मूलम् (संयुक्तम्)
रु॒द्रो वा ए॒ष यद॒ग्निस्स ए॒तर्हि॑ जा॒तो यर्हि॒ सर्व॑श्चि॒तस्स यथा॑ व॒त्सो जा॒तस्स्तन॑म्प्रे॒प्सत्ये॒वव्ँवा ए॒ष ए॒तर्हि॑ भाग॒धेय॒म्प्रेप्स॑ति॒ तस्मै॒ यदाहु॑ति॒न्न जु॑हु॒याद॑ध्व॒र्युञ्च॒ यज॑मानञ्च ध्यायेच्छतरु॒द्रीय॑ञ्जुहोति भाग॒धेये॑नै॒वैनँ॑ शमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो॒
विश्वास-प्रस्तुतिः
रु॒द्रो वा ए॒ष यद॒ग्निः ।
स ए॒तर्हि॑ जा॒तो यर्हि॒ सर्व॑श्चि॒तः ।
स यथा॑ व॒त्सो जा॒तस् स्तन॑म् प्रे॒प्सत्ये॒वव्ँ वा ए॒ष ए॒तर्हि॑ भाग॒धेय॒म् प्रेप्स॑ति ।
तस्मै॒ यदाहु॑ति॒न् न जु॑हु॒याद् अ॑ध्व॒र्युञ्च॒ यज॑मानञ्च ध्यायेत् ।
श॒त॒रु॒द्रीय॑ञ् जुहोति ।
भा॒ग॒धे॒ये॑नै॒वैनँ॑ शमयति ।
नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानः ।
मूलम्
रु॒द्रो वा ए॒ष यद॒ग्निः ।
स ए॒तर्हि॑ जा॒तो यर्हि॒ सर्व॑श्चि॒तः ।
स यथा॑ व॒त्सो जा॒तस् स्तन॑म् प्रे॒प्सत्ये॒वव्ँ वा ए॒ष ए॒तर्हि॑ भाग॒धेय॒म् प्रेप्स॑ति ।
तस्मै॒ यदाहु॑ति॒न् न जु॑हु॒याद् अ॑ध्व॒र्युञ्च॒ यज॑मानञ्च ध्यायेत् ।
श॒त॒रु॒द्रीय॑ञ् जुहोति ।
भा॒ग॒धे॒ये॑नै॒वैनँ॑ शमयति ।
नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानः ।
भट्टभास्कर-टीका
1रुद्रो वा एष इत्यादि ॥ शतरुद्रीयहोमविधिः । रुद्र एव स्वयमेषोग्निः तस्य तनुत्वात् । स रुद्रः एतस्मिन्काले जातः प्रादुर्भूतो भवति यदा सर्वोग्निश्चितो भवति । स इदानीं सन्निधत्ते । सन्निहितश्च स एष एतर्हि इदानीमेव । ‘एतेतौ रथोः’ इति एतादेशः । भागधेयं प्रेप्सति प्राप्तुमिच्छति यथा वत्सो जातो जातमात्र एव स्तनं प्रेप्सति । वत्सदृष्टान्तो विळम्बना । सर्वत्र अनद्यतनेर्हिः । तस्मै यदाहुतिमिदानीमेव जुहुयात् अध्वर्युं च यजमानं च ध्यायेत् भक्षणीयत्वेन । तस्माच्छतरुद्रीयं जुहोति रुद्रायेति । अन्य आहुः - ‘रुद्रो वा एष यत्’ इत्यग्नेः रुद्रत्वेन स्तुतिः । स तादृशोग्निरेतस्मिन् काले जात इति । स यथेत्याद्यग्निविषये । तस्माद्रुद्रात्मने शतरुद्रीयं जुहोति । नानास्वभावा रुद्राः शतरुद्रा देवस्येच्छातनवो देवता अस्येति शतरुदीयम् । ‘शतरुद्राच्छ च’ इति छः । ‘नमस्ते रुद्र मन्यवे’ इत्यारभ्य एकादशानुवाकाः । तत्र प्रथममनुवाकं निगद्य द्वितीयं तृतीयं चतुर्थस्य यत्राभिजानाति ‘नमः क्षत्तृभ्यः’ इति तत्स्वाहाकरोति । ततस्सङ्ग्रहीतृभ्यः प्रतिपद्य शिष्टमनुवाकस्य निगद्य पञ्चमं षष्ठं सप्तमस्य यत्राभिजानाति ‘नमो वर्ष्याय