्त्राः।
पू (न्त्रात्पू ) र्वमनुक्रमेणोच्यत इति पुरोनुवाक्या प्रत्त्या उत्तरेण मन्त्रेण हविष्प्रदानायाऽऽदौ तान्ब्रू [ तां ब्रू ] यात् पुरोनुवाक्या, मनूच्य याज्यया जुहोतीत्यन्यत्राऽऽम्नातत्वात्।

मूलम् (संयुक्तम्)

अग्ने॑ सहस्रा॒क्षेत्या॑ह साह॒स्रᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्यै॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहेत्या॒हान्नव्ँ॒ वै वाजोऽन्न॑मे॒वाव॑ [31]
रु॒न्द्धे॒

विश्वास-प्रस्तुतिः

अग्ने॑ सहस्रा॒क्ष + इत्या॑ह ।
सा॒ह॒स्रᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।

मूलम्

अग्ने॑ सहस्रा॒क्ष + इत्या॑ह ।
सा॒ह॒स्रᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।

भट्टभास्कर-टीका

4अथ अग्ने सहस्राक्षेति तत्रैव याज्या ॥ साहस्र इति । सहस्रपरिमाणः सहस्रप्राप्तिहेतुर्वा । प्रजानां पाता अग्निः प्रजापतिः । तस्मात्सहस्रान्वयादियं याज्या तादृशस्याग्नेः प्राप्त्यै भवति । ‘शतमानविंशतिक’ इत्यण् ॥

सायण-टीका

द्वितीयमन्त्रस्य वैराजरूपप्रापकत्वं दर्शयति —
“अग्ने सहस्राक्षेत्याह साहस्त्रः प्रजापतिः प्रजापतेराप्त्यै” (सं. का. ५ प्र. ४ अ. ७) इति।
सहस्रसंख्याकचक्षुरादिसंबन्धो विश्वरूपधरस्य विराण्मूर्तेः संभवति नान्यस्यअतोऽयं मन्त्रः प्रजापतिप्राप्तये भवति।

विश्वास-प्रस्तुतिः

तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑ + इत्या॑ह ।
अन्नव्ँ॒ वै वाजः॑ ।
अन्न॑मे॒वाव॑ रुन्धे ।[31]

मूलम्

तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑ + इत्या॑ह ।
अन्नव्ँ॒ वै वाजः॑ ।
अन्न॑म् ए॒वाव॑ रुन्धे ।[31]

सायण-टीका

अस्य मन्त्रस्य चतुर्थपादे बाजशब्दस्य तात्पर्यं दर्शयति —
“तस्मै ते विधेम वाजाय स्वाहेत्याहान्नं वै वाजोऽन्नमेवाव रुन्धे” (सं. का. ५ प्र. ४ अ. ७) इति।

मूलम् (संयुक्तम्)

द॒ध्नᳶ पू॒र्णामौदु॑म्बरीँ स्वयमातृ॒ण्णाया॑ञ्जुहो॒त्यूर्ग्वै दध्यूर्गु॑दु॒म्बरो॒ऽसौ स्व॑यमातृ॒ण्णाऽमुष्या॑मे॒वोर्ज॑न्दधाति॒ तस्मा॑द॒मुतो॒ऽर्वाची॒मूर्ज॒मुप॑ जीवामस्

विश्वास-प्रस्तुतिः

द॒ध्नᳶ पू॒र्णामौदु॑म्बरीँ स्वयमातृ॒ण्णाया॑ञ् जुहोति ।
ऊर्ग् वै दधि॑ ।
ऊर्ग् उ॑दु॒म्बरः॑ ।
अ॒सौ +++(स्वर्गः)+++ स्व॑यम् आतृ॒ण्णा ।
अ॒मुष्या॑म् ए॒वोर्ज॑न् दधाति ।
तस्मा॑द् अ॒मुतो॒ ऽर्वाची॒म् ऊर्ज॒म् +++(वृष्टि-रूपम्)+++ उप॑ जीवामः ।

मूलम्

द॒ध्नᳶ पू॒र्णामौदु॑म्बरीँ स्वयमातृ॒ण्णाया॑ञ् जुहोति ।
ऊर्ग्वै दधि॑ ।
ऊर्गु॑दु॒म्बरः॑ ।
अ॒सौ स्व॑यमातृ॒ण्णा ।
अ॒मुष्या॑म् ए॒वोर्ज॑न् दधाति ।
तस्मा॑द् अ॒मुतो॒ ऽर्वाची॒म् ऊर्ज॒मुप॑ जीवामः ।

भट्टभास्कर-टीका

5दध्न इति ॥ ‘पूरणगुण’ इति समासप्रतिषेधात् पूरणार्थैर्योगे षष्ठी ज्ञापिता । औदुम्बरीस्थं दध्यभेदेनोच्यते । ऊर्क् रसः असौ द्यौः । अमुत इति । अमुतो द्युलोकाद् अर्वाचीम् अधः पतन्तीं वृष्टिम् उपाश्रित्य जीवामः ॥

