मूलम् (संयुक्तम्)
नृ॒षदे॒ वडिति॒ व्याघा॑रयति प॒ङ्क्त्याहु॑त्या यज्ञमु॒खमा र॑भते
विश्वास-प्रस्तुतिः
नृ॒षदे॒ वडिति॒ व्याघा॑रयति ।
प॒ङ्क्त्याऽऽहु॑त्या यज्ञमु॒खमा र॑भते ।
मूलम्
नृ॒षदे॒ वडिति॒ व्याघा॑रयति ।
प॒ङ्क्त्याऽऽहु॑त्या यज्ञमु॒खमा र॑भते ।
भट्टभास्कर-टीका
1नृषदे वडित्यादि ॥ स्वयमातृण्णां चितिमेव व्याघारयति । उत्तरं व्याधारणम् । पङ्क्त्येति । पदपङ्क्त्या । यथोक्तं ‘पञ्चभिः’ पञ्चकैः पदपङ्क्तिः’ इति । अक्षरपङ्क्तिरिति केचित्, एकस्य चतुष्कत्वात् । आहुत्येति । आहुत्यैव यज्ञमुखमुपक्रममारभते ॥
मूलम् (संयुक्तम्)
ऽक्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ यद्व॑षट्कु॒र्याद्या॒तया॑मास्य वषट्का॒रस्स्या॒द्यन्न व॑षट्कु॒र्याद्रक्षाँ॑सि य॒ज्ञँ ह॑न्यु॒र्वडित्या॑ह प॒रोक्ष॑मे॒व वष॑ट्करोति॒ नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति
विश्वास-प्रस्तुतिः
अ॒क्ष्ण॒या॒ व्याघा॑रयति ।
तस्मा॑दक्ष्ण॒या प॒शवो ऽङ्गा॑नि॒ प्र ह॑रन्ति॒ , प्रति॑ष्ठित्यै ।
यद्व॑षट् कु॒र्याद् या॒तया॑मास्य वषट्का॒रस् स्या॒त् ।
यन्न व॑षट्कु॒र्याद् रक्षाँ॑सि य॒ज्ञँ ह॑न्युः ।
वडित्या॑ह प॒रोक्ष॑मे॒व वष॑ट्करोति ।
नास्य॒ या॒तया॑मा वषट्का॒रो भव॑ति॒ , न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति ।
मूलम्
अ॒क्ष्ण॒या॒ व्याघा॑रयति ।
तस्मा॑दक्ष्ण॒या प॒शवो ऽङ्गा॑नि॒ प्र ह॑रन्ति॒ , प्रति॑ष्ठित्यै ।
यद्व॑षट् कु॒र्याद् या॒तया॑मास्य वषट्का॒रस् स्या॒त् ।
यन्न व॑षट्कु॒र्याद् रक्षाँ॑सि य॒ज्ञँ ह॑न्युः ।
वडित्या॑ह प॒रोक्ष॑मे॒व वष॑ट्करोति ।
नास्य॒ या॒तया॑मा वषट्का॒रो भव॑ति॒ , न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति ।
भट्टभास्कर-टीका
2अक्ष्णयेत्यादि ॥ व्याख्यातम् ॥
मूलम् (संयुक्तम्)
हु॒तादो॒ वा अ॒न्ये दे॒वाः [19]
अ॒हु॒तादो॒ऽन्ये तान॑ग्नि॒चिदे॒वोभया॑न्प्रीणाति॒ ये दे॒वा दे॒वाना॒मिति॑ द॒ध्ना म॑धुमि॒श्रेणावो॑क्षति हु॒ताद॑श्चै॒व दे॒वान॑हु॒ताद॑श्च॒ यज॑मानᳶ प्रीणाति॒ ते यज॑मानम्प्रीणन्ति
विश्वास-प्रस्तुतिः
हु॒तादो॒ वा अ॒न्ये दे॒वा अ॑हु॒तादो॒ऽन्ये ।[19]
तान् अ॑ग्नि॒चिद् ए॒वोभया॑न् प्रीणाति ।
ये दे॒वा दे॒वाना॒मिति॑ द॒ध्ना म॑धुमि॒श्रेणावो॑क्षति ।
