०६

मूलम् (संयुक्तम्)

उदे॑नमुत्त॒रान्न॒येति॑ स॒मिध॒ आ द॑धाति॒ यथा॒ जनय्ँ॑य॒ते॑ऽव॒सङ्क॒रोति॑ ता॒दृगे॒व तत्

विश्वास-प्रस्तुतिः

उदे॑नमुत्त॒रान्न॒येति॑ स॒मिध॒ आ द॑धाति ।
यथा॒ जनय्ँ॑य॒ते॑ऽव॒सङ्क॒रोति॑ ता॒दृगे॒व तत् ।

मूलम्

उदे॑नमुत्त॒रान्न॒येति॑ स॒मिध॒ आ द॑धाति ।
यथा॒ जनय्ँ॑य॒ते॑ऽव॒सङ्क॒रोति॑ ता॒दृगे॒व तत् ।

भट्टभास्कर-टीका

1’उदेनं’ इत्यादितिसृभिस्तिस्रः आदधाति ॥ यथेति । यथा द्रष्टव्यं जनं यते गच्छते अवसं रक्षणार्थं पाथेयादिकं करोति तत्तुल्यम् ॥

मूलम् (संयुक्तम्)

ति॒स्र आ द॑धाति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्मै॑ भाग॒धेय॑ङ्करो॒त्यौदु॑म्बरीर्भव॒न्त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधा॒त्य

विश्वास-प्रस्तुतिः

ति॒स्र आ द॑धाति ।
त्रि॒वृद् वा अ॒ग्निः ।
यावा॑ने॒वाग्निस् तस्मै॑ भाग॒धेय॑ङ् करोति ।
औदु॑म्बरीर् भवन्ति ।
ऊर्ग्वा उ॑दु॒म्बरः॑ ।
ऊर्ज॑म् ए॒वास्मा॒ अपि॑ दधाति ।

मूलम्

ति॒स्र आ द॑धाति ।
त्रि॒वृद् वा अ॒ग्निः ।
यावा॑ने॒वाग्निस् तस्मै॑ भाग॒धेय॑ङ् करोति ।
औदु॑म्बरीर् भवन्ति ।
ऊर्ग्वा उ॑दु॒म्बरः॑ ।
ऊर्ज॑म् ए॒वास्मा॒ अपि॑ दधाति ।

भट्टभास्कर-टीका

2तिस्र इत्यादि ॥ गतम् । ‘उदात्तयणः’ इति तिसृभ्यो विभक्तिरुदात्ता । त्रेधाविहितेष्टकत्वात् त्रिवृत्त्वमग्नेः ॥

मूलम् (संयुक्तम्)

उदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाᳶ प्रा॒णैः [24]
ए॒वैन॒मुद्य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑ ए॒वैन॑ञ्चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैनँ॒ सम॑र्धयति॒ पञ्च॒ दिशो॒ दैवी॑र्य॒ज्ञम॑वन्तु दे॒वीरित्या॑ह॒ दिशो॒ ह्ये॑षोऽनु॑ प्र॒च्यव॒तेऽपाम॑तिन्दुर्म॒तिम्बाध॑माना॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती॒रित्या॑ह प॒शवो॒ वै रा॒यस्पोषः॑ [25]
प॒शूने॒वाव॑ रुन्द्धे ष॒ड्भिर्ह॑रति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनँ॑ हरति॒ द्वे प॑रि॒गृह्य॑वती भवतो॒ रक्ष॑सा॒मप॑हत्यै॒ सूर्य॑रश्मि॒र्हरि॑केशᳶ पु॒रस्ता॒दित्या॑ह॒ प्रसू॑त्यै॒ ततᳶ॑ पाव॒का आ॒शिषो॑ नो जुषन्ता॒मित्या॒हान्नव्ँ॒ वै पा॑व॒कोऽन्न॑मे॒वाव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