सायण-टीका

एतन्मन्त्रसाध्यं होमं विधत्ते–
“दघ्नः पूर्णामौदुम्बरीँ स्वयमातृण्णायां जुहोत्यूर्ग्वै दध्यूर्गुदुम्बरोऽसौ स्वयमातृण्णाऽमुष्यामेवोर्जं दधाति तस्मादमुतोऽर्वाचीमूर्जमुप जीवामः” (सं. का. ५ प्र. ४ अ. ७) इति।२१९१
जुहूसदृशी काचित्स्रुगौदुम्बरी।
दध्य्-उदुम्बरयोर् अन्न-रूपत्वात्
स्वयमातृण्णायाश् च स्वर्गरूपत्वात्
तस्यां तद्धोमेन स्वर्ग एवान्न स्थापयति।
यस्मात्स्वर्ग ऊर्गवस्थिता तस्मादमुतो द्युलोकादर्वाचीं वृष्टिरूपेणाधः पतन्तीमूर्जमन्नं वयमुपजीवामः।

मूलम् (संयुक्तम्)

ति॒सृभि॑स्सादयति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तम्प्र॑ति॒ष्ठाङ्ग॑मयति॒ प्रेद्धो॑ अग्ने दीदिहि पु॒रो न॒ इत्य्

विश्वास-प्रस्तुतिः

ति॒सृभि॑स् सादयति
त्रि॒वृद् वा अ॒ग्निः ।
यावा॑न् ए॒वाग्निस्
तम् प्र॑ति॒ष्ठाङ् ग॑मयति

मूलम्

ति॒सृभि॑स् सादयति ।
त्रि॒वृद् वा अ॒ग्निः ।
यावा॑न् ए॒वाग्निस् तम् प्र॑ति॒ष्ठाङ् ग॑मयति ।

भट्टभास्कर-टीका

6तिसृभिरित्यादि ॥ ‘सुपर्णोसि’ इत्यादिभिः तिसृभिस्स्वयमातृण्णामध्यस्थमग्निं प्रतिष्ठापयति । त्रिवृदित्यादि । गतम् ॥

सायण-टीका

एतान्मन्त्रान्विनियुङ्क्ते —
“तिसृभिः सादयति त्रिवृद्वा अग्निर्यावानेवाग्निस्तं प्रतिष्ठां गमयति” [सं. का. ५ प्र. ४ अ. ७] इति।

मूलम् (संयुक्तम्)

औदुम्ब॑री॒मा द॑धात्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म [32]
वै दे॒वा असु॑राणाँ शतत॒र्हाँस्तृँ॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीय्ँयज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अछ॑म्बट्कारव्ँ वि॒धेम॑ ते पर॒मे जन्म॑न्नग्न॒ इति॒ वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्द्धे॒ ताँ स॑वि॒तुर्वरे॑ण्यस्य चि॒त्रामिति॑ शमी॒मयीँ॒ शान्त्या॑ अ॒ग्निर्वा॑ ह॒ वा अ॑ग्नि॒चित॑न्दु॒हे॑ऽग्नि॒चिद्वा॒ग्निन्दु॑हे॒ ताम् [33]
स॒वि॒तुर्वरे॑ण्यस्य चि॒त्रामित्या॑ह

विश्वास-प्रस्तुतिः

प्रेद्धो॑ अग्ने दीदिहि पु॒रो न॒ इत्य् औदुम्ब॑री॒म् अा द॑धाति ।
ए॒षा वै सू॒र्मी+++(=ज्वलन्ती लोहमयी स्थूणा)+++ कर्ण॑कावती+++(=छिद्रवती)+++ ।
ए॒तया॑ ह स्म॒ वै दे॒वा असु॑राणाँ शतत॒र्हाँस् तृँ॑हन्ति ।[32]
यद् ए॒तया॑ स॒मिध॑म् आ॒दधा॑ति॒ ,
वज्र॑म् ए॒वैतच् छ॑त॒घ्नीय्ँ यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति।
स्तृत्यै॑ । अछ॑म्बट्कारम् ।

मूलम्

प्रेद्धो॑ अग्ने दीदिहि पु॒रो न॒ इति॑ ।
औदुम्ब॑री॒मा द॑धाति ।
ए॒षा वै सू॒र्मी कर्ण॑कावती ।
ए॒तया॑ ह स्म॒ वै दे॒वा असु॑राणाँ शतत॒र्हाँस्तृँ॑हन्ति ।[32]

यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ , वज्र॑म् ए॒वैतच् छ॑त॒घ्नीय्ँ यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति । स्तृत्यै॑ ।
अछ॑म्बट्कारम् ।

