मूलम् (संयुक्तम्)
अश्म॒न्नूर्ज॒मिति॒ परि॑ षिञ्चति मा॒र्जय॑त्ये॒वैन॒मथो॑ त॒र्पय॑त्ये॒व स ए॑नन्तृ॒प्तोऽक्षु॑ध्य॒न्नशो॑चन्न॒मुष्मिल्ँ॑ लो॒क उप॑ तिष्ठते॒ तृप्य॑ति प्र॒जया॑ प॒शुभि॒र्य ए॒वव्ँ वेद॒ तान्न॒ इष॒मूर्ज॑न्धत्त मरुतस्सँररा॒णा इत्या॒हान्नव्ँ॒वा ऊर्गन्न॑म्म॒रुतोऽन्न॑मे॒वाव॑ रु॒न्द्धे
विश्वास-प्रस्तुतिः
अश्म॒न्नूर्ज॒मिति॒ परि॑ षिञ्चति ।
मा॒र्जय॑त्य् ए॒वैन॑म् ।
अथो॑ त॒र्पय॑त्ये॒व ।
स ए॑नन् तृ॒प्तोऽक्षु॑ध्य॒न्न् अशो॑चन्न् अ॒मुष्मिल्ँ॑ लो॒क उप॑ तिष्ठते ।
तृप्य॑ति प्र॒जया॑ प॒शुभि॒र्य ए॒वव्ँ वेद॑ ।
तान्न॒ इष॒मूर्ज॑न् धत्त मरुतस् सँररा॒णा इत्या॑ह ।
अन्नव्ँ॒ वा ऊर्क् ।
अन्न॑म् म॒रुतः॑ ।
अन्न॑मे॒वाव॑ रुन्धे ।
मूलम्
अश्म॒न्नूर्ज॒मिति॒ परि॑ षिञ्चति ।
मा॒र्जय॑त्य् ए॒वैन॑म् ।
अथो॑ त॒र्पय॑त्ये॒व ।
स ए॑नन् तृ॒प्तोऽक्षु॑ध्य॒न्न् अशो॑चन्न् अ॒मुष्मिल्ँ॑ लो॒क उप॑ तिष्ठते ।
तृप्य॑ति प्र॒जया॑ प॒शुभि॒र्य ए॒वव्ँ वेद॑ ।
तान्न॒ इष॒मूर्ज॑न् धत्त मरुतस् सँररा॒णा इत्या॑ह ।
अन्नव्ँ॒ वा ऊर्क् ।
अन्न॑म् म॒रुतः॑ ।
अन्न॑मे॒वाव॑ रुन्धे ।
भट्टभास्कर-टीका
1अश्मन्नूर्जमिति परिषिञ्चति गरुत्मन्तं कुम्भेन ॥ अथो अपि च तर्पयति सोप्यग्निः क्षुच्छोकरहितः अमुष्मिन् लोक उपतिष्ठते यजमानं यत्रार्थोऽग्नेः । अथ तादृशाग्निमत्तया यजमानोपि क्षुच्छोकरहितो भविष्यति । अनुक्तमपि गम्यते । तृप्यतीत्यादि । विदुषां फलं । य एवं वेद सोपि प्रजया च पशुभिश्च तृप्यति । किं पुनर्य एवमनुतिष्ठतीत्यर्थात् गम्यते । एवं - मरुतः । तद्धेतुत्वात्ताच्छब्द्यम् ॥
मूलम् (संयुक्तम्)
ऽश्मँ॑स्ते॒ क्षुद॒मुन्ते॒ शुक् [14]
ऋ॒च्छ॒तु॒ यन्द्वि॒ष्म इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य क्षु॒धा च॑ शु॒चा चा॑र्पयति॒
विश्वास-प्रस्तुतिः
अश्मँ॑स्ते॒ क्षुत् ।
अ॒मुन् ते॒ शुगृ॑च्छतु यन्द्वि॒ष्म इत्या॑ह । [14]
यमे॒व द्वेष्टि॒ तम॑स्य क्षु॒धा च॑ शु॒चा चा॑र्पयति ।
मूलम्
अश्मँ॑स्ते॒ क्षुत् ।
अ॒मुन् ते॒ शुगृ॑च्छतु यन्द्वि॒ष्म इत्या॑ह । [14]