“उदु॑ त्वा॒ विश्वे॑ दे॒वा” इत्या॑ह ।
प्रा॒णा वै विश्वे॑ दे॒वाः ।
प्रा॒णैर् ए॒वैन॒मुद्य॑च्छते । [24]
“अग्ने॒ भर॑न्तु॒ चित्ति॑भिः”+ इत्या॑ह ।
यस्मा॑ ए॒वैन॑ञ् चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैनँ॒ सम॑र्धयति ।
“पञ्च॒ दिशो॒ दैवी॑र्य॒ज्ञम॑वन्तु दे॒वीः” + इत्या॑ह ।
दिशो॒ ह्ये॑षोऽनु॑ प्र॒च्यव॑ते ।
“अपाम॑तिन् दुर्म॒तिम् बाध॑माना॒” इत्या॑ह । रक्ष॑सा॒मप॑हत्यै ।
“रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्तीः” + इत्या॑ह ।
प॒शवो॒ वै रा॒यस्पोषः॑ ।[25]
प॒शूने॒वाव॑ रुन्धे ।
ष॒ड्भिर् ह॑रति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑रे॒वैनँ॑ हरति ।
द्वे प॑रि॒गृह्य॑वती भवतो॒ रक्ष॑सा॒मप॑हत्यै ।
सूर्य॑रश्मि॒र्हरि॑केशᳶ पु॒रस्ता॒दित्या॑ह ।
प्रसू॑त्यै ।
ततᳶ॑ पाव॒का आ॒शिषो॑ नो जुषन्ता॒मित्या॑ह ।
अन्नव्ँ॒ वै पा॑व॒कः ।
अन्न॑मे॒वाव॑ रुन्धे ।

मूलम्

“उदु॑ त्वा॒ विश्वे॑ दे॒वा” इत्या॑ह ।
प्रा॒णा वै विश्वे॑ दे॒वाः ।
प्रा॒णैर् ए॒वैन॒मुद्य॑च्छते । [24]
“अग्ने॒ भर॑न्तु॒ चित्ति॑भिः”+ इत्या॑ह ।
यस्मा॑ ए॒वैन॑ञ् चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैनँ॒ सम॑र्धयति ।
“पञ्च॒ दिशो॒ दैवी॑र्य॒ज्ञम॑वन्तु दे॒वीः” + इत्या॑ह ।
दिशो॒ ह्ये॑षोऽनु॑ प्र॒च्यव॑ते ।
“अपाम॑तिन् दुर्म॒तिम् बाध॑माना॒” इत्या॑ह । रक्ष॑सा॒मप॑हत्यै ।
“रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्तीः” + इत्या॑ह ।
प॒शवो॒ वै रा॒यस्पोषः॑ ।[25]
प॒शूने॒वाव॑ रुन्धे ।
ष॒ड्भिर् ह॑रति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑रे॒वैनँ॑ हरति ।
द्वे प॑रि॒गृह्य॑वती भवतो॒ रक्ष॑सा॒मप॑हत्यै ।
सूर्य॑रश्मि॒र्हरि॑केशᳶ पु॒रस्ता॒दित्या॑ह ।
प्रसू॑त्यै ।
ततᳶ॑ पाव॒का आ॒शिषो॑ नो जुषन्ता॒मित्या॑ह ।
अन्नव्ँ॒ वै पा॑व॒कः ।
अन्न॑मे॒वाव॑ रुन्धे ।

भट्टभास्कर-टीका

3’उदुत्वा विश्वे देवाः’ इति षड्भिरग्निमुद्यच्छते । ननु कथमुक्तं - षड्भिरग्निमुद्यच्छते इति उद्यमनस्य नियताङ्गत्वात् दोषः । द्वे परिगृह्यवती परिगृह्यशब्दवत्यौ द्वे ऋचौ द्वितीयचतुर्थ्यौ ‘रायस्पोषे अधि यज्ञः’ ‘ऊर्जा यद्यज्ञम्’ इति च । एवं हरणसामर्थ्यप्रख्यापनार्थं छत्रिन्यायेन सर्वासां परिगृह्यवत्त्वख्यापनमभिप्रेतम् । तेन देवैः परिगृहीतवत्ववचनाद्रक्षांसि बाधितुं प्रभवति ॥

मूलम् (संयुक्तम्)

देवासु॒रास्सय्ँय॑त्ता आस॒न्ते दे॒वा ए॒तदप्र॑तिरथमपश्य॒न्तेन॒ वै ते॑ऽप्र॒ति [26]
असु॑रानजय॒न्तदप्र॑तिरथस्याप्रतिरथ॒त्वय्ँ

विश्वास-प्रस्तुतिः

दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
ते दे॒वा ए॒तदप्र॑तिरथमपश्यन् ।
तेन॒ वै ते॑ऽप्र॒त्यसु॑रानजयन् । [26]
तदप्र॑तिरथस्याप्रतिरथ॒त्वम् ।

मूलम्

दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
ते दे॒वा ए॒तदप्र॑तिरथमपश्यन् ।
तेन॒ वै ते॑ऽप्र॒त्यसु॑रानजयन् । [26]
तदप्र॑तिरथस्याप्रतिरथ॒त्वम् ।

