दे॒वा वै यद्य॒ज्ञे ऽकु॑र्वत॒ तदसु॑रा अकुर्वत।
ते दे॒वा ए॒ता अ॑क्ष्णयास्तो॒मीया॑ अपश्य॒न्।
ता अ॒न्यथा॒नूच्या॒न् यथोपा॑दधत।
तदसु॑रा॒ नान्ववा॑य॒न्।
ततो॑ दे॒वा अभ॑व॒न् परासु॑रा।
यद॑क्ष्णयास्तो॒मीया॑ अ॒न्यथा॒नूच्या॒न् यथो॑प॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒, भव॑त्या॒त्मना॒, परा॑स्य॒ भ्रातृ॑व्यो भवति।
विस्वरपाठः
देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा एता अक्ष्णयास्तोमीया अपश्यन्ता अन्यथानूच्यान्यथोपादधत तदसुरा नान्ववायन्ततो देवा अभवन्परासुरा यदक्ष्णयास्तोमीया अन्यथानूच्यान्यथोपदधाति भ्रातृव्याभिभूत्यै भवत्यात्मना परास्य भ्रातृव्यो भवति।