०१

मूलम् (संयुक्तम्)

दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्ते न व्य॑जयन्त॒ स ए॒ता इन्द्र॑स्त॒नूर॑पश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स त॒नुव॑मिन्द्रि॒यव्ँवी॒र्य॑मा॒त्मन्न॑धत्त॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यदि॑न्द्रत॒नूरु॑प॒दधा॑ति त॒नुव॑मे॒व ताभि॑रिन्द्रि॒यव्ँवी॒र्यय्ँ॑यज॑मान आ॒त्मन्ध॒त्तेऽथो॒ सेन्द्र॑मे॒वाग्निँ सत॑नुञ्चिनुते॒ भव॑त्या॒त्मना॒ परा॑ऽस्य॒ भ्रातृ॑व्यः [1]
भ॒व॒ति॒

विश्वास-प्रस्तुतिः

दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
ते न व्य॑जयन्त ।
स ए॒ता इन्द्र॑स् त॒नूर॑पश्यत् ।
ता उपा॑धत्त ।
ताभि॒र्वै स त॒नुव॑मिन्द्रि॒यव्ँ वी॒र्य॑मा॒त्मन्न॑धत्ते ।
ततो॑ दे॒वा अभ॑व॒न् परासु॑राः ।
यदि॑न्द्रत॒नूरु॑प॒दधा॑ति त॒नुव॑मे॒व ताभि॑रिन्द्रि॒यव्ँ वी॒र्यय्ँ॑ यज॑मान आ॒त्मन्ध॑त्ते ।
अथो॒ सेन्द्र॑मे॒वाग्निँ सत॑नुञ् चिनुते ।
भव॑त्या॒त्मना॒ परा॑ऽस्य॒ भ्रातृ॑व्यो भवति । [1]

मूलम्

दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
ते न व्य॑जयन्त ।
स ए॒ता इन्द्र॑स् त॒नूर॑पश्यत् ।
ता उपा॑धत्त ।
ताभि॒र्वै स त॒नुव॑मिन्द्रि॒यव्ँ वी॒र्य॑मा॒त्मन्न॑धत्ते ।
ततो॑ दे॒वा अभ॑व॒न् परासु॑राः ।
यदि॑न्द्रत॒नूरु॑प॒दधा॑ति त॒नुव॑मे॒व ताभि॑रिन्द्रि॒यव्ँ वी॒र्यय्ँ॑ यज॑मान आ॒त्मन्ध॑त्ते ।
अथो॒ सेन्द्र॑मे॒वाग्निँ सत॑नुञ् चिनुते ।
भव॑त्या॒त्मना॒ परा॑ऽस्य॒ भ्रातृ॑व्यो भवति । [1]

भट्टभास्कर-टीका

1अथाग्निकाण्डमेवाग्नेयं - देवासुरा इत्यादि ॥ इन्द्रतनूनां विधिः । ते न व्यजयन्त पृथक्पृथक् नाजयन् देवाश्च असुरान् असुराश्च देवान् । स एता इति । ‘अग्निना विश्वाषाट्’ इत्याद्या द्वाविंशतिः आत्मनो विग्रहविशेषात्मिका इष्टका अपश्यत् । ता उपाधत्त पञ्चपञ्च दिक्षु द्वे मध्ये । ततश्च जयसाधनीं तनूं जयसमर्थं चक्षुरादीन्द्रियं वीर्य पराक्रमं चात्मन्यधत्त । ततोदेवा इत्यादि । गतम् । अथो अपि च सेन्द्रं तनुमन्तं चाग्निं चिनुते, इन्द्रतनूभिः सहितत्वात् ॥

मूलम् (संयुक्तम्)

य॒ज्ञो दे॒वेभ्योऽपा॑क्राम॒त्तम॑व॒रुध॒न्नाश॑क्नुव॒न्त ए॒ता य॑ज्ञत॒नूर॑पश्य॒न्ता उपा॑दधत॒ ताभि॒र्वै ते य॒ज्ञमवा॑रुन्धत॒ यद्य॑ज्ञत॒नूरु॑प॒दधा॑ति य॒ज्ञमे॒व ताभि॒र्यज॑मा॒नोऽव॑ रुन्द्धे॒

विश्वास-प्रस्तुतिः

य॒ज्ञो दे॒वेभ्योऽपा॑क्रामत् ।
तम॑व॒रुध॒न् नाश॑क्नुवन् ।
त ए॒ता य॑ज्ञत॒नूर॑पश्यन् ।
ता उपा॑दधत ।
ताभि॒र्वै ते य॒ज्ञमवा॑रुन्धत ।
यद् य॑ज्ञत॒नूरु॑प॒दधा॑ति , य॒ज्ञमे॒व ताभि॒र्यज॑मा॒नोऽव॑ रुन्धे ।

