मूलम् (संयुक्तम्)
ऋ॒त॒व्या॑ उप॑ दधात्यृतू॒नाङ्कॢप्त्यै॑ द्व॒न्द्वमुप॑ दधाति॒ तस्मा॑द्द्व॒न्द्वमृ॒तवो
विश्वास-प्रस्तुतिः
ऋ॒त॒व्या॑ उप॑ दधाति ।
ऋ॒तू॒नाङ् कॢप्त्यै॑ ।
द्व॒न्द्वमुप॑ दधाति ।
तस्मा॑द् द्व॒न्द्वम् ऋ॒तवः॑ ।
मूलम्
ऋ॒त॒व्या॑ उप॑ दधाति ।
ऋ॒तू॒नाङ् कॢप्त्यै॑ ।
द्व॒न्द्वमुप॑ दधाति ।
तस्मा॑द् द्व॒न्द्वम् ऋ॒तवः॑ ।
भट्टभास्कर-टीका
1ऋतव्या इत्यादि ॥ ‘मधुश्च माधवश्च’ इत्याद्या द्वेद्वे प्रतीचीति । मध्यमायान्तु चतस्रः । ऋतुशब्दवन्मन्त्रेणोपधेयाः । पूर्ववद्यत् । कॢप्त्या इति । विभागसामर्थ्यात् यद्द्वन्द्वमुपदधाति द्वेद्वे इष्टके समानतया देवते । यज्ञपात्रप्रयोगे द्वन्द्वमिति निपातनम् । तस्माद्द्वन्द्वमिति । द्वौद्वौ मासावृतवः । अभिव्यक्तौ निपातनम् ॥
मूलम् (संयुक्तम्)
ऽधृ॑तेव॒ वा ए॒षा यन्म॑ध्य॒मा चिति॑र॒न्तरि॑क्षमिव॒ वा ए॒षा द्व॒न्द्वम॒न्यासु॒ चिती॒षूप॑ दधाति॒ चत॑स्रो॒ मध्ये॒ धृत्या॑
विश्वास-प्रस्तुतिः
अधृ॑तेव॒ वा ए॒षा यन्म॑ध्य॒मा चितिः॑ ।
अ॒न्तरि॑क्षमिव॒ वा ए॒षा ।
द्व॒न्द्वम॒न्यासु॒ चिती॒षूप॑ दधाति॒ , चत॑स्रो॒ मध्ये॒ धृत्यै॑ ।
मूलम्
अधृ॑तेव॒ वा ए॒षा यन्म॑ध्य॒मा चितिः॑ ।
अ॒न्तरि॑क्षमिव॒ वा ए॒षा ।
द्व॒न्द्वम॒न्यासु॒ चिती॒षूप॑ दधाति॒ , चत॑स्रो॒ मध्ये॒ धृत्यै॑ ।
भट्टभास्कर-टीका
2अधृतेव वा इति । अत्र हेतुः अन्तरिक्षमिवेति । मध्यमत्वसामान्यात् । द्वन्द्वमन्यास्वित्यादि । गतम् । मध्य इति । मध्यमायां चितौ । धृत्या इति । तस्या धारणाय भवति ॥
मूलम् (संयुक्तम्)
अन्त॒श्श्लेष॑णव्ँ॒वा ए॒ताश्चिती॑नाय्ँ॒यदृ॑त॒व्या॑ यदृ॑त॒व्या॑ उप॒दधा॑ति॒ चितीनाव्ँ॒विधृ॑त्या॒ अव॑का॒मनूप॑ दधात्ये॒षा वा अ॒ग्नेर्योनि॒स्सयो॑निम् [5]
ए॒वाग्निञ्चि॑नुत
विश्वास-प्रस्तुतिः
अ॒न्त॒श्श्लेष॑णव्ँ॒ वा ए॒ताश्चिती॑नाय्ँ॒ यद् ऋ॑त॒व्याः॑ ।
यदृ॑त॒व्या॑ उप॒दधा॑ति॒ चितीनाव्ँ॒ विधृ॑त्यै ।
अव॑का॒मनूप॑ दधाति ।
ए॒षा वा अ॒ग्नेर् योनिः॑ ।
सयो॑निम् ए॒वाग्निञ् चि॑नुते । [5]
मूलम्
अ॒न्त॒श्श्लेष॑णव्ँ॒ वा ए॒ताश्चिती॑नाय्ँ॒ यद् ऋ॑त॒व्याः॑ ।
यदृ॑त॒व्या॑ उप॒दधा॑ति॒ चितीनाव्ँ॒ विधृ॑त्यै ।
अव॑का॒मनूप॑ दधाति ।
ए॒षा वा अ॒ग्नेर् योनिः॑ ।
सयो॑निम् ए॒वाग्निञ् चि॑नुते । [5]
भट्टभास्कर-टीका