भट्टभास्कर-टीका

4देवासुरा इति ॥ अप्रतिरथ्यं नाम ‘आशुश्शिशानः’ इत्यादिकं दशर्चं सुक्तमाम्नानक्रमं विहाय प्रागेवेदं विनियुङ्क्ते । अप्रतीति । प्रतिपक्षो यत्र नास्ति तदप्रतीति क्रियाविशेषणम् । यथा न कश्चित्प्रतीपश्शिष्यते तथा असुरानजयत् । बहुव्रीहौ ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - अतिकल्पम् । ‘सुप्रतिनामात्रार्थे’ इत्यव्ययीभावसमासः । अप्रतिरथत्वमिति । अप्रतिरथं जयसाधनत्वात् ॥

मूलम् (संयुक्तम्)

यदप्र॑तिरथन्द्वि॒तीयो॒ होता॒न्वाहा॑प्र॒त्ये॑व तेन॒ यज॑मानो॒ भ्रातृ॑व्याञ्जय॒त्यथो॒ अन॑भिजितमे॒वाभि ज॑यति

विश्वास-प्रस्तुतिः

यदप्र॑तिरथन्द्वि॒तीयो॒ होता॒न्वाहा॑प्र॒त्ये॑व , तेन॒ यज॑मानो॒ भ्रातृ॑व्याञ् जयति ।

अथो॒ अन॑भिजितमे॒वाभि ज॑यति ।

मूलम्

यदप्र॑तिरथन्द्वि॒तीयो॒ होता॒न्वाहा॑प्र॒त्ये॑व , तेन॒ यज॑मानो॒ भ्रातृ॑व्याञ् जयति ।

अथो॒ अन॑भिजितमे॒वाभि ज॑यति ।

भट्टभास्कर-टीका

5यदित्यादि ॥ यदा ‘अग्नये प्रणीयमानाय अनुब्रूहि’ इति । संप्रैषः क्रियते तदैतत्सूक्तं द्वितीयो होताऽन्वाह – अथो इति । अनभिजितं अभिजेतुमशक्यमपि शत्रुमभिजयत्येव ॥

मूलम् (संयुक्तम्)

दश॒र्चम्भ॑वति॒ दशा॑क्षरा वि॒राड्वि॒राजे॒मौ लो॒कौ विधृ॑ताव॒नयो॑र्लो॒कयो॒र्विधृ॑त्या॒ अथो॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठ॒त्य्

विश्वास-प्रस्तुतिः

द॒श॒र्चम् भ॑वति ।
दशा॑क्षरा वि॒राट् ।
वि॒राजे॒मौ लो॒कौ विधृ॑तौ ।
अ॒नयो॑र् लो॒कयो॒र् विधृ॑त्यै ।
अथो॒ दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राट् ।
वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति ।

मूलम्

द॒श॒र्चम् भ॑वति ।
दशा॑क्षरा वि॒राट् ।
वि॒राजे॒मौ लो॒कौ विधृ॑तौ ।
अ॒नयो॑र् लो॒कयो॒र् विधृ॑त्यै ।
अथो॒ दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राट् ।
वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति ।

भट्टभास्कर-टीका

6अनुवाकशेषस्य पञ्चर्चस्य दशानामृचां समाहारो दशर्चम् । ‘ऋक्पूरब्धूः’ इत्यकारस्समासान्तः । विराजेति । विराट् यज्ञोन्नं च ॥

मूलम् (संयुक्तम्)

अस॑दिव॒ वा अ॒न्तरि॑क्षम॒न्तरि॑क्षमि॒वाग्नी॑ध्र॒माग्नी॑ध्रे [27]
अश्मा॑न॒न्नि द॑धाति स॒त्त्वाय॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै

विश्वास-प्रस्तुतिः

अस॑दिव॒ वा अ॒न्तरि॑क्षम् ।
अ॒न्तरि॑क्षम् इ॒वाग्नी॑ध्रम् ।
आग्नी॑ध्रे ऽश्मा॑न॒न् नि द॑धाति ।[27]
स॒त्त्वाय॑ । द्वाभ्या॒म् प्रति॑ष्ठित्यै ।

मूलम्

अस॑दिव॒ वा अ॒न्तरि॑क्षम् ।
अ॒न्तरि॑क्षम् इ॒वाग्नी॑ध्रम् ।
आग्नी॑ध्रे ऽश्मा॑न॒न् नि द॑धाति ।[27]
स॒त्त्वाय॑ । द्वाभ्या॒म् प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