मूलम्

य॒ज्ञो दे॒वेभ्योऽपा॑क्रामत् ।
तम॑व॒रुध॒न् नाश॑क्नुवन् ।
त ए॒ता य॑ज्ञत॒नूर॑पश्यन् ।
ता उपा॑दधत ।
ताभि॒र्वै ते य॒ज्ञमवा॑रुन्धत ।
यद् य॑ज्ञत॒नूरु॑प॒दधा॑ति , य॒ज्ञमे॒व ताभि॒र्यज॑मा॒नोऽव॑ रुन्धे ।

भट्टभास्कर-टीका

2यज्ञ इत्यादि ॥ यज्ञतनूनां विधिः । अवरुधं अवरोद्धुम् । ‘शकि णमुल्कमुलौ’ इति णमुल् । यज्ञतनूरिति । “प्रजापतिर्मनसान्धोच्छेत’ इत्याद्याः त्रयस्त्रिंशतम् । संकल्पादारभ्य यज्ञस्य तनूः अष्टावष्टौ दिक्षु एकाम्मध्ये । ताभिरित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

त्रय॑स्त्रिँशत॒मुप॑ दधाति॒ त्रय॑स्त्रिँश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रु॒न्द्धेऽथो॒ सात्मा॑नमे॒वाग्निँ सत॑नुञ्चिनुते॒ सात्मा॒मुष्मिल्ँ॑ लो॒के [2]
भ॒व॒ति॒ य ए॒वव्ँ वेद॒

विश्वास-प्रस्तुतिः

त्रय॑स्त्रिँशत॒मुप॑ दधाति ।
त्रय॑स्त्रिँश॒द् वै दे॒वताः॑ ।
दे॒वता॑ ए॒वाव॑ रुन्धे ।
अथो॒ सात्मा॑नमे॒वाग्निँ सत॑नुञ्चिनुते ।
सात्मा॒मुष्मिल्ँ॑ लो॒के भ॑वति य ए॒वव्ँ वेद ।[2]

मूलम्

त्रय॑स्त्रिँशत॒मुप॑ दधाति ।
त्रय॑स्त्रिँश॒द् वै दे॒वताः॑ ।
दे॒वता॑ ए॒वाव॑ रुन्धे ।
अथो॒ सात्मा॑नमे॒वाग्निँ सत॑नुञ्चिनुते ।
सात्मा॒मुष्मिल्ँ॑ लो॒के भ॑वति य ए॒वव्ँ वेद ।[2]

भट्टभास्कर-टीका

3त्रयस्त्रिंशमिति ॥ ‘सङ्ख्या’ इति पूर्वपदप्रकृतिस्वरत्वम् । सात्मानमिति । आत्मना देवतया सहितं विशिष्टेन मरणं (?) सहितं च अग्निं चिनुते । सामेत्यादि । विदुषः फलम् । सात्मा अविकलफलः ॥

मूलम् (संयुक्तम्)

ज्योति॑ष्मती॒रुप॑ दधाति॒ ज्योति॑रे॒वास्मि॑न्दधात्ये॒ताभि॒र्वा अ॒ग्निश्चि॒तो ज्व॑लति॒ ताभि॑रे॒वैनँ॒ समि॑न्द्ध उ॒भयो॑रस्मै लो॒कयो॒र्ज्योति॑र्भवति

विश्वास-प्रस्तुतिः

ज्योति॑ष्मती॒रुप॑ दधाति ।
ज्योति॑रे॒वास्मि॑न् दधाति ।
ए॒ताभि॒र्वा अ॒ग्निश्चि॒तो ज्व॑लति ।
ताभि॑रे॒वैनँ॒ समि॑न्धे ।
उ॒भयो॑रस्मै लो॒कयो॒र् ज्योति॑र् भवति ।

मूलम्

ज्योति॑ष्मती॒रुप॑ दधाति ।
ज्योति॑रे॒वास्मि॑न् दधाति ।
ए॒ताभि॒र्वा अ॒ग्निश्चि॒तो ज्व॑लति ।
ताभि॑रे॒वैनँ॒ समि॑न्धे ।
उ॒भयो॑रस्मै लो॒कयो॒र् ज्योति॑र् भवति ।