हु॒ताद॑श् चै॒व दे॒वान॑हु॒ताद॑श् च॒ यज॑मानᳶ प्रीणाति ।
ते यज॑मानम् प्रीणन्ति ।
मूलम्
हु॒तादो॒ वा अ॒न्ये दे॒वा अ॑हु॒तादो॒ऽन्ये ।[19]
तान् अ॑ग्नि॒चिद् ए॒वोभया॑न् प्रीणाति ।
ये दे॒वा दे॒वाना॒मिति॑ द॒ध्ना म॑धुमि॒श्रेणावो॑क्षति ।
हु॒ताद॑श् चै॒व दे॒वान॑हु॒ताद॑श् च॒ यज॑मानᳶ प्रीणाति ।
ते यज॑मानम् प्रीणन्ति ।
भट्टभास्कर-टीका
3हुताद इत्यादि ॥ ग्रुमुष्टिनाऽवोक्षणविधिः । हुतमग्नौ प्रास्तमदन्तीति हुतादः पुरोडाशादिभुजः ।‘अदोऽनन्ने’ इति विट् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अहुतमदन्तीत्यहुतादः बलिहरणादिभुजः । स एव प्रत्ययः स्वरश्च । तानुभयानपि अग्निचिदेवाग्निचित् प्रीणाति प्रीणयितुमर्हति । उभयेऽप्यनेन प्रीणयितव्याः । तस्मात् ‘ये देवाः’ इति द्वाभ्यां जातिभ्यां दध्ना मधुमिश्रेण अवोक्षति । तेन उभयानपि देवान् यजमानः प्रीणाति । ते च प्रीताः यजमानं प्रीणयन्ति ॥
मूलम् (संयुक्तम्)
द॒ध्नैव हु॒तादᳶ॑ प्री॒णाति॒ मधु॑षाऽहु॒तादो॑
विश्वास-प्रस्तुतिः
द॒ध्नैव हु॒तादᳶ॑ प्री॒णाति॑ ।
मधु॑षा ऽहु॒तादः॑ ।
मूलम्
द॒ध्नैव हु॒तादᳶ॑ प्री॒णाति॑ ।
मधु॑षा ऽहु॒तादः॑ ।
भट्टभास्कर-टीका
4दध्नैवेत्यादि ॥ गतम् । अनङ उदात्तत्त्वाद्दद्ध्नो विभक्तिरुदात्तनिवृत्तिस्वरेणोदात्ता । मधुशब्दपर्यायः सकारान्तो मधुश्शब्दः ॥
मूलम् (संयुक्तम्)
ग्रा॒म्यव्ँवा ए॒तदन्नय्ँ॒यद्दध्या॑र॒ण्यम्मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेणा॒वोक्ष॑त्यु॒भय॒स्याव॑रुद्ध्यै
विश्वास-प्रस्तुतिः
ग्रा॒म्यव्ँ वा ए॒तदन्नय्ँ॒ यद् दध्या॑र॒ण्यम् मधु॑ ।
यद् द॒ध्ना म॑धुमि॒श्रेणा॒वोक्ष॑त्य् उ॒भय॒स्याव॑रुद्ध्यै ।
मूलम्
ग्रा॒म्यव्ँ वा ए॒तदन्नय्ँ॒ यद् दध्या॑र॒ण्यम् मधु॑ ।
यद् द॒ध्ना म॑धुमि॒श्रेणा॒वोक्ष॑त्य् उ॒भय॒स्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
5ग्राम्यं वा इत्यादि ॥ गतम् ॥ +++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम् ।)+++
मूलम् (संयुक्तम्)
ग्रुमु॒ष्टिनावो॑क्षति प्राजाप॒त्यः [20]
वै ग्रु॑मु॒ष्टिस्स॑योनि॒त्वाय॒ द्वाभ्या॒म्प्रति॑ष्ठित्या
विश्वास-प्रस्तुतिः
ग्रु॒मु॒ष्टिना ऽवो॑क्षति ।
प्रा॒जा॒प॒त्यो वै ग्रु॑मु॒ष्टिस् स॑योनि॒त्वाय॑ ।[20]