च’ इति तत्स्वाहाकरोति । यथा ‘वर्ष्याय च’ इति प्रतिपद्य शिष्टमनुवाकस्य निगद्य अष्टमं नवमं दशममेकादशस्य च यत्राभिजानाति ‘य एतावन्तश्च’ इति तत्स्वाहाकरोति । एवं तिस्र आहुतयः । अथ ‘नमो रुद्रेब्यो ये पृथिव्यां ये अन्तरिक्षे ये दिवि’ इति तिस्र उत्तरा आहुतयः । एवमेतेन शतरुद्रीयहोमेन स्वयं देवः शमितो भवति आत्मीयभागलाभात् । ततोध्वर्युर्यजमानश्च आर्तिं न गच्छतः ॥
मूलम् (संयुक्तम्)
यद्ग्रा॒म्याणा॑म्पशू॒नाम् [9]
पय॑सा जुहु॒याद्ग्रा॒म्यान्प॒शूञ्छु॒चार्प॑ये॒द्यदा॑र॒ण्याना॑मार॒ण्याञ्ज॑र्तिलयवा॒ग्वा॑ वा जुहु॒याद्ग॑वीधुकयवा॒ग्वा॑ वा॒ न ग्रा॒म्यान्प॒शून्हि॒नस्ति॒ नार॒ण्यानथो॒ खल्वा॑हु॒रना॑हुति॒र्वै ज॒र्तिला॑श्च ग॒वीधु॑का॒श्चेत्य
विश्वास-प्रस्तुतिः
यद् रा॒म्याणा॑म् पशू॒नाम् पय॑सा जुहु॒याद् , ग्रा॒म्यान् प॒शूञ् छु॒चाऽर्प॑येत् ।[9]
यदा॑र॒ण्याना॑मार॒ण्यान् ।
ज॒र्ति॒ल॒य॒वा॒ग्वा॑ वा जुहु॒याद् ग॑वीधुकयवा॒ग्वा॑ वा ।
न ग्रा॒म्यान्प॒शून् हि॒नस्ति॒ नार॒ण्यान् ।
अथो॒ खल्वा॑हु॒र् - “अना॑हुति॒र्वै ज॒र्तिला॑श्च ग॒वीधु॑काश्च”+इति॑ ।
मूलम्
यद् रा॒म्याणा॑म् पशू॒नाम् पय॑सा जुहु॒याद् , ग्रा॒म्यान् प॒शूञ् छु॒चाऽर्प॑येत् ।[9]
यदा॑र॒ण्याना॑मार॒ण्यान् ।
ज॒र्ति॒ल॒य॒वा॒ग्वा॑ वा जुहु॒याद् ग॑वीधुकयवा॒ग्वा॑ वा ।
न ग्रा॒म्यान्प॒शून् हि॒नस्ति॒ नार॒ण्यान् ।
अथो॒ खल्वा॑हु॒र् - “अना॑हुति॒र्वै ज॒र्तिला॑श्च ग॒वीधु॑काश्च”+इति॑ ।
भट्टभास्कर-टीका
2यदित्यादि ॥ ग्राम्याः पशवः उक्ताः गवादयः आरण्याश्च सिंहादयः । यदारण्यानामिति । पशूनां पयसा जुहुयादित्येव । आरण्यानिति । पशूञ्छुचा अर्पयेदित्येव च । जर्तिलाः कृष्णतिलाः गवीधुकाः तृणतण्डुला नाम । अनाहुतिरिति । तत्सादृश्यात् ताच्च्छब्द्यम् । अनाहुतिसादृश्यं च अजक्षीरापेक्षया निकृष्टत्वात् ॥
मूलम् (संयुक्तम्)
अ॑जक्षी॒रेण॑ जुहोत्याग्ने॒यी वा ए॒षा यद॒जाहु॑त्यै॒व जु॑होति॒ न ग्रा॒म्यान्प॒शून्हि॒नस्ति॒ नार॒ण्यान्
विश्वास-प्रस्तुतिः
अ॒ज॒क्षी॒रेण॑ जुहोति ।
आ॒ग्ने॒यी॒ वा ए॒षा यद॒जा ।
आहु॑त्यै॒व जु॑होति ।
न ग्रा॒म्यान् प॒शून् हि॒नस्ति॒ नार॒ण्यान् ।
मूलम्
अ॒ज॒क्षी॒रेण॑ जुहोति ।
आ॒ग्ने॒यी॒ वा ए॒षा यद॒जा ।
आहु॑त्यै॒व जु॑होति ।
न ग्रा॒म्यान् प॒शून् हि॒नस्ति॒ नार॒ण्यान् ।
भट्टभास्कर-टीका