भट्टभास्कर-टीका

4ज्योतिष्मतीरिति ॥ ‘ज्योतिष्मतीं त्वा’ इत्याद्या द्वादश, तिस्रस्तिस्रो दिक्षु न मध्ये ज्योतिश्शब्दवन्मन्त्रवत्यः । ‘तद्वानासाम्’ इति यदपवादश्छान्दसो मतुप् । एताभिश्चितोग्निर्ज्वलतीव भवति । तस्मात्ताभिः ज्योतिष्मतीभिरग्निं समिन्धे सम्यग्दीपयति । ततश्च अस्मा इति अग्नये उभयोर्लोकयोः ज्योतिष्मती भवति । अस्मा इत्यन्वादेशोनुदात्तः ॥

मूलम् (संयुक्तम्)

नक्षत्रेष्ट॒का उप॑ दधात्ये॒तानि॒ वै दि॒वो ज्योतीँ॑षि॒ तान्ये॒वाव॑ रुन्द्धे सु॒कृताव्ँ॒वा ए॒तानि॒ ज्योतीँ॑षि॒ यन्नक्ष॑त्राणि॒ तान्ये॒वाप्नो॒त्यथो॑ अनूका॒शमे॒वैतानि॑ [3]
ज्योतीँ॑षि कुरुते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒

विश्वास-प्रस्तुतिः

न॒क्ष॒त्रे॒ष्ट॒का उप॑ दधाति ।
ए॒तानि॒ वै दि॒वो ज्योतीँ॑षि ।
तान्ये॒वाव॑ रुन्धे ।
सु॒कृताव्ँ॒ वा ए॒तानि॒ ज्योतीँ॑षि॒ यन् नक्ष॑त्राणि ।
तान्ये॒वाप्नो॑ति ।
अथो॑ अनूका॒शमे॒वैतानि॒ ज्योतीँ॑षि कुरुते , सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।[3]

मूलम्

न॒क्ष॒त्रे॒ष्ट॒का उप॑ दधाति ।
ए॒तानि॒ वै दि॒वो ज्योतीँ॑षि ।
तान्ये॒वाव॑ रुन्धे ।
सु॒कृताव्ँ॒ वा ए॒तानि॒ ज्योतीँ॑षि॒ यन् नक्ष॑त्राणि ।
तान्ये॒वाप्नो॑ति ।
अथो॑ अनूका॒शमे॒वैतानि॒ ज्योतीँ॑षि कुरुते , सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।[3]

भट्टभास्कर-टीका

5नक्षत्रेष्टका इति । ‘कृत्तिका नक्षत्रं’ इत्याद्याः । तत्र दक्षिणेंसे ‘कृत्तिकानक्षत्रं’ इत्युफ्धाय अथैतन्न नक्षत्रपथं रोहिणीप्रभृति आविशाखाभ्यामायातयति । दक्षिणादंसाद्दक्षिणां श्रेणीं आरभ्यायातयति । अथ पुच्छसन्धौ आत्मसन्धौ अमावास्यामुपदधाति “यत्ते देवा अदधुः” इत्येतन्नक्षत्रपथं अनूराधाप्रभृति आभरणीभ्य आ यातयति उत्तरायै श्रोणेरुत्तरमंसमाराभ्यायातयति । अथोत्तर एवांसे पौर्णमासीमुपदधाति ‘पूर्णा पश्चात्’ इति । नक्षत्रेष्टकाभिश्चितिरिष्यते । एतानिवा इत्यादि । गतम् । द्युलोकस्थितानि ज्योतींषि ता इष्टकाः । सुकृतां पुण्यकृतामेतानि ज्योतींषि । ‘सुकर्मपाप’ इति क्विप् । अथो अपि च । अनूकाशमिति हीनप्रकाशमनूकाशे दर्शयति । जातावेकवचनम् । ‘इकः काशे’ इति दीर्घत्वम् । ‘अनोरप्रधानकनीयसी’ इत्युत्तरपदान्तोदात्तत्वम् । तदपि एतानि ज्योतींषि कुरुते प्रकाशवत्करोति आसां प्रकाशातिशयेन कः । आसामुपधाता । किंपुनरिदानीं स्वर्गरय महाप्रकाशस्येति । सुवर्गस्येति । यस्मादेवं तस्मादासामुपधानं स्वर्गस्य लोकस्यातुख्यात्यै भवति ॥

मूलम् (संयुक्तम्)

यत्सँस्पृ॑ष्टा उपद॒ध्याद्वृष्ट्यै॑ लो॒कमपि॑ दध्या॒दव॑र्षुकᳶ प॒र्जन्य॑स्स्या॒दसँ॑स्पृष्टा॒ उप॑ दधाति॒ वृष्ट्या॑ ए॒व लो॒कङ्क॑रोति॒ वर्षु॑कᳶ प॒र्जन्यो॑ भवति