यमे॒व द्वेष्टि॒ तम॑स्य क्षु॒धा च॑ शु॒चा चा॑र्पयति ।
भट्टभास्कर-टीका
2अश्मंस्त इति । परिषेककुम्भमश्मानं संसृष्टं सादयति । यमेवेत्यादि । द्वेष्यमस्मिन् क्षुच्छोकाभ्यां योजयति ॥
मूलम् (संयुक्तम्)
त्रिᳶ प॑रिषि॒ञ्चन्पर्ये॑ति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुचँ॑ शमयति॒ त्रिᳶ पुन॒ᳶ पर्ये॑ति॒ षट्त्सम्प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वास्य॒ शुचँ॑ शमयत्य्
विश्वास-प्रस्तुतिः
त्रिᳶ प॑रिषि॒ञ्चन् पर्ये॑ति ।
त्रि॒वृद्वा अ॒ग्निः ।
यावा॑ने॒वाग्निस्तस्य॒ शुचँ॑ शमयति ।
त्रिᳶ पुन॒ᳶ पर्ये॑ति ।
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑रे॒वास्य॒ शुचँ॑ शमयति ।
मूलम्
त्रिᳶ प॑रिषि॒ञ्चन् पर्ये॑ति ।
त्रि॒वृद्वा अ॒ग्निः ।
यावा॑ने॒वाग्निस्तस्य॒ शुचँ॑ शमयति ।
त्रिᳶ पुन॒ᳶ पर्ये॑ति ।
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑रे॒वास्य॒ शुचँ॑ शमयति ।
भट्टभास्कर-टीका
3त्रिरिति । प्रदक्षिणं परिषिञ्चति परितो गच्छति । अथापरिषिञ्चन् त्रिः पुनः पर्येति । गतमन्यत् ॥
मूलम् (संयुक्तम्)
अ॒पाव्ँवा ए॒तत्पुष्पय्ँ॒यद्वे॑त॒सो॑ऽपाम् [15]
शरोऽव॑का वेतसशा॒खया॒ चाव॑काभिश्च॒ वि क॑र्ष॒त्यापो॒ वै शा॒न्ताश्शा॒न्ताभि॑रे॒वास्य॒ शुचँ॑ शमयति॒
विश्वास-प्रस्तुतिः
अ॒पाव्ँ वा ए॒तत्पुष्पय्ँ॒ यद् वे॑त॒सः॑ ।
अ॒पाँ शरोऽव॑काः ।[15]
वे॒त॒स॒शा॒खया॑ चाव॑काभिश्च॒ वि क॑र्षति ।
आपो॒ वै शा॒न्ताः ।
शा॒न्ताभि॑रे॒वास्य॒ शुचँ॑ शमयति ।
मूलम्
अ॒पाव्ँ वा ए॒तत्पुष्पय्ँ॒ यद् वे॑त॒सः॑ ।
अ॒पाँ शरोऽव॑काः ।[15]
वे॒त॒स॒शा॒खया॑ चाव॑काभिश्च॒ वि क॑र्षति ।
आपो॒ वै शा॒न्ताः ।
शा॒न्ताभि॑रे॒वास्य॒ शुचँ॑ शमयति ।
भट्टभास्कर-टीका
4अपां वा एतदिति । वेतसोपां षुष्पस्थानीयः, ततः प्रादुर्भूतत्वात् । अवका च अपां शरस्थानीया । शरस्सारपरिणामः अवका शैवालम् । आपो वा इति । अभिजनस्तुत्या वेतसावका एव स्तूयन्ते शान्तिहेतुत्वाज्जाताः ॥
मूलम् (संयुक्तम्)