3अन्तश्श्लेषणमिति ॥ चित्यन्तराळानां श्लेषणं सन्धानं अश्लथत्वं तदर्थमेता ऋतव्याः सन्धानार्था इति यावत् । तस्मादासामुपधानं चितीनां विधृत्यै अश्लथत्वायैव भवति । अवका शैवालं ऋतव्यानामन्तरमुपदधाति । एषा वा इति । अप्सुयोनिरग्निः ताभिश्चावकाया अभेद उपचर्यते । सयोनिमिति । कारणेन सह चिनुते ॥
मूलम् (संयुक्तम्)
उ॒वाच॑ ह वि॒श्वामि॒त्रोऽद॒दित्स ब्रह्म॒णान्नय्ँ॒यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वव्ँ वेद॒दिति॑
विश्वास-प्रस्तुतिः
उ॒वाच॑ ह वि॒श्वामि॑त्रः ।
अद॒दित्स ब्रह्म॒णान्नय्ँ॒ यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वव्ँ वेद॒दिति॑ ।
मूलम्
उ॒वाच॑ ह वि॒श्वामि॑त्रः ।
अद॒दित्स ब्रह्म॒णान्नय्ँ॒ यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वव्ँ वेद॒दिति॑ ।
भट्टभास्कर-टीका
4उवाच हेत्यादि ॥ व्याख्यातम् । ऋतव्यानामेव स्तुतिः ॥
मूलम् (संयुक्तम्)
सव्ँवत्स॒रो वा ए॒तम्प्र॑ति॒ष्ठायै॑ नुदते॒ यो॑ऽग्निञ्चि॒त्वा न प्र॑ति॒तिष्ठ॑ति॒ पञ्च॒ पूर्वा॒श्चित॑यो भव॒न्त्यथ॑ ष॒ष्ठीञ्चिति॑ञ्चिनुते॒ षड्वा ऋ॒तव॑स्सव्ँवत्स॒र ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठत्य्
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रो वा ए॒तम् प्र॑ति॒ष्ठायै॑ नुदते॒ , यो॑ऽग्निञ् चि॒त्वा न प्र॑ति॒तिष्ठ॑ति ।
पञ्च॒ पूर्वा॒श् चित॑यो भव॒न्त्यथ॑ ष॒ष्ठीञ् चिति॑ञ् चिनुते ।
षड्वा ऋ॒तव॑स् सव्ँवत्स॒रः ।
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठति ।
मूलम्
सव्ँ॒व॒त्स॒रो वा ए॒तम् प्र॑ति॒ष्ठायै॑ नुदते॒ , यो॑ऽग्निञ् चि॒त्वा न प्र॑ति॒तिष्ठ॑ति ।
पञ्च॒ पूर्वा॒श् चित॑यो भव॒न्त्यथ॑ ष॒ष्ठीञ् चिति॑ञ् चिनुते ।
षड्वा ऋ॒तव॑स् सव्ँवत्स॒रः ।
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
5संवत्सरो वा इत्यादि षष्ठ्याश्चितेर्विधिः ॥ यश्चित्वाप्यग्निं न प्रतितिष्ठति संवत्सरः खल्वेनं प्रतिष्ठाय नुदते च्यावयति । तत्र पञ्च पूर्वाश्चितयो भवन्ति किं ताभिः । अथ पञ्चानामन्ते षष्ठीं चितिं चिनुते । षड्वा ऋतव इत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
ए॒ता वै [6]
अधि॑पत्नी॒र्नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्तेऽधि॑पतिरे॒व स॑मा॒नाना॑म्भवति॒ यन्द्वि॒ष्यात्तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑ ए॒वैन॑न्दे॒वता॑भ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्य्
