मूलम् (संयुक्तम्)
दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्कनी॑याँसो दे॒वा आस॒न्भूयाँ॒सोऽसु॑रा॒स्ते दे॒वा ए॒ता इष्ट॑का अपश्य॒न्ता उपा॑दधत भूय॒स्कृद॒सीत्ये॒व भूयाँ॑सोऽभव॒न्वन॒स्पति॑भि॒रोष॑धीभिर्…
विश्वास-प्रस्तुतिः
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
कनी॑याँसो दे॒वा आस॒न् , भूयाँ॒सो ऽसु॑राः ।
ते दे॒वा ए॒ता इष्ट॑का अपश्यन्
ता उपा॑दधत ।
भू॒य॒स्कृद॒सीत्ये॒व भूयाँ॑सोऽभव॒न् , वन॒स्पति॑भि॒रोष॑धीभिः ।
मूलम्
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
कनी॑याँसो दे॒वा आस॒न् , भूयाँ॒सो ऽसु॑राः ।
ते दे॒वा ए॒ता इष्ट॑का अपश्यन्
ता उपा॑दधत ।
भू॒य॒स्कृद॒सीत्ये॒व भूयाँ॑सोऽभव॒न् , वन॒स्पति॑भि॒रोष॑धीभिः ।
भट्टभास्कर-टीका
1देवासुरा इत्यादि ॥ भूयस्कृतां विधिः । कनीयांसः अल्पतराः क्षीणभूयिष्ठा देवा आसन् । असुरास्तु भूयांसः बहुधा समृद्धा आसन् । ते देवा एता ‘भूयस्कृदसि’ इत्याद्याः भूयस्कृतोपश्यन् उपादधत च एताश्च पच । एकैका दिक्षु एकाम्मध्ये ‘भूयस्कृदसि’ इत्येतामुपधाय वनस्पतिभिरोषधीभिः ज्यायांसोभवन् अक्षीयमाणा अभवन् ॥
मूलम् (संयुक्तम्)
वरिव॒स्कृद॒सीती॒माम॑जय॒न्प्राच्य॒सीति॒ प्राची॒न्दिश॑मजयन्नू॒र्ध्वासीत्य॒मूम॑जयन्नन्तरिक्ष॒सद॑स्य॒न्तरि॑क्षे सी॒देत्य॒न्तरि॑क्षमजय॒न्ततो॑ दे॒वा अभ॑वन्न् [44]
परासु॑रा॒ यस्यै॒ता उ॑पधी॒यन्ते॒ भूया॑ने॒व भ॑वत्य॒भीमाल्ँ लो॒काञ्ज॑यति॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवत्य्…
विश्वास-प्रस्तुतिः
व॒रि॒व॒स्कृद॒सीति॑ + इ॒माम् अ॑जयन् ।
प्राच्य॒सीति॒ प्राची॒न् दिश॑मजयन् ।
ऊ॒र्ध्वासीत्य॒मूम॑जयन् ।
अ॒ज॒य॒न्न॒न्त॒रि॒क्षसद् अ॑स्य॒न्तरि॑क्षे सी॒देत्य॒न्तरि॑क्षमजयन् ।
ततो॑ दे॒वा अभ॑वन्न् परासु॑राः । [44]
यस्यै॒ता उ॑पधी॒यन्ते॒ भूया॑ने॒व भ॑वति ।
अ॒भीमाल्ँ लो॒काञ् ज॑यति ।
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।
मूलम्
व॒रि॒व॒स्कृद॒सीति॑ + इ॒माम् अ॑जयन् ।
प्राच्य॒सीति॒ प्राची॒न् दिश॑मजयन् ।
ऊ॒र्ध्वासीत्य॒मूम॑जयन् ।
अ॒ज॒य॒न्न॒न्त॒रि॒क्षसद् अ॑स्य॒न्तरि॑क्षे सी॒देत्य॒न्तरि॑क्षमजयन् ।
ततो॑ दे॒वा अभ॑वन्न् परासु॑राः । [44]
यस्यै॒ता उ॑पधी॒यन्ते॒ भूया॑ने॒व भ॑वति ।
अ॒भीमाल्ँ लो॒काञ् ज॑यति ।
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।
भट्टभास्कर-टीका
2वरिवस्कृदसीत्यादि ॥ समृद्धिकथनम् । ततो देवा अभवन् । असुराः परा भूताः । यस्येत्यादि गतम् ॥