यो वा अ॒ग्निञ्चि॒तम्प्र॑थ॒मᳶ प॒शुर॑धि॒क्राम॑तीश्व॒रो वै तँ शु॒चा प्र॒दहो म॒ण्डूके॑न॒ वि क॑र्षत्ये॒ष वै प॑शू॒नाम॑नुपजीवनी॒यो न वा ए॒ष ग्रा॒म्येषु॑ प॒शुषु॑ हि॒तो नार॒ण्येषु॒ तमे॒व शु॒चार्प॑यत्य्
विश्वास-प्रस्तुतिः
यो वा अ॒ग्निञ् चि॒तम् प्र॑थ॒मᳶ प॒शुर॑धि॒क्राम॑ति ।
ई॒श्व॒रो वै तँ शु॒चा प्र॒दहः॑ ।
म॒ण्डूके॑न॒ वि क॑र्षति ।
ए॒ष वै प॑शू॒नाम् अ॑नुपजीवनी॒यः ।
न वा ए॒ष ग्रा॒म्येषु॑ प॒शुषु॑ हि॒तो नार॒ण्येषु॑ ।
तमे॒व शु॒चाऽर्प॑यति।
मूलम्
यो वा अ॒ग्निञ् चि॒तम् प्र॑थ॒मᳶ प॒शुर॑धि॒क्राम॑ति ।
ई॒श्व॒रो वै तँ शु॒चा प्र॒दहः॑ ।
म॒ण्डूके॑न॒ वि क॑र्षति ।
ए॒ष वै प॑शू॒नाम् अ॑नुपजीवनी॒यः ।
न वा ए॒ष ग्रा॒म्येषु॑ प॒शुषु॑ हि॒तो नार॒ण्येषु॑ ।
तमे॒व शु॒चाऽर्प॑यति।
भट्टभास्कर-टीका
5यो वा अग्निमिति । यः पशुः अग्निं चितं प्रथममधिक्रामति आरोहति तं शुचा शोकेन प्रकर्षेण दग्धुमीश्वरोग्निः । ‘ईश्वरे तोसुन्कसुनौ’ इति तोसुन् । मण्डूकेनेति । ननु तस्यापि शोकः परिहर्तव्य एवेत्याह - न वा एष इति । पशूनां मध्ये एषोनुपजीवनीयः कथंचिदपि मांसादिना वहनादिना वा । अथोच्येत धातुमूलविशेषवदारोग्यहेतुस्स्यात्, तदपि नास्तीत्याह - न वा एष इति । न ह्ययं ग्राम्येषु आरण्येषु वा पशुषु उपकारकतया हितः शास्त्रेण विहितः । यद्वा - हितयोगे चतुर्थी व्यत्ययेन बाध्यते । उप कारको न भवति । तमेवेति । गृह्यतामयं शोकेन पापीयानिति भावः ॥
मूलम् (संयुक्तम्)
अष्टा॒भिर्वि क॑र्षति [16]
अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो॑ऽग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुचँ॑ शमयति
विश्वास-प्रस्तुतिः
अ॒ष्टा॒भिर्वि क॑र्षति । [16]
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रो॑ ऽग्निः ।
यावा॑ने॒वाग्निस् तस्य॒ शुचँ॑ शमयति ।
मूलम्
अ॒ष्टा॒भिर्वि क॑र्षति । [16]
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रो॑ ऽग्निः ।
यावा॑ने॒वाग्निस् तस्य॒ शुचँ॑ शमयति ।
भट्टभास्कर-टीका
6अष्टाभिरिति ॥ ‘समुद्रस्य त्वाऽवाकया’ इत्यादिभिः । गायत्रोग्निरिति । सहोत्पन्नत्वात् ॥
मूलम् (संयुक्तम्)