भट्टभास्कर-टीका

7औदुम्बरीमिति ॥ तस्मिन्नग्नौ अन्नमुदुम्बरीं समिधमादधाति ।
एषा वा इत्यादि । उपमानपदमिदं यादृशमग्निचिल्लभते ।
यद्वा - अग्निचित् अग्निं दुग्धे अग्निसकाशात्सर्वाण्यभिमतानि लभते ।

सायण-टीका

तमेतं मन्त्रं विनियुङ्क्ते —
ज्वलन्ती लोहमयी स्थूणा सूर्मी।
सा च कर्णकावती छिद्रवत्य् अन्तर् अपि ज्वलन्तीत्यर्थः।
तत्समानेयमृक्।
एकेनैव प्रहारेण शत-संख्याकान् मारयन्तः शूराः
शततर्हा असुराणां मध्ये
तादृशान् एतयर्चा देवा हिंसन्ति।
अनया समिदाधाने शतघ्वीम् एताम् ऋचं वज्रं कृत्वा वैरिणं प्रहरति।
अछम्बट्कारं स्वस्याविनाशो यथा भवति तथेत्यर्थः।

विश्वास-प्रस्तुतिः

वि॒धेम॑ ते पर॒मे जन्म॑न्न् अग्न॒ इति॒ वैक॑ङ्कती॒म् आ द॑धाति
भा ए॒वाव॑ रुन्धे

मूलम्

वि॒धेम॑ ते पर॒मे जन्म॑न्नग्न॒ इति॒ वैक॑ङ्कती॒मा द॑धाति ।
भा ए॒वाव॑ रुन्धे ।

सायण-टीका

एतं मन्त्रं विनियुङ्क्ते —
“विधेम ते परमे जन्मन्नग्न इति वैकङ्कतीमा दधाति भा एवाव रुन्धे” (सं. का. ५ प्र. ४ अ. ७) इति।
अग्नेर्भासो विकङ्कते प्रविष्टत्वात्तदीयसमिधा भाः प्राप्यते।

विश्वास-प्रस्तुतिः

“ताँ स॑वि॒तुर् वरे॑ण्यस्य चि॒त्राम्” इति॑ शमी॒मयीँ॒ शान्त्यै॑ ।
अ॒ग्निर् वा॑ ह॒ वा अ॑ग्नि॒चित॑न् दु॒हे॑,
ऽग्नि॒चिद् वा॒ऽग्निन् दु॑हे ।
“ताँ स॒वि॒तुर् वरे॑ण्यस्य चि॒त्राम्” इत्या॑ह ।[33]
ए॒ष वा अ॒ग्नेर् दोहः॑ ।

तम् अ॑स्य॒ कण्व॑ ए॒व श्रा॑य॒सो॑+++(=श्रयस्-पुत्रः)+++ ऽवेत् ।
तेन॑ ह स्मैनँ॒ स दु॑हे ।

यद् ए॒तया॑ स॒मिध॑म् आ॒दधा॑त्य्,
अग्नि॒चिद् ए॒व तद् अ॒ग्निन् दु॑हे

मूलम्

ताँ स॑वि॒तुर् वरे॑ण्यस्य चि॒त्रामिति॑ शमी॒मयीँ॒ शान्त्यै॑ ।
अ॒ग्निर् वा॑ ह॒ वा अ॑ग्नि॒चित॑न् दु॒हे॑,
ऽग्नि॒चिद् वा॒ऽग्निन् दु॑हे ।

ए॒ष वा अ॒ग्नेर्दोह॒स्तम॑स्य॒ कण्व॑ ए॒व श्रा॑य॒सो॑ऽवे॒त्तेन॑ ह स्मैनँ॒ स दु॑हे॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑त्यग्नि॒चिदे॒व तद॒ग्निन्दु॑हे

भट्टभास्कर-टीका

दुह प्रपूरणे, प्रपूरणं रेचनम् । तत्राग्निना दुह्यमानः अग्निचित् अग्निचिता दुह्यमानो हि स्वमहिम्नाऽऽरोपितः पुनःपुनराप्यायत इति विशेषः । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः ।
‘च वायोगे प्रथमा’ इति प्रथमा तिङ्विभक्तिर्न निहन्यते ॥

8एष वा इति ॥ एष मन्त्रोऽग्नेः । अस्येते कर्मणि षष्ठी । तमिममग्नेर्दोहमन्त्रं कण्वः श्रयसः पुत्रोऽवेत् । कथमवगम्यते सोऽवेदित्यत्राह - स खलु कण्वः एनमग्निं तेनानेन मन्त्रेण दुहे दुग्धे । पूर्ववल्ल्यब्लोपश्च । यदेतयेत्यादि । गतम् ॥