3अजक्षीरेणेति ॥ ‘ङ्यापोस्संज्ञाछन्दसोः’ इति ह्रस्वत्वम् । आग्नेयीति । अग्निना सहोत्पन्नोजः । ‘सर्वत्राग्निकलिभ्याम्’ इति ढक् । आहुत्यैवेति । आहुतियोग्यद्रव्यमाहुतिः । कर्मणि क्तिन् । योग्यत्वं च तस्य आग्नेयत्वात् । तादृशेन द्रव्येण होमश्च कृतो भवति । ग्राम्यारण्यपशुहिंसा न कृता भवाति ॥
मूलम् (संयुक्तम्)
अङ्गि॑रसस्सुव॒र्गल्ँ लो॒कय्ँयन्तः॑ [10]
अ॒जाया॑ङ्घ॒र्मम्प्रासि॑ञ्च॒न्त्सा शोच॑न्ती प॒र्णम्परा॑जिहीत॒ सो३॒॑ ऽर्को॑ऽभव॒त्तद॒र्कस्या॑र्क॒त्वम॑र्कप॒र्णेन॑ जुहोति सयोनि॒त्वाय
विश्वास-प्रस्तुतिः
अङ्गि॑रसस् सुव॒र्गल्ँ लो॒कय्ँ यन्तो॒ऽजाया॑ङ् घ॒र्मम् प्रासि॑ञ्चन् ।[10]
सा शोच॑न्ती प॒र्णम् परा॑ऽजिहीत ।
सो३॒॑ ऽर्को॑ऽभवत् ।
तद॒र्कस्या॑र्क॒त्वम् ।
अ॒र्क॒प॒र्णेन॑ जुहोति । स॒यो॒नित्वाय॑ ।
मूलम्
अङ्गि॑रसस् सुव॒र्गल्ँ लो॒कय्ँ यन्तो॒ऽजाया॑ङ् घ॒र्मम् प्रासि॑ञ्चन् ।[10]
सा शोच॑न्ती प॒र्णम् परा॑ऽजिहीत ।
सो३॒॑ ऽर्को॑ऽभवत् ।
तद॒र्कस्या॑र्क॒त्वम् ।
अ॒र्क॒प॒र्णेन॑ जुहोति । स॒यो॒नित्वाय॑ ।
भट्टभास्कर-टीका
4अङ्गिरस इत्यादि ॥ घर्मं प्रवर्ग्यं अजायां प्रासिञ्चन् । सा शोचन्ती तप्यमाना पर्णं पापरोगं पराजिहीत त्यक्तवती । सोर्कोऽभवत् । अर्कत्वमिति । अर्चनीयः प्रशस्तोग्निः । कर्मणि घञि कुत्वम् । तस्मादर्कपर्णेन जुहोतीति विधिः । सयोनित्वाय क्षीरपर्णयोरजाग्नियोनित्वात् ॥
मूलम् (संयुक्तम्)
उद॒ङ्तिष्ठ॑ञ्जुहोत्ये॒षा वै रु॒द्रस्य॒ दिक्स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते चर॒माया॒मिष्ट॑कायाञ्जुहोत्यन्त॒त ए॒व रु॒द्रन्नि॒रव॑दयते
विश्वास-प्रस्तुतिः
उद॒ङ्तिष्ठ॑ञ् जुहोति ।
ए॒षा वै रु॒द्रस्य॒ दिक् ।
स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते ।
च॒र॒माया॒मिष्ट॑कायाञ् जुहोति ।
अ॒न्त॒त ए॒व रु॒द्रन् नि॒रव॑दयते ।
मूलम्
उद॒ङ्तिष्ठ॑ञ् जुहोति ।
ए॒षा वै रु॒द्रस्य॒ दिक् ।
स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते ।
च॒र॒माया॒मिष्ट॑कायाञ् जुहोति ।
अ॒न्त॒त ए॒व रु॒द्रन् नि॒रव॑दयते ।
भट्टभास्कर-टीका
5उदङिति ॥ ‘अनिगन्तोञ्चतौ’ इति गतेः प्रकृतिस्वरत्वम् । स्वायामेवेति । स्वस्यामेव दिशि निष्कृष्य पृथक्त्वेन रुद्रं यजते यागदानादिषु । चरमायामिति । उत्तरपक्षे पश्चिमोत्तरकोणायत्ये ष्टकायाः । अन्तत इति । सर्वान्ते निष्कृष्य स्वातन्त्र्येण यजते ॥
मूलम् (संयुक्तम्)
त्रेधाविभ॒क्तञ्जु॑होति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्त्स॒माव॑द्वीर्यान्करो॒ती
विश्वास-प्रस्तुतिः
त्रे॒धा॒वि॒भ॒क्तञ् जु॑होति ।
त्रय॑ इ॒मे लो॒काः ।