द्वाभ्या॒म् प्रति॑ष्ठित्यै ।
मूलम्
ग्रु॒मु॒ष्टिना ऽवो॑क्षति ।
प्रा॒जा॒प॒त्यो वै ग्रु॑मु॒ष्टिस् स॑योनि॒त्वाय॑ ।[20]
द्वाभ्या॒म् प्रति॑ष्ठित्यै ।
भट्टभास्कर-टीका
6ग्रुमुष्टिः दर्भमुष्टिग्रहणम् । प्रशंसाकर्मण औणादिकः इक्प्रत्ययः इत्त्वाभावश्च । प्राजापत्य इति । ग्रुमुष्टिः प्रजापतिदेवत्यः । अग्निः प्रजापतिमुखादुत्पन्नः । तस्मात्समानकरणत्वाय भवति । समानस्य सभावः । द्वाभ्यामवोक्षणं प्रतिष्ठाया एव भवति ॥
मूलम् (संयुक्तम्)
अनुपरि॒चार॒मवो॑क्ष॒त्यप॑रिवर्गमे॒वैना॑न्प्रीणाति॒
विश्वास-प्रस्तुतिः
अ॒नु॒प॒रि॒चार॒मवो॑क्षति ।
अप॑रिवर्गम् ए॒वैना॑न् प्रीणाति ।
मूलम्
अ॒नु॒प॒रि॒चार॒मवो॑क्षति ।
अप॑रिवर्गम् ए॒वैना॑न् प्रीणाति ।
भट्टभास्कर-टीका
7अनुपरिचारमिति ॥ अनुक्रमेण परितो गत्वा पुरस्ताद्दक्षिणतः पश्चादुत्तरतः पश्चादवोक्षति । आभीक्ष्ण्ये णमुल् । अपरिवर्गमिति । किञ्चिदपरिवृज्य सर्वानेव तान्प्रीणयति । वृजेश्छान्दसो घमुञ् ॥
मूलम् (संयुक्तम्)
वि वा ए॒ष प्रा॒णैᳶ प्र॒जया॑ प॒शुभि॑र्ऋध्यते॒ यो॑ऽग्निञ्चि॒न्वन्न॑धि॒क्राम॑ति प्राण॒दा अ॑पान॒दा इत्या॑ह प्रा॒णाने॒वात्मन्ध॑त्ते वर्चो॒दा व॑रिवो॒दा इत्या॑ह प्र॒जा वै वर्चᳶ॑ प॒शवो॒ वरि॑वᳶ प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्त॒
विश्वास-प्रस्तुतिः
वि वा ए॒ष प्रा॒णैᳶ प्र॒जया॑ प॒शुभि॑र्ऋध्यते॒ , यो॑ऽग्निञ् चि॒न्वन्न् अ॑धि॒क्राम॑ति ।
प्रा॒ण॒दा अ॑पान॒दा इत्या॑ह ।
प्रा॒णाने॒वात्मन्ध॑त्ते ।
व॒र्चो॒दा व॑रिवो॒दा इत्या॑ह ।
प्र॒जा वै वर्चᳶ॑ प॒शवो॒ वरि॑वः ।
प्र॒जामे॒व प॒शूना॒त्मन् ध॑त्ते ।
मूलम्
वि वा ए॒ष प्रा॒णैᳶ प्र॒जया॑ प॒शुभि॑र्ऋध्यते॒ , यो॑ऽग्निञ् चि॒न्वन्न् अ॑धि॒क्राम॑ति ।
प्रा॒ण॒दा अ॑पान॒दा इत्या॑ह ।
प्रा॒णाने॒वात्मन्ध॑त्ते ।
व॒र्चो॒दा व॑रिवो॒दा इत्या॑ह ।
प्र॒जा वै वर्चᳶ॑ प॒शवो॒ वरि॑वः ।
प्र॒जामे॒व प॒शूना॒त्मन् ध॑त्ते ।
भट्टभास्कर-टीका
8वि वा एष इत्यादि ॥ अवरोहणस्य अर्थप्राप्तस्य मन्त्रविधिः । यद्वा - अधिरोहणस्य दोषवचनेन अवरोहणाय विशिष्टमन्त्रविधिः । ‘प्राणदाः’ इत्यादिरवरोहणमन्त्रः पङ्क्तिश्चतुष्पदा । प्राणानिति । प्राणापानस्य प्रदर्शनार्थत्वात् बहुवचनम् । वर्चो बलम् । वरिवः पूजा । तद्धेतुत्वात्ताच्छब्द्यम् ॥