विश्वास-प्रस्तुतिः
ए॒ता वा अधि॑पत्नी॒र्नामेष्ट॑काः ।[6]
यस्यै॒ता उ॑पधी॒यन्तेऽधि॑पतिरे॒व स॑मा॒नाना॑म् भवति ।
यन् द्वि॒ष्यात् तमु॑प॒दध॑द्ध्यायेत् ।
ए॒ताभ्य॑ ए॒वैन॑न् दे॒वता॑भ्य॒ आ वृ॑श्चति ।
ता॒जगार्ति॒मार्छ॑ति ।
मूलम्
ए॒ता वा अधि॑पत्नी॒र्नामेष्ट॑काः ।[6]
यस्यै॒ता उ॑पधी॒यन्तेऽधि॑पतिरे॒व स॑मा॒नाना॑म् भवति ।
यन् द्वि॒ष्यात् तमु॑प॒दध॑द्ध्यायेत् ।
ए॒ताभ्य॑ ए॒वैन॑न् दे॒वता॑भ्य॒ आ वृ॑श्चति ।
ता॒जगार्ति॒मार्छ॑ति ।
भट्टभास्कर-टीका
6एता वा इति ॥ षष्ठ्याश्चितेः सम्बन्धिन्यः अधिपत्न्यो नामेष्टकाः ‘संयच्च प्रचेताश्च’ इत्याद्याः पञ्च एकैका दिक्षु एका मध्ये । यस्येत्यादि व्याख्यातम् ॥
मूलम् (संयुक्तम्)
अङ्गि॑रसस्सुव॒र्गल्ँ लो॒कय्ँयन्तो॒ या य॒ज्ञस्य॒ निष्कृ॑ति॒रासी॒त्तामृषि॑भ्य॒ᳶ प्रत्यौ॑ह॒न्तद्धिर॑ण्यमभव॒द्यद्धि॑रण्यश॒ल्कैᳶ प्रो॒क्षति॑ य॒ज्ञस्य॒ निष्कृ॑त्या॒ अथो॑ भेष॒जमे॒वास्मै॑ करोति [7]
अथो॑ रू॒पेणै॒वैनँ॒ सम॑र्धय॒त्यथो॒ हिर॑ण्यज्योतिषै॒व सु॑व॒र्गल्ँ लो॒कमे॑ति
विश्वास-प्रस्तुतिः
अङ्गि॑रसस् सुव॒र्गल्ँ लो॒कय्ँ यन्तो॒ या य॒ज्ञस्य॒ निष्कृ॑ति॒रासी॒त् तामृषि॑भ्य॒ᳶ प्रत्यौ॑हन् ।
तद्धिर॑ण्यमभवत् ।
यद्धि॑रण्यश॒ल्कैᳶ प्रो॒क्षति॑ य॒ज्ञस्य॒ निष्कृ॑त्यै ।
अथो॑ भेष॒जमे॒वास्मै॑ करोति । [7]
अथो॑ रू॒पेणै॒वैनँ॒ सम॑र्धयति ।
अथो॒ हिर॑ण्यज्योतिषै॒व सु॑व॒र्गल्ँ लो॒कमे॑ति ।
मूलम्
अङ्गि॑रसस् सुव॒र्गल्ँ लो॒कय्ँ यन्तो॒ या य॒ज्ञस्य॒ निष्कृ॑ति॒रासी॒त् तामृषि॑भ्य॒ᳶ प्रत्यौ॑हन् ।
तद्धिर॑ण्यमभवत् ।
यद्धि॑रण्यश॒ल्कैᳶ प्रो॒क्षति॑ य॒ज्ञस्य॒ निष्कृ॑त्यै ।
अथो॑ भेष॒जमे॒वास्मै॑ करोति । [7]
अथो॑ रू॒पेणै॒वैनँ॒ सम॑र्धयति ।
अथो॒ हिर॑ण्यज्योतिषै॒व सु॑व॒र्गल्ँ लो॒कमे॑ति ।
भट्टभास्कर-टीका
7अङ्गिरस इत्यादि ॥ निष्कृतिः निष्क्रयः यया यज्ञ आत्मसात् क्रियते तामृषिभ्यः प्रत्यौहन् प्रति ददुः तामृषिभ्यो दक्षिणां दत्वा स्वर्गं गताः निष्कतात्मानः । तद्धिरण्यं स्वर्णमभवत् । तस्माद्धिरण्यशकलैः प्रोक्षणं यज्ञस्य निष्क्रयाय । अथो अपि च अस्मै यज्ञय भेषजं दुरितशमनं करोति । अपि चैनं यज्ञं रूपसमृद्धं करोति । उभयत्रापि अन्वादेशोनुदात्तः । अथो यजमानोपि हिरण्यज्योतिषा रूपेण स्वर्गं गच्छति ॥