इ॒माने॒व लो॒कान्त् स॒माव॑द्वीर्यान् करोति ।
मूलम्
त्रे॒धा॒वि॒भ॒क्तञ् जु॑होति ।
त्रय॑ इ॒मे लो॒काः ।
इ॒माने॒व लो॒कान्त् स॒माव॑द्वीर्यान् करोति ।
भट्टभास्कर-टीका
6त्रेधेति ॥ एकत्रिभागः षण्णवतिः मन्त्राः । तद्यथा - प्रथमोनुवाकः पञ्चदश । द्वितीयः षड्विंशतिः । तृतीयश्चतुस्त्रिंशत् । चतुर्थस्य ‘नमः क्षत्तृभ्य’ इतियावत् एकविंशतिरिति षण्णवतिः । अथ चतुर्थे शेषे त्रयोदश । पञ्चमषष्ठौ षष्ठिः । सप्तमस्य च यावान् ‘नमो वर्ष्याय च’ इति त्रयो विंशतिरिति षण्णवतिः । अथ - सप्तमस्य शेषे नव । अष्टमो द्वात्रिंशत् । नवमः त्रयस्त्रिंशत् । दशमो वा द्वादश । अन्त्यस्य च ‘नमो रुद्रेभ्यः’ इत्यतः प्राक् दश । एवं षण्णवतिः । समावद्वीर्यान् समवीर्यान् । ‘समादावतुप्’ इति स्वार्थे वतुप् ॥
मूलम् (संयुक्तम्)
इय॒त्यग्रे॑ जुहोति [11]
अथेय॒त्यथेय॑ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॑श्शमयति
विश्वास-प्रस्तुतिः
इय॒त्यग्रे॑ जुहोति । [11]
अथेय॒त्यथेय॑ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॑श् शमयति ।
मूलम्
इय॒त्यग्रे॑ जुहोति । [11]
अथेय॒त्यथेय॑ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॑श् शमयति ।
भट्टभास्कर-टीका
7इयतीति ॥ जान्वादिप्रमाणं विशेषप्रतिपादनार्थमिदम् । प्रमाणसामान्यमिदं प्रमापरिमाणयोर्भेदस्य अविवक्षितत्वात् । परिमाणप्रत्ययान्तेन प्रमाविशेषाणां सामान्याभिधानम् । ‘किमिदम्भ्यां वो घः’ इति घः, ‘यस्य’ इति लोपे इकारनिवृत्तिस्वरेण इकार उदात्तः । अथ शब्दक्रममाह - लोकत्रयप्रसिद्ध्यर्थं जानुदघ्ने आकाशप्रदेशे धारयन् प्रथमामाहुतिं जुहोति । अथ नाभिदघ्ने धारयन् द्वितीयाम् । अथ ग्रीवदघ्ने धारयन् तृतीयामिति । एभ्य इति । लोकत्रयार्थम् । शमयति धनपरमध्वर्युः यजमानार्थमेवेति ॥
मूलम् (संयुक्तम्)
ति॒स्र उत्त॑रा॒ आहु॑तीर्जुहोति॒ षट्त्सम्प॑द्य॒न्ते षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनँ॑ शमयति॒
विश्वास-प्रस्तुतिः
ति॒स्र उत्त॑रा॒ आहु॑तीर्जुहोति ।
षट्त्सम्प॑द्य॒न्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑र् ए॒वैनँ॑ शमयति ।
मूलम्
ति॒स्र उत्त॑रा॒ आहु॑तीर्जुहोति ।
षट्त्सम्प॑द्य॒न्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑र् ए॒वैनँ॑ शमयति ।
भट्टभास्कर-टीका
8तिस्र इति ॥ ‘नमो रुद्रेभ्यः’ इत्यादिभिः समासेन । षडित्यादि गतम् ॥
मूलम् (संयुक्तम्)
