मूलम् (संयुक्तम्)
प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त्तत्परा॑पत॒त्तदश्वो॑ऽभव॒द्यदश्व॑य॒त्तदश्व॑स्याश्व॒त्वन्तद्दे॒वा अ॑श्वमे॒धेनै॒व प्रत्य॑दधुरे॒ष वै प्र॒जाप॑तिँ॒ सर्व॑ङ्करोति॒ यो॑ऽश्वमे॒धेन॒ यज॑ते॒ सर्व॑ ए॒व भ॑वति॒
विश्वास-प्रस्तुतिः
प्र॒जाप॑ते॒रक्ष्य॑श्वयत् ।
तत्परा॑ऽपतत् ।
तदश्वो॑ऽभवत् ।
यदश्व॑य॒त् तदश्व॑स्याश्व॒त्वम् ।
तद् दे॒वा अ॑श्वमे॒धेनै॒व प्रत्य॑दधुः ।
ए॒ष वै प्र॒जाप॑तिँ॒ सर्व॑ङ्करोति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
सर्व॑ ए॒व भ॑वति ।
मूलम्
प्र॒जाप॑ते॒रक्ष्य॑श्वयत् ।
तत्परा॑ऽपतत् ।
तदश्वो॑ऽभवत् ।
यदश्व॑य॒त् तदश्व॑स्याश्व॒त्वम् ।
तद् दे॒वा अ॑श्वमे॒धेनै॒व प्रत्य॑दधुः ।
ए॒ष वै प्र॒जाप॑तिँ॒ सर्व॑ङ्करोति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
सर्व॑ ए॒व भ॑वति ।
भट्टभास्कर-टीका
1अधुना अश्वमेधमधिकृत्योच्यते - प्रजापतेरित्यादि ॥ वैश्वदेवं काण्डम् । प्रजापतेरक्षि अश्वयत् शूनमभवत् स्थानात् परेत्यापतत् । तदश्वोभवत् । तस्मादश्वत्वं अश्वस्य । अश्वयदित्यादि व्याख्यातमेव । एकदेशलोपेन नामत्वेन परिग्रहः । यद्वा - श्वयनादश्वः । छान्दसो डप्रत्ययोऽडागमश्च । तत्प्रजापतेरक्षि देवा अश्वमेधेनैवानुष्ठितेन प्रत्यदधुः स्वस्थाने अविकलं पुनस्थापितवन्तः । तस्मादेष प्रजापतिं सर्वमविकलं करोति योश्वमेधेन यजते । स्वयमपि सर्वोऽविकलो भवति ॥
मूलम् (संयुक्तम्)
सर्व॑स्य॒ वा ए॒षा प्राय॑श्चित्ति॒स्सर्व॑स्य भेष॒जँ सर्वव्ँ॒वा ए॒तेन॑ पा॒प्मान॑न्दे॒वा अ॑तर॒न्नपि॒ वा ए॒तेन॑ ब्रह्मह॒त्याम॑तर॒न्थ्…
विश्वास-प्रस्तुतिः
सर्व॑स्य॒ वा ए॒षा प्राय॑श्चित्तिः ।
सर्व॑स्य भेषम् ।
सर्वव्ँ॒ वा ए॒तेन॑ पा॒प्मान॑न् दे॒वा अ॑तरन् ।
अपि॒ वा ए॒तेन॑ ब्रह्मह॒त्याम॑तरन् ।
मूलम्
सर्व॑स्य॒ वा ए॒षा प्राय॑श्चित्तिः ।
सर्व॑स्य भेषम् ।
सर्वव्ँ॒ वा ए॒तेन॑ पा॒प्मान॑न् दे॒वा अ॑तरन् ।
अपि॒ वा ए॒तेन॑ ब्रह्मह॒त्याम॑तरन् ।
भट्टभास्कर-टीका
2सर्वस्य वा इति ॥ सर्वस्य प्रतिषिद्धनिमित्तकरणस्य अधर्मस्य स्तेयादेर्विहिताकरणनिमित्तस्य च सन्ध्यालोपादेः प्रायश्चित्तिः निर्यातनहेतुः अश्वमेधः । प्रायणं प्रायो धर्मलोपः । तन्निवृत्तिः चित्तिः प्रायश्चित्तिः । प्रायश्शब्दस्य अव्ययत्वादव्ययपूर्वपदप्रकृतिसरत्वम् । किञ्च सर्वस्य रोगस्य राजयक्ष्मादेरपि भेषजं औषधं शमनहेतुः । सर्व वा इत्यादि । गतम् । पुनर्ब्रह्महत्याग्रहणं तस्मादुत्तरत्वख्यापनार्थम् । ‘हनस्त च’ इति क्विप् ॥
मूलम् (संयुक्तम्)
सर्व॑म्पा॒प्मान॑म् [47]
त॒र॒ति॒ तर॑ति ब्रह्मह॒त्याय्ँयो॑ऽश्वमे॒धेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँवेद
विश्वास-प्रस्तुतिः
सर्व॑म् पा॒प्मान॑न् तरति । [47]
तर॑ति ब्रह्मह॒त्याय्ँ , यो॑ऽश्वमे॒धेन॒ यज॑ते॒ य उ॑ चैनम् ए॒वव्ँ वेद ।
मूलम्
सर्व॑म् पा॒प्मान॑न् तरति । [47]