सायण-टीका

तमेतं मन्त्रं विनियुङ्क्ते —
“ताँ सवितुर्वरेण्यस्य चित्रामिति शमीमयीँ शान्त्यै” (सं. का. ५ प्र. ४ अ. ७) इति।
शम्याः शमनहेतुत्वाच्छान्त्यर्थत्वं युक्तम्।
मन्त्रस्य पूर्वार्धे सवितुस्तां सुमतिमावृण इत्यस्य तात्पर्यं दर्शयति —
“अग्निर्वा ह वा अग्निचितं दुहेऽग्निचिताऽग्निं दुहे ताँ सवितुर्वरेण्यस्य चित्रामित्याहैष वा अग्नेर्दोहः” (सं. का. ५ प्र. ४ अ. ७) इति।
द्विविधो मन्त्रदोहः संभवति।
अग्निकर्तृको यजमानकर्मक एको दोहः।
अग्निर्हि यजमाने संभावितं हविः स्तुत्यादिरूपं दोग्धि।
तथा यजमानकर्तृकोऽग्निकर्मको द्वितीयो दोहः।
यजमानो ह्यग्नौ संभावितं स्वापेक्षितं फलं दोग्धि।
तत्र सवितुः सुमतिमिति वचनेनाग्रिकर्मको द्वितीयो दोहो विवक्षितः—
द्वितीयार्धे कण्वोदाहरणस्य तात्पर्यं दर्शयति —
“तमस्य कण्व एव श्रायसोऽवेत्तेन ह स्मैनँ स दुहे” [सं. का. ५ प्र. ४ अ. ७] इति।
अग्नेः संवन्धिनं तं फलस्वीकाररूपं दोहं कण्वाख्य एव महर्षिः पूर्वं ज्ञातवान्।
स च कण्वः श्रयसोऽपत्यं श्रायसः।
अतोऽस्मिन्नुत्तरार्धे पठिते सति तेन कण्वः मुनिरिवैनमग्निं स यजमानो दुग्धवान्भवति।
एतन्मन्त्रविशिष्टं समिदाधानं प्रशंसति– “यदेतया समिधमादधात्यग्निचिदेव तदग्निं दुहे” [सं. का. ५ प्र. ४ अ. ७] इति।

मूलम् (संयुक्तम्)

स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वा इत्या॑ह स॒प्तैवास्य॒ साप्ता॑नि प्रीणाति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिᳶ प्र॒जाप॑तेः [34]
आप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत प्र॒जानाँ॒ सृष्ट्या॑

विश्वास-प्रस्तुतिः

स॒प्त ते॑ अग्ने स॒मिध॑स् स॒प्त जि॒ह्वा इत्या॑ह ।
स॒प्तैवास्य॒ साप्ता॑नि प्रीणाति ।

मूलम्

स॒प्त ते॑ अग्ने स॒मिध॑स् स॒प्त जि॒ह्वा इत्या॑ह ।
स॒प्तैवास्य॒ साप्ता॑नि प्रीणाति ।

भट्टभास्कर-टीका

9सप्त ते अग्न इति ॥ आज्यस्य पूर्णां स्रुचं जुहोति । सप्तैवेति । सप्त प्रमाणानि सप्त भवन्त्यग्नेः समिदादि, तानि प्रीणाति अनेन मन्त्रेण होमात्तत्र समिन्धनहेतवः सप्त मरुतः सप्त छन्दांसि वा जिह्वाजा ऋषयः प्रीयमाणाः । प्रियाणि धामानि आहवनीयादीनि धिष्ण्यनामानि वासस्थानानि । होत्रादयो वषट्कर्तारो होत्राः सप्त । यागविधा अग्निष्टोमादयः सप्त संस्था यान्यग्न्युत्पत्तिस्थानानि भूरादीनि । सप्तशब्द उत्सादिर्द्रष्टव्यः । ‘सप्तनोऽञ् छन्दसि’ इति अञो विधिः । पूर्णयेति । व्याख्यातम् । वर्णकृतपूर्णत्वन्यूनत्वाश्रयणेन । इह तु तदभावात् स्वर्गविषयं द्रष्टव्यम् ॥

सायण-टीका

अस्य मन्त्रस्य तात्पर्यं दर्शयति —
“सप्त ते अग्ने समिधः सप्त जिह्वा इत्याह सृप्तैवास्य साप्तानि प्रीणाति” (सं. का. ५ प्र. ४ अ. ७) इति। सप्तसंख्योपेतं द्रव्यस्वरूपं साप्त, तानि च साप्तानि पुनः सप्तसंख्याकानि। समित्सप्तकमेकं जिड्वासप्तकं द्वितीयमृषिसप्तकं तृतीयं धामसप्तकं चतुर्थं होतृसप्तकं पञ्चमं यजनप्रकारभेदसप्तकं षष्ठं पूरणीययोनिसप्तकमेकम्। अग्नेः संवन्धीनि साप्तानि समिदादिसप्तकानि यानि सन्ति तानि साप्तानि प्रीणयत्येव।