मूलम् (संयुक्तम्)
इन्द्रो॑ वृ॒त्रम॑ह॒न्तव्ँवृ॒त्रः [21]
ह॒तष्षो॑ड॒शभि॑र्भो॒गैर॑सिना॒त्स ए॒ताम॒ग्नयेऽनी॑कवत॒ आहु॑तिमपश्य॒त्ताम॑जुहो॒त्तस्या॒ग्निरनी॑कवा॒न्त्स्वेन॑ भाग॒धेये॑न प्री॒तष्षो॑डश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहद्वैश्वकर्म॒णेन॑ पा॒प्मनो॒ निर॑मुच्यत॒
विश्वास-प्रस्तुतिः
इन्द्रो॑ वृ॒त्रम॑हन् ।
तव्ँ वृ॒त्रो ह॒तष् षो॑ड॒शभि॑र् भो॒गैर॑सिनात् । [21]
स ए॒ताम् अ॒ग्नयेऽनी॑कवत॒ आहु॑तिमपश्यत् ।
ताम॑जुहोत् ।
तस्या॒ग्निरनी॑कवा॒न्त् स्वेन॑ भाग॒धेये॑न प्री॒तष् , षो॑डश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहत् ।
वै॒श्व॒क॒र्म॒णेन॑ पा॒प्मनो॒ निर॑मुच्यत ।
मूलम्
इन्द्रो॑ वृ॒त्रम॑हन् ।
तव्ँ वृ॒त्रो ह॒तष् षो॑ड॒शभि॑र् भो॒गैर॑सिनात् । [21]
स ए॒ताम् अ॒ग्नयेऽनी॑कवत॒ आहु॑तिमपश्यत् ।
ताम॑जुहोत् ।
तस्या॒ग्निरनी॑कवा॒न्त् स्वेन॑ भाग॒धेये॑न प्री॒तष् , षो॑डश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहत् ।
वै॒श्व॒क॒र्म॒णेन॑ पा॒प्मनो॒ निर॑मुच्यत ।
भट्टभास्कर-टीका
9इन्द्रो वृत्रमित्यादि ॥ भागैः शरीरगुणैः षोडशधा विभक्तैः इन्द्रमसिनात् अबध्नात् । षिञ् बन्धने । एतामिति । ‘अग्निस्तिग्मेन’ इति द्वाभ्यां या क्रियते । अनीकवान् सेनावान् । मुखवान्वा । षोडशधेति । षोडशधा विभक्तेन निजशरीरेण वृत्रस्य षोडशधा हि भोगानदहत् । वैश्वकर्मणेनेति । ‘य इमा विश्वाः’ इति क्रियमाणेन । पाप्मन इति । वृत्रवधनिमित्तात् ॥
मूलम् (संयुक्तम्)
यद॒ग्नयेऽनी॑कवत॒ आहु॑तिञ्जु॒होत्य॒ग्निरे॒वास्यानी॑कवा॒न्त्स्वेन॑ भाग॒धेये॑न प्री॒तᳶ पा॒प्मान॒मपि॑ दहति वैश्वकर्म॒णेन॑ पा॒प्मनो॒ निर्मु॑च्यते॒
विश्वास-प्रस्तुतिः
यद॒ग्नयेऽनी॑कवत॒ आहु॑तिञ् जु॒होत्य्
अ॒ग्निरे॒वास्यानी॑कवा॒न्त् स्वेन॑ भाग॒धेये॑न प्री॒तᳶ पा॒प्मान॒मपि॑ दहति ।
वै॒श्व॒क॒र्म॒णेन॑ पा॒प्मनो॒ निर्मु॑च्यते ।
मूलम्
यद॒ग्नयेऽनी॑कवत॒ आहु॑तिञ् जु॒होत्य्
अ॒ग्निरे॒वास्यानी॑कवा॒न्त् स्वेन॑ भाग॒धेये॑न प्री॒तᳶ पा॒प्मान॒मपि॑ दहति ।
वै॒श्व॒क॒र्म॒णेन॑ पा॒प्मनो॒ निर्मु॑च्यते ।
भट्टभास्कर-टीका