तर॑ति ब्रह्मह॒त्याय्ँ , यो॑ऽश्वमे॒धेन॒ यज॑ते॒ य उ॑ चैनम् ए॒वव्ँ वेद ।
भट्टभास्कर-टीका
3सर्वं पाप्मानमित्यादि ॥ यष्टुर्वेदितुश्च फलम् ॥
मूलम् (संयुक्तम्)
उत्त॑रव्ँ॒ वै तत्प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त्तस्मा॒दश्व॑स्योत्तर॒तोऽव॑ द्यन्ति दक्षिण॒तो॑ऽन्येषा॑म्पशू॒नाव्ँ…
विश्वास-प्रस्तुतिः
उत्त॑रव्ँ॒ वै तत्प्र॒जाप॑ते॒रक्ष्य॑श्वयत् ।
तस्मा॒दश्व॑स्योत्तर॒तोऽव॑ द्यन्ति ।
द॒क्षि॒णतो॑ऽन्येषा॑म् पशू॒नाम् ।
मूलम्
उत्त॑रव्ँ॒ वै तत्प्र॒जाप॑ते॒रक्ष्य॑श्वयत् ।
तस्मा॒दश्व॑स्योत्तर॒तोऽव॑ द्यन्ति ।
द॒क्षि॒णतो॑ऽन्येषा॑म् पशू॒नाम् ।
भट्टभास्कर-टीका
4उत्तरं वा इति ॥ उत्तरस्य शूनस्याक्ष्णोश्वमेधेन प्रतिहतत्वात् प्रजापतेरुत्तरो भागः अश्वमेधसम्बद्धः प्रशस्तः । तथैव प्राजापत्यस्याश्वमेधस्य । तस्मादश्वस्योत्तरतोऽवद्यन्ति । कस्मादेवमुच्यते इति चेत् - दक्षिणतोप्येषां पशूनां अवद्यन्तीत्येव । दक्षिणोत्तराभ्यामतसुच् ॥
मूलम् (संयुक्तम्)
वै॑त॒सᳵ कटो॑ भवत्य॒प्सुयो॑नि॒र्वा अश्वो॑ऽप्सु॒जो वे॑त॒सस्स्व ए॒वैनय्ँ॒योनौ॒ प्रति॑ ष्ठापयति
विश्वास-प्रस्तुतिः
वै॑त॒सᳵ कटो॑ भवति ।
अ॒प्सुयो॑नि॒र्वा अश्वो॑
अप्सु॒जो वे॑त॒सः ।
स्व ए॒वैनय्ँ॒योनौ॒ प्रति॑ ष्ठापयति
मूलम्
वै॑त॒सᳵ कटो॑ भवति ।
अ॒प्सुयो॑नि॒र्वा अश्वो॑
अप्सु॒जो वे॑त॒सः ।
स्व ए॒वैनय्ँ॒योनौ॒ प्रति॑ ष्ठापयति
भट्टभास्कर-टीका
5वैतस इति ॥ वेतसो वञ्जुळः । ‘पलाशादिभ्यो वा’ इति अनुदात्तलक्षणस्य अञो निवृत्तिः । ‘अपो योनियन्मतुषु’ इति सप्तम्या अलुक् । अप्सुज इति । ‘सप्तम्यां ञनेर्डः’ ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक् । स्व एवेति । उभयोरपि अप्सुयोनित्वात् स्वस्मिन् योनौ कारणे अप्सु अश्वं प्रतिष्ठापयति । वैतसः कटः ॥
मूलम् (संयुक्तम्)
चतुष्टो॒मस्स्तोमो॑ भवति स॒रड्ढ॒ वा अश्व॑स्य॒ सक्थ्यावृ॑ह॒त्तद्दे॒वाश्च॑तुष्टो॒मेनै॒व प्रत्य॑दधु॒र्यच्च॑तुष्टो॒मस्स्तोमो॒ भव॒त्यश्व॑स्य सर्व॒त्वाय॑ ॥ [48]
विश्वास-प्रस्तुतिः
च॒तु॒ष्टो॒मस् स्तोमो॑ भवति ।
स॒रड्ढ॒ वा अश्व॑स्य॒ सक्थ्यावृ॑हत् ।
तद् दे॒वाश् च॑तुष्टो॒मेनै॒व प्रत्य॑दधुः ।
यच् च॑तुष्टो॒मस् स्तोमो॒ भव॒त्यश्व॑स्य सर्व॒त्वाय॑ ॥ [48]
मूलम्
च॒तु॒ष्टो॒मस् स्तोमो॑ भवति ।
स॒रड्ढ॒ वा अश्व॑स्य॒ सक्थ्यावृ॑हत् ।
तद् दे॒वाश् च॑तुष्टो॒मेनै॒व प्रत्य॑दधुः ।
यच् च॑तुष्टो॒मस् स्तोमो॒ भव॒त्यश्व॑स्य सर्व॒त्वाय॑ ॥ [48]
भट्टभास्कर-टीका
6चतुष्टोम इति ॥ चतुष्टोम इति चतुरुत्तरस्य चतुष्टोमत्वम् । सरडिति । कृकलास इत्येके । कलविङ्क इत्यन्ये । सोश्वस्योत्तरं सक्थि अवृहत् आच्छिद्य गृहीतवान् । वृहू उद्यमने । तत्सक्थि देवाश्चतुष्टोमेन प्रत्यदधुः पूर्ववत्स्थापितवन्तः । तस्माच्चतुष्टोमः स्तोमोश्वस्य सर्वत्वाय अविकलत्वाय भवति ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये पञ्चमे काण्डे तृतीये प्रपाठके द्वादशोनुवाकः ॥
समाप्तः प्रपाठकः ॥