विश्वास-प्रस्तुतिः

+++(१२ ग्रहणैः)+++ पू॒र्णया॑ +++(जुह्वा)+++ जुहोति ।
पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒र् आप्त्यै॑ ।[34]

न्यू॑नया जुहोति ।
न्यू॑ना॒द्+धि प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत ।
प्र॒जानाँ॒ सृष्ट्यै॑ ।

मूलम्

पू॒र्णया॑ जुहोति ।
पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।[34]

न्यू॑नया जुहोति ।
न्यू॑ना॒द्धि प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत ।
प्र॒जानाँ॒ सृष्ट्यै॑ ।

सायण-टीका

एतन्मन्त्रसाध्यं होमं विधत्ते–
“पूर्णया जुहोति पूर्ण इव हि प्रजापतिः प्रजापतेराप्त्यै न्यूनया जुहोति न्यूनाद्धि प्रजापतिः प्रजा असृजत प्रजानाँ सृष्ट्यै” [सं. का. ५ प्र. ४ अ. ७] इति।
२१९५ द्वादशगृहीतेनाऽऽज्येन पूर्णा या जुहूस्तया जुहुयात्।
प्रजापतेः प्राप्त-सर्वकामत्वात् पूर्णत्वम्।
अतस् तत्-पूर्तिः प्रजा-पति-प्राप्त्यै भवति।

मुख्यकल्पत्वेन पूर्णत्वं विघायानुकल्पत्वेन न्यूनत्वमप्यङ्गी क्रियते।
न्यूनाद् अल्पाद् बीजात् प्रजापतिः प्रौढानि शरीराण्यसृजत।
अतः प्रजासृष्ट्यै न्यूनत्वमङ्गी क्रियते, किमु वक्तव्यं पूर्णत्वमित्यभिप्रायः।

मूलम् (संयुक्तम्)

अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स दिशोऽनु॒ प्रावि॑श॒ज्जुह्व॒न्मन॑सा॒ दिशो॑ ध्यायेद्दि॒ग्भ्य ए॒वैन॒मव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

अ॒ग्निर् दे॒वेभ्यो॒ निला॑यत
स दिशो ऽनु॒ प्रावि॑शत्
जु॒ह्व॒न् मन॑सा॒ दिशो॑ ध्यायेत्
दि॒ग्भ्य ए॒वैन॒म् अव॑ रुन्धे

मूलम्

अ॒ग्निर् दे॒वेभ्यो॒ निला॑यत ।
स दिशोऽनु॒ प्रावि॑शत् ।
जु॒ह्व॒न्मन॑सा॒ दिशो॑ ध्यायेत् ।
दि॒ग्भ्य ए॒वैन॒मव॑ रुन्धे ।

भट्टभास्कर-टीका

10अग्निर्देवेभ्य इत्यादि ॥ निलायत निरगच्छत् । ‘उपसर्गस्यायतौ’ इति लत्वम् ।
जुह्वदिति ।
दध्नः पूर्णाम् औदुम्बरिं
पूर्णाम् आज्यस्य
पूर्णां स्रुचं द्वितीयामेवेति केचित् ॥

सायण-टीका

होमकाले ध्यानं विधत्ते—
“अग्निर्देवेभ्यो निलायत स दिशोऽनु प्राविशज्जुह्वन्मनसा दिशो व्यायेद्दिग्भ्य एवैनमव रुन्धे” [सं. का. ५ प्र. ४ अ. ७] इति।
एनं दिक्षु प्रविष्टमग्निम्।

मूलम् (संयुक्तम्)

द॒ध्ना पु॒रस्ता॑ज् जुहो॒त्याज्ये॑नो॒परि॑ष्टा॒त्तेज॑श्चै॒वास्मा॑ इन्द्रि॒यञ्च॑ स॒मीची॑ दधाति॒

विश्वास-प्रस्तुतिः

द॒ध्ना पु॒रस्ता॑ज् जुहो॒त्य्, आज्ये॑नो॒परि॑ष्टात् ।
तेज॑श् चै॒वास्मा॑ इन्द्रि॒यञ् च॑
स॒मीची॑ दधाति

मूलम्

द॒ध्ना पु॒रस्ता॑ज् जुहो॒त्याज्ये॑नो॒परि॑ष्टात् ।
तेज॑श्चै॒वास्मा॑ इन्द्रि॒यञ् च॑ स॒मीची॑ दधाति ।

भट्टभास्कर-टीका

11दध्नेत्यादि ॥ एवमुक्तेन प्रकारेण अग्निनिधानात् पूर्वं दध्ना जुहोति इष्ट्वाऽऽज्येन समीची इति सम्मुखे तस्य स्थापयति । ‘चौ’ इति पूर्वपदस्य दीर्घत्वम्, अन्तोदात्तत्वं च ॥