पाव॒कव॑तीभि॒रन्नव्ँ॒ वै पा॑व॒कोऽन्ने॑नै॒वास्य॒ शुचँ॑ शमयति
विश्वास-प्रस्तुतिः
पा॒व॒कव॑तीभिः ।
अन्नव्ँ॒ वै पा॑व॒कः ।
अन्ने॑नै॒वास्य॒ शुचँ॑ शमयति ।
मूलम्
पा॒व॒कव॑तीभिः ।
अन्नव्ँ॒ वै पा॑व॒कः ।
अन्ने॑नै॒वास्य॒ शुचँ॑ शमयति ।
भट्टभास्कर-टीका
7पावकवतीभिरिति । पावकशब्दवतीभिः । अन्नं वा इति । तद्धेतुत्वात्ताच्छब्द्यम् ॥
मूलम् (संयुक्तम्)
मृ॒त्युर्वा ए॒ष यद॒ग्निर्ब्रह्म॑ण ए॒तद्रू॒पय्ँयत्कृ॑ष्णाजि॒नङ्कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ ब्रह्म॑णै॒व मृ॒त्योर॒न्तर्ध॑त्ते॒ऽन्तर्मृ॒त्योर्ध॑त्ते॒
विश्वास-प्रस्तुतिः
मृ॒त्युर्वा ए॒ष यद॒ग्निः ।
ब्रह्म॑ण ए॒तद् रू॒पय्ँ , यत् कृ॑ष्णाजि॒नम् ।
कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते ।
ब्रह्म॑णै॒व मृ॒त्योर् अ॒न्तर्ध॑त्ते ।
अ॒न्तर्मृ॒त्योर्ध॑त्ते ।
मूलम्
मृ॒त्युर्वा ए॒ष यद॒ग्निः ।
ब्रह्म॑ण ए॒तद् रू॒पय्ँ , यत् कृ॑ष्णाजि॒नम् ।
कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते ।
ब्रह्म॑णै॒व मृ॒त्योर् अ॒न्तर्ध॑त्ते ।
अ॒न्तर्मृ॒त्योर्ध॑त्ते ।
भट्टभास्कर-टीका
8मृत्युर्वा इति । दाहेन नाशकत्वात् वदान्तादीनां [वृन्तादीनां] क्षयहेतुत्वात् वा । ब्रह्मण इति । ब्रह्मणः कर्मणो रूपमिदं कृष्णाजिनं प्रधानसाधनत्वात् ब्राह्मणस्यैव तद्रूपं । कार्ष्णी । ‘अप्राणि रजतादि’ इत्यञ्, अञि ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । कृष्णो मृगविशेषः । उपमुञ्चते पादयोर्बध्नाति । ब्रह्मणैव मृत्योरन्तर्धत्ते । ब्रह्मबलेन मृत्योरदर्शनेन च वर्तते ॥
मूलम् (संयुक्तम्)
ऽन्तर॒न्नाद्या॒दित्या॑हुर॒न्यामु॑पमु॒ञ्चते॒ऽन्यान्नान्तः [17]
ए॒व मृ॒त्योर्ध॒त्तेऽवा॒न्नाद्यँ॑ रुन्द्धे॒
विश्वास-प्रस्तुतिः
अ॒न्तर॒न्नाद्या॒दित्या॑हुः ।
अ॒न्याम् उ॑पमु॒ञ्चते॑ ।
अ॒न्यान्नान्त ए॒व मृ॒त्योर्ध॑त्ते ।[17]
अवा॒न्नाद्यँ॑ रुन्धे ।
मूलम्
अ॒न्तर॒न्नाद्या॒दित्या॑हुः ।
अ॒न्याम् उ॑पमु॒ञ्चते॑ ।
अ॒न्यान्नान्त ए॒व मृ॒त्योर्ध॑त्ते ।[17]
अवा॒न्नाद्यँ॑ रुन्धे ।
भट्टभास्कर-टीका