मूलम् (संयुक्तम्)
अप्सु॒षद॑सि श्येन॒सद॒सीत्या॑है॒तद्वा अ॒ग्ने रू॒पँ रू॒पेणै॒वाग्निमव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
अ॒प्सु॒षद॑सि श्येन॒सद॒सीत्या॑ह ।
ए॒तद्वा अ॒ग्ने रू॒पम् ।
रू॒पेणै॒वाग्निमव॑ रुन्धे ।
मूलम्
अ॒प्सु॒षद॑सि श्येन॒सद॒सीत्या॑ह ।
ए॒तद्वा अ॒ग्ने रू॒पम् ।
रू॒पेणै॒वाग्निमव॑ रुन्धे ।
भट्टभास्कर-टीका
3अथ अप्सुषदसीत्याद्याः पच एकैका दिक्षु एकां मध्ये । एतद्वा इति । अबादयः । अप्सुषदादयः - अप्सु सीदन्तीति क्विप् । ‘तत्पुरुषेकृति बहुलम्’ इत्यलुक् ॥
मूलम् (संयुक्तम्)
पृथि॒व्यास्त्वा॒ द्रवि॑णे सादया॒मीत्या॑हे॒माने॒वैताभि॑र्लो॒कान्द्रवि॑णावतᳵ कुरुत
विश्वास-प्रस्तुतिः
“पृ॒थि॒व्यास्त्वा॒ द्रवि॑णे सादयामि” + इत्या॑ह ।
इ॒माने॒वैताभि॑र् लो॒कान् द्रवि॑णावतᳵ कुरुते ।
मूलम्
“पृ॒थि॒व्यास्त्वा॒ द्रवि॑णे सादयामि” + इत्या॑ह ।
इ॒माने॒वैताभि॑र् लो॒कान् द्रवि॑णावतᳵ कुरुते ।
भट्टभास्कर-टीका
4अथ ‘पृथिव्यास्त्वा द्रविणे सादयामि’ इत्याद्या द्रविणोदाः पच एकैका दिक्षु एकां मध्ये । द्रविणस्य धनस्य धात्र्यः । पूर्वपदस्यासुगागमश्छान्दसः । द्रविणावतः धनवतः । ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् ॥
मूलम् (संयुक्तम्)
आयु॒ष्या॑ उप॑ दधा॒त्यायु॑रे॒व [45]
अ॒स्मि॒न्द॒धा॒त्यग्ने॒ यत्ते॒ परँ॒ हृन्नामेत्या॑है॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॑ प्रि॒यमे॒वास्य॒ धामोपा॑प्नोति॒ तावेहि॒ सँ र॑भावहा॒ इत्या॑ह॒
विश्वास-प्रस्तुतिः
आ॒यु॒ष्या॑ उप॑ दधाति ।
आयु॑रे॒वास्मिन् दधाति ।[45]
अग्ने॒ यत्ते॒ परँ॒ हृन्नामेत्या॑ह ।
ए॒तद् वा अ॒ग्नेᳶ प्रि॒यन् धाम॑ ।
प्रि॒यमे॒वास्य॒ धामोपा॑प्नोति ।
तावेहि॒ सँ र॑भावहा॒ इत्या॑ह ।
मूलम्
आ॒यु॒ष्या॑ उप॑ दधाति ।
आयु॑रे॒वास्मिन् दधाति ।[45]
अग्ने॒ यत्ते॒ परँ॒ हृन्नामेत्या॑ह ।
ए॒तद् वा अ॒ग्नेᳶ प्रि॒यन् धाम॑ ।
प्रि॒यमे॒वास्य॒ धामोपा॑प्नोति ।
तावेहि॒ सँ र॑भावहा॒ इत्या॑ह ।
भट्टभास्कर-टीका
5अथ प्राणं मे पाहीत्याद्या आयुष्याः सप्त । एकैका दिक्षु तिस्रो मध्ये । केचिदाहुः - षडायुष्याः ‘अग्ने यत्ते’ इति, सप्तमं अग्नेर्हृदयं इति । आयुर्मे पाहीत्यायुश्शब्दवता मन्त्रेणोपधेयत्वादायुष्याः । पूर्ववत् छत्रिन्यायेन सर्वा अप्यायुष्याः । यद्वा - आयुषो निमित्ताः । ‘गोद्व्यचः’ इति यत् । अत्र ‘यस्यैता उपधीयन्ते’ इति भूयस्कृत्सूपधानं श्रूयते, ‘आयुष्या उपदधाति’ इति च आद्युष्यासु । अप्सुषत्सु द्रविणोदासु नोपधानं श्रूयते । तत्र पचदशाप्येता भूयस्कृत इव लक्ष्यन्ते । एतद्वा इति । अग्निहृदयाख्या सप्तमी । तस्मादस्या उपधानेन अग्नेः प्रियं धामोपाप्नोति ॥