विश्वास-प्रस्तुतिः

यत्सँस्पृ॑ष्टा उपद॒ध्याद् वृष्ट्यै॑ , लो॒कमपि॑ दध्या॒दव॑र्षुकᳶ प॒र्जन्य॑स् स्यात् ।

असँ॑स्पृष्टा॒ उप॑ दधाति॒ , वृष्ट्या॑ ए॒व लो॒कङ्क॑रोति॒ , वर्षु॑कᳶ प॒र्जन्यो॑ भवति ।

मूलम्

यत्सँस्पृ॑ष्टा उपद॒ध्याद् वृष्ट्यै॑ , लो॒कमपि॑ दध्या॒दव॑र्षुकᳶ प॒र्जन्य॑स् स्यात् ।

असँ॑स्पृष्टा॒ उप॑ दधाति॒ , वृष्ट्या॑ ए॒व लो॒कङ्क॑रोति॒ , वर्षु॑कᳶ प॒र्जन्यो॑ भवति ।

भट्टभास्कर-टीका

6यदित्यादि । संस्पृष्टत्वे वृष्ट्यवकाशं तिरोदध्यात् सर्वतश्च्छादित त्वात् । ततश्चावर्षणशीलः पर्जन्यस्स्यात् । ‘लषपतपदस्थाभू वृष’ इत्युकञ् । अस्पृष्टत्वेतु वृष्ट्यवकाशलाभात् वर्षुको भवति पर्जन्यः ॥

मूलम् (संयुक्तम्)

पु॒रस्ता॑द॒न्याᳶ प्र॒तीची॒रुप॑ दधाति प॒श्चाद॒न्याᳶ प्राची॒स्तस्मा॑त्प्रा॒चीना॑नि च प्रती॒चीना॑नि च॒ नक्ष॑त्रा॒ण्या व॑र्तन्ते ॥ [4]

विश्वास-प्रस्तुतिः

पु॒रस्ता॑द॒न्याᳶ प्र॒तीची॒रुप॑ दधाति प॒श्चाद॒न्याᳶ प्राचीः॑ ।

तस्मा॑त् प्रा॒चीना॑नि च प्रती॒चीना॑नि च॒ नक्ष॑त्रा॒ण्या व॑र्तन्ते ॥ [4]

मूलम्

पु॒रस्ता॑द॒न्याᳶ प्र॒तीची॒रुप॑ दधाति प॒श्चाद॒न्याᳶ प्राचीः॑ ।

तस्मा॑त् प्रा॒चीना॑नि च प्रती॒चीना॑नि च॒ नक्ष॑त्रा॒ण्या व॑र्तन्ते ॥ [4]

भट्टभास्कर-टीका

7पुरस्तादन्या इति । पुरस्तादारभ्य प्रतीचीनगति कृत्तिकादि विशाखान्तानुपदधाति दक्षिणादंसात् दक्षिणश्रोणेः । अन्यास्तु अनूराधादिभरण्यन्ताः पश्चादारभ्य प्राचीनगतीरुपदधाति उत्तरश्रोणेरुत्तरादंसात् । तस्मात्प्राचीनानि नक्षत्राणि पुनःपुनः पर्यावर्तन्ते । दक्षिणगोळे प्रतीचीनानि उत्तरगोळे च प्रतीचीनानीति । कथं तर्हि प्रत्यग्गोळवर्तिनां एतदुपपद्यते । तत्रापि दिग्भेदात् प्रचीनप्रतीचीनभावावबाधितावेव । तथाहि - यत्रोदेति सविता सा प्राची, यत्र दृश्यमानो गच्छति सा दक्षिणा, यत्रास्तमेति सा प्रतीची, यत्रादृश्यमानो गच्छति सोदीचीति । आहुश्च - सर्वेषामुत्तरो मेरुर्लोकालोकश्च दक्षिणः । इति । तस्माद्गती एव सर्वत्र भवतः उदयानन्तरं प्रतीचीनां गतिमारभन्ते अस्तमयानन्तरं तु प्राचीनामिति । आहुः - वक्रानुवक्रादि विचित्रकारिणः ताराग्रहा नक्षत्रशब्देनोच्यन्ते । अपरे पुनराहुः - अश्विन्यादीनामपि दिनेदिने स्वल्पा प्राचीना गतिरस्तीति सौक्ष्म्यात् नोपलभ्यते एवेति ॥

इति पञ्चमे चतुर्थे प्रथमोनुवाकः ॥