10यदित्यादि ॥ गतम् । आहवनीये होमः ॥ +++( सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम् । )+++
मूलम् (संयुक्तम्)
यङ्का॒मये॑त चि॒रम्पा॒प्मनः॑ [22]
निर्मु॑च्ये॒तेत्येकै॑क॒न्तस्य॑ जुहुयाच्चि॒रमे॒व पा॒प्मनो॒ निर्मु॑च्यते॒ यङ्का॒मये॑त ता॒जक्पा॒प्मनो॒ निर्मु॑च्ये॒तेति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुयात्ता॒जगे॒व पा॒प्मनो॒ निर्मु॑च्य॒ते
विश्वास-प्रस्तुतिः
यङ्का॒मये॑त
“चि॒रम्पा॒प्मनः॑ निर्मु॑च्येत” + इति॑ ।[22]
एकै॑क॒न् तस्य॑ जुहुयात् ।
चि॒रमे॒व पा॒प्मनो॒ निर्मु॑च्यते ।
यङ्का॒मये॑त -
“ता॒जक्पा॒प्मनो॒ निर्मु॑च्येत” + इति॑ ।
सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुयात् ।
ता॒जगे॒व पा॒प्मनो॒ निर्मु॑च्यते ।
मूलम्
यङ्का॒मये॑त
“चि॒रम्पा॒प्मनः॑ निर्मु॑च्येत” + इति॑ ।[22]
एकै॑क॒न् तस्य॑ जुहुयात् ।
चि॒रमे॒व पा॒प्मनो॒ निर्मु॑च्यते ।
यङ्का॒मये॑त -
“ता॒जक्पा॒प्मनो॒ निर्मु॑च्येत” + इति॑ ।
सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुयात् ।
ता॒जगे॒व पा॒प्मनो॒ निर्मु॑च्यते ।
भट्टभास्कर-टीका
11यमित्यादि ॥ चिरं दीर्घेण कालेन । एकैकमिति । प्रतिमन्त्रमाहुतीर्जुहुयात् । ताजक् तदानीमेव । सर्वाणीति । सर्वाणि मन्त्रवाक्यान्यनुद्रुत्य अन्ते वैकामाहुतिं जुहुयात् । अनुद्रवणं अनुक्रमेण उच्चारणम् ॥
मूलम् (संयुक्तम्)
ऽथो॒ खलु॒ नानै॒व सू॒क्ताभ्या॑ञ्जुहोति॒ नानै॒व सू॒क्तयो॑र्वी॒र्य॑न्दधा॒त्यथो॒ प्रति॑ष्ठित्यै ॥ [23]
विश्वास-प्रस्तुतिः
अथो॒ खलु॒ नानै॒व सू॒क्ताभ्या॑ञ् जुहोति ।
नानै॒व सू॒क्तयो॑र् वी॒र्य॑न् दधाति ।
अथो॒ प्रति॑ष्ठित्यै ॥ [23]
मूलम्
अथो॒ खलु॒ नानै॒व सू॒क्ताभ्या॑ञ् जुहोति ।
नानै॒व सू॒क्तयो॑र् वी॒र्य॑न् दधाति ।
अथो॒ प्रति॑ष्ठित्यै ॥ [23]
भट्टभास्कर-टीका
12अथो इत्यादि ॥ पक्षान्तरम् । नाना पृथक्पृथक् द्वेद्वे आहुती जुहोति द्वाभ्यां सूक्ताभ्याम् । ‘य इमा विश्वाः’ इत्यारभ्य ‘विश्वकर्मा ह्यननिष्ट’ इत्येकं सूक्तम् । ‘चक्षुषः पिता’ इत्यारभ्य ‘विश्वकर्मन् हविषा वर्धनेन’ इत्यपरम् । वीर्यमिति । सूक्तद्वयसम्बन्धि पृथग्भूतं वीर्यं द्विप्रकारं दधाति आत्मनि स्थापयति । अथो अपि च प्रतिष्ठित्यै द्वित्वलाभात् ॥
इति पञ्चमे चतुर्थे पञ्चमोनुवाकः ॥