यद॑नुपरि॒क्राम॑ञ्जुहु॒याद॑न्तरवचा॒रिणँ॑ रु॒द्रङ्कु॑र्या॒दथो॒ खल्वा॑हु॒ᳵ कस्याव्ँ॒वाह॑ दि॒शि रु॒द्रᳵ कस्याव्ँ॒वेत्य॑नुपरि॒क्राम॑मे॒व हो॑त॒व्य॑मप॑रिवर्गमे॒वैनँ॑ शमयति [12]
विश्वास-प्रस्तुतिः
यद॑नुपरि॒क्राम॑ञ् जुहु॒याद॑न्तरवचा॒रिणँ॑ रु॒द्रङ् कु॑र्यात् ।
अथो॒ खल्वा॑हु॒ᳶ कस्याव्ँ॒ वाह॑ दि॒शि रु॒द्रᳵ कस्याव्ँ॒ वेति॑ ।
अ॒नु॒प॒रि॒क्राम॑मे॒व हो॑त॒व्य॑म् ।
अप॑रिवर्गम् ए॒वैनँ॑ शमयति [12]
मूलम्
यद॑नुपरि॒क्राम॑ञ् जुहु॒याद॑न्तरवचा॒रिणँ॑ रु॒द्रङ् कु॑र्यात् ।
अथो॒ खल्वा॑हु॒ᳶ कस्याव्ँ॒ वाह॑ दि॒शि रु॒द्रᳵ कस्याव्ँ॒ वेति॑ ।
अ॒नु॒प॒रि॒क्राम॑मे॒व हो॑त॒व्य॑म् ।
अप॑रिवर्गम् ए॒वैनँ॑ शमयति [12]
भट्टभास्कर-टीका
9यादित्यादि ॥ उक्तमेकर्त्र तिष्ठता होतव्यमिति । इदानीं पक्षान्तरं दूपयित्वा स्थापयति तत् । अनुक्रमेण दिक्षु परिक्रम्य तत्र तत्र गतं रुद्रं शमयितुं जुहुयात् । एवं क्रियमाणे रुद्रो’ऽन्तःप्रविश्यापचारमनुधावनार्थं अवतु । सार्वत्रिकेणानेन शमनस्य सार्वत्रिकत्वं प्रतिपाद्यत इति । आभीक्ष्ण्ये णमुल् । अपरिवर्गमिति । छान्दसो घमुञ् ॥
मूलम् (संयुक्तम्)
ए॒ता वै दे॒वताः॑ सुव॒र्ग्या॑ या उ॑त्त॒मास्ता यज॑मानव्ँवाचयति॒ ताभि॑रे॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयति॒
विश्वास-प्रस्तुतिः
ए॒ता वै दे॒वताः॑ सुव॒र्ग्या॑ या उ॑त्त॒माः ।
ता यज॑मानव्ँ वाचयति ।
ताभि॑रे॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ् ग॑मयति ।
मूलम्
ए॒ता वै दे॒वताः॑ सुव॒र्ग्या॑ या उ॑त्त॒माः ।
ता यज॑मानव्ँ वाचयति ।
ताभि॑रे॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ् ग॑मयति ।
भट्टभास्कर-टीका
10एता वा इति ॥ एता उत्तमा नमो ‘रुद्रेभ्यः’ इति । आद्युदात्तत्वम् । मन्त्रप्रतिपाद्या देवताः ता एताः स्वर्गावाप्तिनिमित्तभूताः । ‘गोद्व्यचः’ इति यत् । ता इति । गतम् ॥
मूलम् (संयुक्तम्)
यन्द्वि॒ष्यात्तस्य॑ सञ्च॒रे प॑शू॒नान्न्य॑स्ये॒द्यᳶ प्र॑थ॒मᳶ प॒शुर॑भि॒तिष्ठ॑ति॒ स आर्ति॒मार्च्छ॑ति ॥ [13]
विश्वास-प्रस्तुतिः
यन्द्वि॒ष्यात् तस्य॑ सञ्च॒रे प॑शू॒नान्न्य॑स्येत् ।
यᳶ प्र॑थ॒मᳶ प॒शुर॑भि॒तिष्ठ॑ति॒ स आर्ति॒मार्च्छ॑ति ॥ [13]
मूलम्
यन्द्वि॒ष्यात् तस्य॑ सञ्च॒रे प॑शू॒नान्न्य॑स्येत् ।
यᳶ प्र॑थ॒मᳶ प॒शुर॑भि॒तिष्ठ॑ति॒ स आर्ति॒मार्च्छ॑ति ॥ [13]
भट्टभास्कर-टीका
11यं द्विष्यादिति ॥ द्वेष्यस्य पशूनां संचरे संचरणदेशे अर्कपर्णे । न्यस्येदित्यादि । गतम् ॥
इति पञ्चमे चतुर्थे तृतीयोनुवाकः ॥