सायण-टीका

पूर्वमनुष्ठितां दध्याहुतिमिदानीमनुष्ठीयमानमाज्याहुतिं च मिलित्वा प्रशंसति—
“दघ्ना पुरस्ताज्जुहोत्याज्येनोपरिष्ठात्तेजश्चैवास्या इन्द्रियं च समीची दधाति” (सं. का. ५ प्र. ४ अ. ७) इति। अग्निस्थापनात्पूर्वं दधिहोम उपरिष्टाञ्चाऽऽज्यहोमः। तत्राऽऽज्यं तेजोरूपं दधि चेन्द्रियरूपम्। “तेजो वा आज्यम्” “इन्द्रियं वै दधि” इति श्रुत्यन्तरात्। अतो यजमानर्थमुभयमपि सम्यक्संपादितं भवति ।

मूलम् (संयुक्तम्)

द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रो॑ऽग्निर्वै॑श्वान॒रस्सा॒क्षात् [35]
ए॒व वै॑श्वान॒रमव॑ रुन्द्धे॒

विश्वास-प्रस्तुतिः

द्वाद॑शकपालो वैश्वान॒रो भ॑वति ।
द्वाद॑श॒ मासा॑स् सव्ँवत्स॒रः,
सव्ँ॑वत्स॒रो॑ ऽग्निर् वै॑श्वान॒रः ।
सा॒क्षाद् ए॒व वै॑श्वान॒रम् अव॑ रुन्धे ।[35]

मूलम्

द्वाद॑शकपालो वैश्वान॒रो भ॑वति ।
द्वाद॑श॒ मासा॑स् सव्ँवत्स॒रः,
सव्ँ॑वत्स॒रो॑ऽग्निर् वै॑श्वान॒रः ।
सा॒क्षाद् ए॒व वै॑श्वान॒रम् अव॑ रुन्धे ।[35]

भट्टभास्कर-टीका

12द्वादशकपाल इत्यादि ॥ गतम् ॥ +++(सम्पादकटिप्पनी - विस्तृतव्याख्यानमन्यत्र मृग्यम् ।)+++

सायण-टीका

एतेभ्यो मारुतपुरोडाशेभ्यः पुरा निर्वपणीयं वैश्वानरमादौ विधत्ते–
“द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवासरः संवत्सरोऽग्निर्वै श्वानरः साक्षादेव वैश्वानरमव रुन्धे” [सं. का. ५ प्र. ४ अ. ७] इति। उख्याग्नेः संवत्सरधारणेनाग्नेः संवत्सररूपत्वम्।

मूलम् (संयुक्तम्)

यत्प्र॑याजानूया॒जान्कु॒र्याद्विक॑स्ति॒स्सा य॒ज्ञस्य॑ दर्विहो॒मङ्क॑रोति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै

विश्वास-प्रस्तुतिः

यत् प्र॑याजानूया॒जान् कु॒र्याद्
विक॑स्ति॒स्+++(=विनाशः)+++ सा य॒ज्ञस्य॑ ।
द॒र्वि॒हो॒मङ् क॑रोति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै ।

मूलम्

यत् प्र॑याजानूया॒जान् कु॒र्याद् विक॑स्ति॒स् सा य॒ज्ञस्य॑ ।
द॒र्वि॒हो॒मङ्क॑रोति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

13यदित्यादि ॥ वैश्वानरस्य प्रयाजानुयाजान् कुर्यात् सा विकस्तिः विनाशस्स्यात् यज्ञस्य क्रतोः । तस्माद्दर्विहोमं करोति प्रयाजादिराश्रावणं च यत्र नास्ति स दर्विहोमः । इह तु ‘उच्चैर्वैश्वानरस्याश्रावयति’ इति वक्ष्यमाणत्वात् प्रयाजाद्यभावमात्रेण दर्विहोमत्वम् ॥

सायण-टीका

चोदकप्राप्तान्प्रयाजानूयाजानपवदति– “यत्प्रयाजानूयाजान्कुर्याद्विकस्तिः सा यज्ञस्य दर्विहोमं करोति यज्ञस्य प्रतिष्ठित्यै” (सं. का. ५ प्र. ४ अ. ७) इति। विशेषेण कस्तिर्नाशो विकस्तिस्तत्परिहारायान्यत्र प्रयाजानूयाजानकृत्वा यथा दर्विहोमं कुर्वन्ति तद्वदत्रापि दर्विहोमं प्रयाजानूयाजरहितं कुर्यात्। ततो विकस्तेरभावाद्याज्ञः प्रतिष्ठितो भवति।

मूलम् (संयुक्तम्)

रा॒ष्ट्रव्ँ वै वै॑श्वान॒रो विण्म॒रुतो वैश्वान॒रँ हु॒त्वा मा॑रु॒ताञ्जु॑होति रा॒ष्ट्र ए॒व विश॒मनु॑ बध्नात्य्