7असदिवेति ॥ आग्नीध्रीयेऽश्मनि साधनविधिः । असदिव वा अन्तरिक्षं, प्रत्यक्षमदर्शनात् । अन्तरिक्षमिवाग्नीध्रं मध्ये भावात् । सत्त्वायेति । अश्मनि निहिते उपलम्भादिसत्त्वनिवृत्तिः ॥

मूलम् (संयुक्तम्)

वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त॒ इत्या॑ह॒ व्ये॑वैतया॑ मिमीते॒ मध्ये॑ दि॒वो निहि॑तᳶ पृश्ञि॒रश्मेत्या॒हान्नव्ँ॒ वै पृश्ञ्यन्न॑मे॒वाव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त॒ इत्या॑ह ।
व्ये॑वैतया॑ मिमीते ।
मध्ये॑ दि॒वो निहि॑तᳶ पृश्ञि॒रश्मेत्या॑ह ।
अन्नव्ँ॒ वै पृश्नि॑ ।
अन्न॑म् ए॒वाव॑ रुन्धे ।

मूलम्

वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त॒ इत्या॑ह ।
व्ये॑वैतया॑ मिमीते ।
मध्ये॑ दि॒वो निहि॑तᳶ पृश्ञि॒रश्मेत्या॑ह ।
अन्नव्ँ॒ वै पृश्नि॑ ।
अन्न॑म् ए॒वाव॑ रुन्धे ।

भट्टभास्कर-टीका

8विमान एष इति ॥ अश्मनिधानमन्त्रौ । व्येवैतयेति । एतया ऋचा अन्तरिक्षमसद्विमिमीते । सत्त्वं बलं हि विमानः अन्तरिक्षस्थानीयस्याग्नीध्रस्य, ‘आस्ते’ इति मन्त्रलिङ्गात् । तर्हि द्वितीयया किं क्रियत इत्याह - अन्नं वा इति । शुक्लत्वसामान्यात् अन्नं वृत्तिरश्मा तत्कारणं वा । तस्माद्द्वितीयया अश्मनि साधनत्वं संप्रतिपद्यत इति भावः ॥

मूलम् (संयुक्तम्)

चत॒सृभि॒रा पुच्छा॑देति च॒त्वारि॒ छन्दाँ॑सि॒ छन्दो॑भिरे॒वेन्द्रव्ँ॒विश्वा॑ अवीवृध॒न्नित्या॑ह॒

विश्वास-प्रस्तुतिः

च॒त॒सृभि॒रा पुच्छा॑द् एति ।
च॒त्वारि॒ छन्दाँ॑सि ।
छन्दो॑भिरे॒व ।
इन्द्रव्ँ॒ विश्वा॑ अवीवृध॒न्न् इत्या॑ह ।

मूलम्

च॒त॒सृभि॒रा पुच्छा॑द् एति ।
च॒त्वारि॒ छन्दाँ॑सि ।
छन्दो॑भिरे॒व ।
इन्द्रव्ँ॒ विश्वा॑ अवीवृध॒न्न् इत्या॑ह ।

भट्टभास्कर-टीका

9चतसृभिरिति ॥ ‘इन्द्रं विश्वाः’ इत्यादिभिः आपुच्छात् गच्छति । छन्दोभिरेवेति एतीत्येव ॥

मूलम् (संयुक्तम्)

वृद्धि॑मे॒वोपाव॑र्तते॒ वाजा॑नाँ॒ सत्प॑ति॒म्पति॑म् [28]
इत्या॒हान्नव्ँ॒ वै वाजोऽन्न॑मे॒वाव॑ रुन्द्धे सुम्न॒हूर्य॒ज्ञो दे॒वाँ आ च॑ वक्ष॒दित्या॑ह प्र॒जा वै प॒शव॑स्सु॒म्नम्प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते॒ यक्ष॑द॒ग्निर्दे॒वो दे॒वाँ आ च॑ वक्ष॒दित्या॑ह

विश्वास-प्रस्तुतिः

वृद्धि॑म् ए॒वोपाव॑र्तते ।
वाजा॑नाँ॒ सत्प॑ति॒म् पति॒म् इत्या॑ह ।[28]
अन्नव्ँ॒ वै वाजः॑ । अन्न॑म् ए॒वाव॑ रुन्धे ।
सु॒म्न॒हूर्य॒ज्ञो दे॒वाँ आ च॑ वक्ष॒द् इत्या॑ह ।
प्र॒जा वै प॒शव॑स् सु॒म्नम् ।
प्र॒जामे॒व प॒शून् आ॒त्मन्ध॑त्ते ।
यक्ष॑द॒ग्निर् दे॒वो दे॒वाँ आ च॑ वक्ष॒दित्या॑ह ।