9अथैनदुभयोरुपमोचनं दूषयति - अन्तरिति । अन्तर्मृत्योर्धत्ते अविशेषादित्याहुः । अन्तरन्नाद्यादिति । धत्त इत्येव । तत्र का प्रतिपत्तिरित्याह - एकामुपमुञ्चते एकां न । ‘एकान्याभ्याम्’ इति आख्यातं न निहन्यते । अन्तरेवेति । उपमुक्तायां मृत्योरन्तर्धन्ते । अनुपमुक्तायामन्नाद्यमवरुन्धे ॥
मूलम् (संयुक्तम्)
नम॑स्ते॒ हर॑से शो॒चिष॒ इत्या॑ह नम॒स्कृत्य॒ हि वसी॑याँसमुप॒चर॑न्त्य्
विश्वास-प्रस्तुतिः
नम॑स्ते॒ हर॑से शो॒चिष॒ इत्या॑ह ।
न॒म॒स्कृत्य॒ हि वसी॑याँसमुप॒चर॑न्ति ।
मूलम्
नम॑स्ते॒ हर॑से शो॒चिष॒ इत्या॑ह ।
न॒म॒स्कृत्य॒ हि वसी॑याँसमुप॒चर॑न्ति ।
भट्टभास्कर-टीका
11अन्यं त इति ॥ द्वेष्यमस्याग्निः शोकेन तापयति । पावक इत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
अ॒न्यन्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॒ इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य शु॒चार्प॑यति पाव॒को अ॒स्मभ्यँ॑ शि॒वो भ॒वेत्या॒हान्नव्ँ॒ वै पा॑व॒कोऽन्न॑मे॒वाव॑ रुन्द्धे॒ द्वाभ्या॒मधि॑ क्रामति॒ प्रति॑ष्ठित्या अप॒स्य॑वतीभ्याँ॒ शान्त्यै॑ ॥ [18]
विश्वास-प्रस्तुतिः
“अ॒न्यन्ते॑ अ॒स्मत् त॑पन्तु हे॒तय॒” इत्या॑ह ।
यमे॒व द्वेष्टि॒ तम॑स्य शु॒चार्प॑यति ।
“पा॒व॒को अ॒स्मभ्यँ॑ शि॒वो भ॑व”+ इत्या॑ह ।
अन्नव्ँ॒ वै पा॑व॒कः ।
अन्न॑मे॒वाव॑ रुन्धे ।
द्वाभ्या॒मधि॑ क्रामति॒ प्रति॑ष्ठित्यै ।
अ॒प॒स्य॑वतीभ्याँ॒ शान्त्यै॑ ॥ [18]
मूलम्
“अ॒न्यन्ते॑ अ॒स्मत् त॑पन्तु हे॒तय॒” इत्या॑ह ।
यमे॒व द्वेष्टि॒ तम॑स्य शु॒चार्प॑यति ।
“पा॒व॒को अ॒स्मभ्यँ॑ शि॒वो भ॑व”+ इत्या॑ह ।
अन्नव्ँ॒ वै पा॑व॒कः ।
अन्न॑मे॒वाव॑ रुन्धे ।
द्वाभ्या॒मधि॑ क्रामति॒ प्रति॑ष्ठित्यै ।
अ॒प॒स्य॑वतीभ्याँ॒ शान्त्यै॑ ॥ [18]
भट्टभास्कर-टीका
12अपस्यवतीभ्यामिति ॥ अप्शब्दवतीभ्यां एकेन अप्शब्देन द्वे अपि तद्वत्यौ । यद्वा - साहचर्यात् द्वितीयाऽपि अप्शब्दवती छत्रिवत् । अप्शब्दात् ‘भव्यगेय’ इत्यादिना स्वार्थिको यत्, तत्सन्नियोगेनासुगागमो निपात्यः ॥
इति पञ्चमे चतुर्थे चतुर्थोनुवाकः ॥