मूलम् (संयुक्तम्)
व्ये॑वैने॑न॒ परि॑ धत्ते॒ पाञ्च॑जन्ये॒ष्वप्ये॑ध्यग्न॒ इत्या॑ह
विश्वास-प्रस्तुतिः
व्ये॑वैने॑न॒ परि॑ धत्ते ।
पाञ्च॑जन्ये॒ष्वप्ये॑ध्यग्न॒ इत्या॑ह ।
मूलम्
व्ये॑वैने॑न॒ परि॑ धत्ते ।
पाञ्च॑जन्ये॒ष्वप्ये॑ध्यग्न॒ इत्या॑ह ।
भट्टभास्कर-टीका
6व्येवैनेनेति ॥ एनेनाग्निना सह विपरिधत्ते यजमानव्यापारनियमेपि सभा [सहभा] वा भाव(?) इति द्वयोरेकी भूतत्वात् ॥
मूलम् (संयुक्तम्)
ए॒ष वा अ॒ग्निᳶ पाञ्च॑जन्यो॒ यᳶ पञ्च॑चितीक॒स्तस्मा॑दे॒वमा॑ह
विश्वास-प्रस्तुतिः
ए॒ष वा अ॒ग्निᳶ पाञ्च॑जन्यो॒ यᳶ पञ्च॑चितीकः ।
तस्मा॑द् ए॒वमा॑ह ।
मूलम्
ए॒ष वा अ॒ग्निᳶ पाञ्च॑जन्यो॒ यᳶ पञ्च॑चितीकः ।
तस्मा॑द् ए॒वमा॑ह ।
भट्टभास्कर-टीका
7एषवा इति । पच चितयो निवृत्ता यस्य सोग्निः पाञ्चजन्यः पचसु योनिभूतासु चितिषु भवः पाञ्चजन्यः । छान्दसो यः । तस्मादेवमिति । कः? पञ्चस्वपि जनेषु एधि भव आह अग्न इति मन्त्रः ॥
मूलम् (संयुक्तम्)
ऋर्त॒व्या॑ उप॑ दधात्ये॒तद्वा ऋ॑तू॒नाम्प्रि॒यन्धाम॒ यदृ॑त॒व्या॑ ऋतू॒नामे॒व प्रि॒यन्धामाव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
ऋ॒त॒व्या॑ उप॑ दधाति ।
ए॒तद् वा ऋ॑तू॒नाम् प्रि॒यन्धाम॒ यद् ऋ॑त॒व्याः॑ ।
ऋ॒तू॒नामे॒व प्रि॒यन्धामाव॑ रुन्धे ।
मूलम्
ऋ॒त॒व्या॑ उप॑ दधाति ।
ए॒तद् वा ऋ॑तू॒नाम् प्रि॒यन्धाम॒ यद् ऋ॑त॒व्याः॑ ।
ऋ॒तू॒नामे॒व प्रि॒यन्धामाव॑ रुन्धे ।
भट्टभास्कर-टीका
8ऋतव्या इति । ‘यावा अया वा’ इत्याद्यास्सप्तर्तव्याः । एकैका दिक्षु तिस्रो मध्ये । ऋतुप्राप्तिहेतुभूता ऋतव्याः । पूर्ववद्यत् ॥
मूलम् (संयुक्तम्)
सु॒मेक॒ इत्या॑ह सव्ँवत्स॒रो वै सु॒मेक॑स्सव्ँवत्स॒रस्यै॒व प्रि॒यन्धामोपा॑प्नोति ॥ [46]
विश्वास-प्रस्तुतिः
सु॒मेक॒ इत्या॑ह ।
सव्ँ॒व॒त्स॒रो वै सु॒मेकः॑ ।
सव्ँ॒व॒त्स॒रस्यै॒व प्रि॒यन्धामोपा॑प्नोति ॥ [46]
मूलम्
सु॒मेक॒ इत्या॑ह ।
सव्ँ॒व॒त्स॒रो वै सु॒मेकः॑ ।
सव्ँ॒व॒त्स॒रस्यै॒व प्रि॒यन्धामोपा॑प्नोति ॥ [46]
भट्टभास्कर-टीका
9सुमेक इति ॥ शोभनमेहनः प्रजानामुत्पादयितॄणां मुख्यः संवत्सरः । ककारश्छान्दसः । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ॥
इति पञ्चमे तृतीये एकादशोनुवाकः ॥