मूलम्

वृद्धि॑म् ए॒वोपाव॑र्तते ।
वाजा॑नाँ॒ सत्प॑ति॒म् पति॒म् इत्या॑ह ।[28]
अन्नव्ँ॒ वै वाजः॑ । अन्न॑म् ए॒वाव॑ रुन्धे ।
सु॒म्न॒हूर्य॒ज्ञो दे॒वाँ आ च॑ वक्ष॒द् इत्या॑ह ।
प्र॒जा वै प॒शव॑स् सु॒म्नम् ।
प्र॒जामे॒व प॒शून् आ॒त्मन्ध॑त्ते ।
यक्ष॑द॒ग्निर् दे॒वो दे॒वाँ आ च॑ वक्ष॒दित्या॑ह ।

भट्टभास्कर-टीका

10वृद्धिमेवेति ॥ निजवृद्धिलाभाभिप्रायकत्वात् इन्द्रवृद्धिकीर्तनस्य । एवं वाजसुम्नयोरपि द्रष्टव्यम् । सुम्नं सुखम् । प्रजानां च तद्धेतुत्वात्ताच्छब्द्यम् ॥

मूलम् (संयुक्तम्)

स्व॒गाकृ॑त्यै॒ वाज॑स्य मा प्रस॒वेनो॑द्ग्रा॒भेणोद॑ग्रभी॒दित्या॑ह

विश्वास-प्रस्तुतिः

स्व॒गाकृ॑त्यै ।
वाज॑स्य मा प्रस॒वेनो॑द्ग्रा॒भेणोद॑ग्रभी॒दित्या॑ह ।

मूलम्

स्व॒गाकृ॑त्यै ।
वाज॑स्य मा प्रस॒वेनो॑द्ग्रा॒भेणोद॑ग्रभी॒दित्या॑ह ।

भट्टभास्कर-टीका

11स्वगाकृत्या इति ॥ असाङ्कर्येण स्वभागलाभाय । अग्निरेव हि देवांस्तथा यष्टुं शक्नोतीति मन्त्राभिप्राय इति दर्शयति । छान्दसडाजन्तस्य गतित्वात् ‘ऊर्यादिच्विडाचश्च’ इति गतित्वात् ‘तादौ च निति’ इति प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

अ॒सौ वा आ॑दि॒त्य उ॒द्यन्नु॑द्ग्रा॒भ ए॒ष नि॒म्रोच॑न्निग्रा॒भो ब्रह्म॑णै॒वात्मान॑मुद्गृ॒ह्णाति॒ ब्रह्म॑णा॒ भ्रातृ॑व्य॒न्नि गृ॑ह्णाति ॥ [29]

विश्वास-प्रस्तुतिः

अ॒सौ वा आ॑दि॒त्य उ॒द्यन्न् उ॑द्ग्रा॒भ ए॒ष नि॒म्रोच॑न्निग्रा॒भः ।
ब्रह्म॑णै॒वात्मान॑मुद्गृ॒ह्णाति॒ ,
ब्रह्म॑णा॒ भ्रातृ॑व्य॒न् नि गृ॑ह्णाति ॥ [29]

मूलम्

अ॒सौ वा आ॑दि॒त्य उ॒द्यन्न् उ॑द्ग्रा॒भ ए॒ष नि॒म्रोच॑न्निग्रा॒भः ।
ब्रह्म॑णै॒वात्मान॑मुद्गृ॒ह्णाति॒ ,
ब्रह्म॑णा॒ भ्रातृ॑व्य॒न् नि गृ॑ह्णाति ॥ [29]

भट्टभास्कर-टीका

12असौ इत्यादि ॥ उद्यन् उद्ग्राभः । उद्गृह्णाति उत्सारयति । रस्मीन् निम्रोचन् अस्तं गच्छन्निग्राभः निगृह्णाति ग्रसति नियच्छति रश्मीनिति । स्रुगुद्यमननिपातनयोर्व्युत्पादितावत्र सादृश्याच्च वर्तेते । ब्रह्मणैवेति । उद्ग्रहणात्मना अनेन परिबृढेनादित्यकर्मणा आदित्येनैवावाक्कारिणा आत्मानमुद्गृह्णाति उच्छ्रितं करोति भ्रातृव्यं च निगृह्णाति विधेयीकरोति ॥

इति पञ्चमे चतुर्थे षष्ठोनुवाकः ॥