१०

मूलम् (संयुक्तम्)

वृ॒ष्टि॒सनी॒रुप॑ दधाति॒ वृष्टि॑मे॒वाव॑ रुन्द्धे॒ यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुव्ँव॑र्षेदनुपरि॒हारँ॑ सादयति॒ तस्मा॒त्सर्वा॑नृ॒तून्व॑र्षति पुरोवात॒सनि॑र॒सीत्या॑है॒तद्वै वृष्ट्यै॑ रू॒पँ रू॒पेणै॒व वृष्टि॒मव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

वृ॒ष्टि॒सनी॒रुप॑ दधाति ।
वृष्टि॑मे॒वाव॑ रुन्धे ।
यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुव्ँ व॑र्षेत् ।
अ॒नु॒प॒रि॒हारँ॑ सादयति॒ , तस्मा॒त् सर्वा॑न् ऋ॒तून् व॑र्षति ।
“पु॒रो॒वा॒त॒सनि॑रसि” + इत्या॑ह ।
ए॒तद्वै वृष्ट्यै॑ रू॒पम् ।
रू॒पेणै॒व वृष्टि॒मव॑ रुन्धे ।

मूलम्

वृ॒ष्टि॒सनी॒रुप॑ दधाति ।
वृष्टि॑मे॒वाव॑ रुन्धे ।
यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुव्ँ व॑र्षेत् ।
अ॒नु॒प॒रि॒हारँ॑ सादयति॒ , तस्मा॒त् सर्वा॑न् ऋ॒तून् व॑र्षति ।
“पु॒रो॒वा॒त॒सनि॑रसि” + इत्या॑ह ।
ए॒तद्वै वृष्ट्यै॑ रू॒पम् ।
रू॒पेणै॒व वृष्टि॒मव॑ रुन्धे ।

भट्टभास्कर-टीका

1वृष्टिसनीरित्यादि ॥ व्याख्यातम् । इह तु ‘पुरोवातसनिः’ इत्याद्या वेदितव्याः । एताश्च पञ्च एकैका दिक्षु एकां मध्ये । एतद्वा इति । वृष्टेरेतद्रूपं रूपणं पुरोवातकालिकं लिङ्गं रूपं तद्भावे भावात् ॥

मूलम् (संयुक्तम्)

सय्ँ॒यानी॑भि॒र्वै दे॒वा इ॒माल्ँ लो॒कान्त्सम॑यु॒स्तत्सय्ँ॒यानी॑नाँ सय्ँयानि॒त्वय्ँयत्सय्ँ॒यानी॑रुप॒दधा॑ति॒ यथा॒प्सु ना॒वा सय्ँ॒यात्ये॒वम् [40]
ए॒वैताभि॒र्यज॑मान इ॒माल्ँ लो॒कान्त्सय्ँया॑ति

विश्वास-प्रस्तुतिः

सय्ँ॒यानी॑भि॒र्वै दे॒वा इ॒माल्ँ लो॒कान्त् सम॑युः ।
तत् सय्ँ॒यानी॑नाँ सय्ँयानि॒त्वम् ।
यत् सय्ँ॒यानी॑रुप॒दधा॑ति॒ , यथा॒ऽप्सु ना॒वा सय्ँ॒याति॑ ।
ए॒वमे॒वैताभि॒र् यज॑मान इ॒माल्ँ लो॒कान्त् सय्ँया॑ति । [40]

मूलम्

सय्ँ॒यानी॑भि॒र्वै दे॒वा इ॒माल्ँ लो॒कान्त् सम॑युः ।
तत् सय्ँ॒यानी॑नाँ सय्ँयानि॒त्वम् ।
यत् सय्ँ॒यानी॑रुप॒दधा॑ति॒ , यथा॒ऽप्सु ना॒वा सय्ँ॒याति॑ ।
ए॒वमे॒वैताभि॒र् यज॑मान इ॒माल्ँ लो॒कान्त् सय्ँया॑ति । [40]

भट्टभास्कर-टीका

2संयानीभिर्वा इति ॥ ‘अग्नेर्यान्यसि’ इत्याद्याः पञ्चस्वपि चितीषूपदधाति । लोकानां संयानहेतुत्वात् संयान्यः । तत्र प्रथममध्यमोत्तमासु चितिषु द्वेद्वे उपदधाति इतरयोरेकैकाम् । संयानित्वमिति । ‘त्वेच’ इति ह्रस्वत्वम् । यथेति । यथा अप्सु नावा (अनवमनः) संयाति एवमेताभिः संयानीभिः नौस्थानीयाभिरिमान् लोकानुदधिस्थानीयान् सं याति सन्तरति ॥

मूलम् (संयुक्तम्)

प्ल॒वो वा ए॒षो॑ऽग्नेर्यत्सय्ँ॒यानी॒र्यत्सय्ँ॒यानी॑रुप॒दधा॑ति प्ल॒वमे॒वैतम॒ग्नय॒ उप॑ दधात्यु॒त यस्यै॒तासूप॑हिता॒स्वापो॒ऽग्निँ हर॒न्त्यहृ॑त ए॒वास्या॒ग्निर्

विश्वास-प्रस्तुतिः

प्ल॒वो वा ए॒षो॑ ऽग्नेर् यत्सय्ँ॒यानीः॑ ।
यत्सय्ँ॒यानी॑रुप॒दधा॑ति , प्ल॒वमे॒वैतम॒ग्नय॒ उप॑ दधाति ।