मूलम् (संयुक्तम्)
साह॒स्रव॑ता॒ प्रोक्ष॑ति साह॒स्रᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्या॑
विश्वास-प्रस्तुतिः
सा॒ह॒स्रव॑ता॒ प्रोक्ष॑ति ।
सा॒ह॒स्रᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।
मूलम्
सा॒ह॒स्रव॑ता॒ प्रोक्ष॑ति ।
सा॒ह॒स्रᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।
भट्टभास्कर-टीका
8साहस्रवतेति ॥ ‘शतमानविंशतिक’ इत्यण् । ‘सहस्रस्य प्रमा असि’ इत्यादिमन्त्रगताः प्रमादयः सहस्रशब्देनोच्यन्ते । तद्वतामन्त्रेण ‘सहत्रस्य प्रमा असि’ इत्यादिना प्रोक्षति द्वाभ्यां द्वाभ्यां शताभ्यां प्रतिदिशं एकैकेन मन्त्रेण प्रोक्षति मध्यमोत्तमाभ्यां प्राङ्मुखः । यद्वा - सहस्रपरिमाणवता हिरण्यशकलसमूहेन प्रोक्षति । सहस्रमेववा साहत्रं सहस्रशब्दवता मन्त्रेणेति । साहस्र इत्यादि गतम् ॥
मूलम् (संयुक्तम्)
इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नव॑स्स॒न्त्वित्या॑ह धे॒नूरे॒वैनाः॑ कुरुते॒ ता ए॑नङ्काम॒दुघा॑ अ॒मुत्रा॒मुष्मिल्ँ॑ लो॒क उप॑ तिष्ठन्ते ॥ [8]
विश्वास-प्रस्तुतिः
इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नव॑स् स॒न्त्वित्या॑ह ।
धे॒नूरे॒वैनाः॑ कुरुते ।
ता ए॑नङ्काम॒दुघा॑ अ॒मुत्रा॒मुष्मिल्ँ॑ लो॒क उप॑ तिष्ठन्ते ॥ [8]
मूलम्
इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नव॑स् स॒न्त्वित्या॑ह ।
धे॒नूरे॒वैनाः॑ कुरुते ।
ता ए॑नङ्काम॒दुघा॑ अ॒मुत्रा॒मुष्मिल्ँ॑ लो॒क उप॑ तिष्ठन्ते ॥ [8]
भट्टभास्कर-टीका
9इमा मे अग्न इत्यादि ॥ अनेन मन्त्रेण श्रोण्यन्ते तिष्ठन्नुत्तरा धनूः या धेतुस्थनीया एवेष्टकाः कुरुते । ताश्च कामदुघाः सर्वान्कामानस्मै दुहते । अमुत्र द्युलोके अमुष्मिंश्च प्राजापत्यादि लोके एनमुपतिष्ठन्ते यत्रेच्छति यथा वा इमा इच्छति तथा ‘एका च शतं च सहस्रं च’ इत्यादि भावेनोपतिष्ठते । यच्चान्यदिच्छति तच्चास्मै दुहाना ऋतावृधो घृतश्चुतो मधुश्चुत ऊर्जस्वत्यः स्वधावत्यश्च तत्र भवन्ति । किञ्च या एता विराजो नाम कामदुघा इष्ठका अमुत्र द्युलोके अमुष्मिंश्च ऐन्द्रे ब्राह्मे प्राजापत्ये तत्र च लोके वर्तन्ते । तत्रतत्र च यथाभिमते लोके एता एव भूत्वा इष्टका धेनवो यजमानमुपतिष्ठन्ति ॥
इति पञ्चमस्य चतुर्थे द्वितीयोनुवाकः ॥