विश्वास-प्रस्तुतिः

रा॒ष्ट्रव्ँ वै वै॑श्वान॒रो विण्-म॒रुतः॑ ।
वै॒श्वा॒न॒रँ हु॒त्वा मा॑रु॒ताञ् जु॑होति ।
रा॒ष्ट्र ए॒व विश॒म् अनु॑ बध्नाति ।

मूलम्

रा॒ष्ट्रव्ँ वै वै॑श्वान॒रो विण्म॒रुतः॑ ।
वै॒श्वा॒न॒रँ हु॒त्वा मा॑रु॒ताञ् जु॑होति ।
रा॒ष्ट्र ए॒व विश॒मनु॑ बध्नाति ।

भट्टभास्कर-टीका

14राष्ट्रं वा इति ॥ वैश्वानरस्याग्नेः सर्वत्रान्तर्बहिश्च भावात् जनसमुदायात्मनां राष्ट्राणां तादर्थ्यात्ताच्छब्द्यम् । विण्मरुत इति । विशः कुटुम्ब्यः प्रजा जातावेकवचनम् । तत्स्थानीया मरुतः राष्ट्रात्मनो वैश्वानरस्य उद्दीपकत्वात् । तस्माति वैश्वानरं हुत्वा मारुतान् सप्तकपालान् जुहोति । राष्ट्रे एव विशमनुबध्नाति । अनुक्रमेण स्थापयति ॥

सायण-टीका

वैश्वानरपुरोढाशहोमसमनन्तरमेव मारुतपुरोडाशहोमं विधत्ते—
“राष्ट्रं वै वैश्वानरो विण्मरुतो वैश्वानरँ हुत्वा मारुताञ्जुहोति राष्ट्र एव विशमनु बध्नाति” [सं. का. ५ प्र. ४ अ. ७] इति। राष्ट्रस्थानीयस्य वैश्वानरस्य पूर्वभावित्वात्पश्चाद्भावीयप्रजास्थानीयमारुतहोमेन राष्ट्रे प्रजां योजितवान्भवति।

मूलम् (संयुक्तम्)

उ॒च्चैर्वै॑श्वान॒रस्या श्रा॑वयत्युपाँ॒शु मा॑रु॒ताञ्जु॑होति॒ तस्मा॑द्रा॒ष्ट्रव्ँविश॒मति॑ वदति

विश्वास-प्रस्तुतिः

उ॒च्चैर् वै॑श्वान॒रस्या श्रा॑वयत्य्, उपाँ॒शु मा॑रु॒ताञ् जु॑होति ।
तस्मा॑द् रा॒ष्ट्रव्ँ विश॒म् अति॑ वदति ।

मूलम्

उ॒च्चैर् वै॑श्वान॒रस्या श्रा॑वयत्युपाँ॒शु मा॑रु॒ताञ् जु॑होति ।
तस्मा॑द् रा॒ष्ट्रव्ँ विश॒मति॑ वदति ।

भट्टभास्कर-टीका

15उच्चैरित्यादि ॥ वैश्वानरस्य उच्चैस्त्वान्वयात् तदात्मकं राष्ट्रमुच्चैर्भावेन वर्तमानं मारुतानां नीचैस्त्वान्वयेन नीचैस्त्वेन वर्तमाना मरुदात्मिका प्रर्कृतिरतिवदति प्रभुत्वेनावभम् ? ॥

सायण-टीका

मारुतहोमे मन्दध्वनिं विद्यत्ते– “उच्चैर्वैश्वानरस्याऽऽश्राव (य) त्युपाँ शु मारुताञ्जुहोति तस्माद्राष्ट्रं विशमति वदति” [सं. का. ५ प्र. ४ अ. ७] इति। उच्चध्वनित्वमाश्रावणे चोदकप्राप्तम् । यस्माद्राष्ट्रस्थानीये वैश्वानर उच्चैर्ध्वनिः प्रजास्थानीये मरुत उपांशुत्वं तस्माल्लोकेऽपि प्रजामतिक्रम्य राष्ट्रमेवाधिकं सर्वो जनो वक्ति । सति हि राष्ट्रे प्रजानामन्वेषणम्।

मूलम् (संयुक्तम्)

मा॒रु॒ता भ॑वन्ति म॒रुतो॒ वै दे॒वानाव्ँ॒विशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

मा॒रु॒ता भ॑वन्ति ।
म॒रुतो॒ वै दे॒वानाव्ँ॒ विशः॑ ।
दे॒व॒वि॒शेनै॒वास्मै॑ मनुष्य-वि॒शम् अव॑ रुन्धे

मूलम्

मा॒रु॒ता भ॑वन्ति ।
म॒रुतो॒ वै दे॒वानाव्ँ॒ विशः॑ ।
दे॒व॒वि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑ रुन्धे ।

भट्टभास्कर-टीका

16मारुता इत्यादि ॥ गतम् । देवविशेनेति । अमुमिति । योगविभागादच् समासान्तः ॥

सायण-टीका

२१९७ अथ मारुतपुरोडाशान्प्रशंसति– “मारुता भवन्ति मरुतो वै देवानां विशो देवविशेनैवास्मै मनुष्यविशमव रुन्धे” [सं. का. ५ प्र. ४ अ. ७] इति। दैन्येन प्रजासमूहेन यजमानाय मानुषं प्रजासमूहं संपादयति।

मूलम् (संयुक्तम्)

स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

स॒प्त भ॑वन्ति ।
स॒प्तग॑णा॒ वै म॒रुतः॑ ।
ग॒ण॒श ए॒व विश॒म् अव॑ रुन्धे ।

मूलम्

स॒प्त भ॑वन्ति ।
स॒प्तग॑णा॒ वै म॒रुतः॑ ।
ग॒ण॒श ए॒व विश॒मव॑ रुन्धे ।

भट्टभास्कर-टीका

17सप्त इत्यादि ॥ गतम् । गणश इति । ‘बहुगणवतुडति सङ्ख्या’ इति सङ्ख्यात्वात् ‘सङ्ख्यैकवचनाच्च’ इति शस् ॥

सायण-टीका

पुरोडाशानां संख्यां विधत्ते–
“सप्त भवन्ति सप्तगणा वै मरुतो गणश एव विशमव रुन्धे” [सं. का. ५ प्र. ४ अ. ७] इति। अत्रत्येषु मन्त्रेष्वाम्नाताः पञ्च गणाः। आरण्यकाण्ड आम्नातो धुनिश्च ध्वान्तश्चेत्यपरो गणः सूवोक्तः स्वतवानित्यादिरेक। अतः सप्तसंख्यामिश्च बहुविधगणरूपां प्रजां प्राप्रोति।

मूलम् (संयुक्तम्)

ग॒णेन॑ ग॒णम॑नु॒द्रुत्य॑ जुहोति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मानङ्करोति ॥ [36]

विश्वास-प्रस्तुतिः

ग॒णेन॑ ग॒णम् अ॑नु॒द्रुत्य॑ जुहोति
विश॑मे॒वास्मा॒ अनु॑वर्त्मानङ्करोति ॥ [36]

मूलम्

ग॒णेन॑ ग॒णम॑नु॒द्रुत्य॑ जुहोति ।
विश॑मे॒वास्मा॒ अनु॑वर्त्मानङ्करोति ॥ [36]

भट्टभास्कर-टीका

18गणेनेति ॥ अत्र सप्तकः सप्तमरुद्गणा मन्त्राः ‘ईर्दृङ्च’ इत्यादयः चत्वारः । ततः आरण्येऽनुवाक्ये द्वौ गणौ ‘धुनिश्च’ इत्याद्यौ । राजसूयिका ‘उग्रष्च धुनिश्च’ इत्याद्यौ । द्वितीय अग्निश्चित्यः ‘सृतया’ इत्यादिसप्तमो गणश्शाखान्तरीयः । ‘ईदृक्षास एतादृक्षासः’ इत्यादिरान्तादनुवाकस्य प्रतिगणमनुषज्यते । तत्र गणेन जुहोति याज्यास्थानीयेन गणमनुद्रुत्य पूर्वस्य गणस्य वा याज्यतामुत्तरस्य पुरोनुवाक्यतां वा कृत्वेत्यर्थः । केचिदाहुः - ‘ईदृङ्च’ इत्याद्याश्चत्वारो गणाः । ‘ईदृक्षासः’ इत्यादिजगत्या द्वावर्धर्चौ । आरण्योऽनुवाक्यो गणचतुर्थ इति । अन्ये तु ब्रुवते - तेषामारण्योऽनुवाक्यश्चतुर्थश्शाखान्तरीयस्तु षष्ठः । जगत्या वा प्रथमर्चं सप्तमं शिष्टं सर्वेष्वनुषज्यत इति । अनुवर्त्मानमिति । राष्ट्रविधेयतामित्यर्थः ॥

इति पञ्चमे चतुर्थे सप्तमोनुवाकः ॥

सायणोक्त-विनियोगः

होमकाले मम्त्रोच्चारे कंचिद्विशेपं विधत्ते–
“गणेन गणमनुद्रुत्य जुहोति विशमेवास्मा अनुवर्त्मानं करोति” [सं. का. ५ प्र. ४ अ. ७] इति।
यदा प्रथमगणेन हुत्वा द्वितीयगणेन जुहोति
तदानीं प्रथमगणम् उच्चार्य
पश्चाद् द्वितीयगणेन जुहोति।
तथा द्वितीयगणमुच्चार्य तृतीयगणेन जुहुयात्।
एवं सति सर्वां प्रजामस्मै यजमानायानुकूलत्वेन वर्तमानां करोति।