उ॒त यस्यै॒तासूप॑हिता॒स्वापो॒ऽग्निँ हर॒न्त्य् अहृ॑त ए॒वास्या॒ग्निः ।

मूलम्

प्ल॒वो वा ए॒षो॑ ऽग्नेर् यत्सय्ँ॒यानीः॑ ।
यत्सय्ँ॒यानी॑रुप॒दधा॑ति , प्ल॒वमे॒वैतम॒ग्नय॒ उप॑ दधाति ।

उ॒त यस्यै॒तासूप॑हिता॒स्वापो॒ऽग्निँ हर॒न्त्य् अहृ॑त ए॒वास्या॒ग्निः ।

भट्टभास्कर-टीका

3प्लवो वा इति ॥ प्लवस्थानीयाः संयान्योग्नेः तस्मादेतासु प्लवस्थानीयासूपहितासु यस्यामग्निमापो हरन्ति अहृत एवासौ यद्यपि हरन्ति अहृत एवेति प्रतिपादयितुमुत शब्दः । न हि प्लवेन प्लवमानोद्भिः हृतो भवति ॥

मूलम् (संयुक्तम्)

आ॑दित्येष्ट॒का उप॑ दधात्यादि॒त्या वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते॒ योऽल॒म्भूत्यै॒ सन्भूति॒न्न प्रा॒प्नोत्या॑दि॒त्याः [41]
ए॒वैन॒म्भूति॑ङ्गमयन्त्य्…

विश्वास-प्रस्तुतिः

आ॒दि॒त्ये॒ष्ट॒का उप॑ दधाति ।
आ॒दि॒त्या॒ वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते॒ , योऽल॒म्भूत्यै॒ सन्भूति॒न्न प्रा॒प्नोति ।
आ॒दि॒त्या ए॒वैन॒म् भूति॑ङ् गमयन्ति । [41]

मूलम्

आ॒दि॒त्ये॒ष्ट॒का उप॑ दधाति ।
आ॒दि॒त्या॒ वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते॒ , योऽल॒म्भूत्यै॒ सन्भूति॒न्न प्रा॒प्नोति ।
आ॒दि॒त्या ए॒वैन॒म् भूति॑ङ् गमयन्ति । [41]

भट्टभास्कर-टीका

4आदित्येष्टका इति ॥ ‘सलिलाय त्वा’ इत्याद्या अष्टौ द्वेद्वे दिक्षु मध्ये । आदित्या वा इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

अ॒सौ वा ए॒तस्या॑दि॒त्यो रुच॒मा द॑त्ते॒ यो॑ऽग्निञ्चि॒त्वा न रोच॑ते॒ यदा॑दित्येष्ट॒का उ॑प॒दधा॑त्य॒सावे॒वास्मि॑न्नादि॒त्यो रुच॑न्दधाति॒ यथा॒सौ दे॒वानाँ॒ रोच॑त ए॒वमे॒वैष म॑नु॒ष्या॑णाँ रोचते

विश्वास-प्रस्तुतिः

अ॒सौ वा ए॒तस्या॑दि॒त्यो रुच॒मा द॑त्ते॒ , यो॑ऽग्निञ् चि॒त्वा न रोच॑ते ।
यदा॑दित्येष्ट॒का उ॑प॒दधा॑त्य् , अ॒सावे॒वास्मि॑न्न् आदि॒त्यो रुच॑न् दधाति ।
यथा॒सौ दे॒वानाँ॒ रोच॑त , ए॒वमे॒वैष म॑नु॒ष्या॑णाँ रोचते ।

मूलम्

अ॒सौ वा ए॒तस्या॑दि॒त्यो रुच॒मा द॑त्ते॒ , यो॑ऽग्निञ् चि॒त्वा न रोच॑ते ।
यदा॑दित्येष्ट॒का उ॑प॒दधा॑त्य् , अ॒सावे॒वास्मि॑न्न् आदि॒त्यो रुच॑न् दधाति ।
यथा॒सौ दे॒वानाँ॒ रोच॑त , ए॒वमे॒वैष म॑नु॒ष्या॑णाँ रोचते ।

भट्टभास्कर-टीका

5असौ वा इति ॥ चित्वाप्यग्निं यो दीप्तिमान्न भवति स आदित्येष्टकोपधानेन दीप्तिमान् भवति ॥

मूलम् (संयुक्तम्)

घृतेष्ट॒का उप॑ दधात्ये॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॒ यद्घृ॒तम्प्रि॒येणै॒वैन॒न्धाम्ना॒ सम॑र्धयति [42]
अथो॒ तेज॑सा

विश्वास-प्रस्तुतिः

घृ॒ते॒ष्ट॒का उप॑ दधाति ।
ए॒तद् वा अ॒ग्नेᳶ प्रि॒यन्धाम॒ यद्घृ॒तम् ।
प्रि॒येणै॒वैन॒न् धाम्ना॒ सम॑र्धयत्यथो॒ तेज॑सा । [42]

मूलम्

घृ॒ते॒ष्ट॒का उप॑ दधाति ।
ए॒तद् वा अ॒ग्नेᳶ प्रि॒यन्धाम॒ यद्घृ॒तम् ।
प्रि॒येणै॒वैन॒न् धाम्ना॒ सम॑र्धयत्यथो॒ तेज॑सा । [42]

भट्टभास्कर-टीका

6घृतेष्टका इति ॥ ऋचेत्याद्याः पच एकैका दिक्षु एकाम्मध्ये । एतद्वा इत्यादि । प्रियं धाम स्थानं गुणभूतमस्य घृतेष्टका, प्रधानस्य तु घृतम् । अथो अपि च तेजसा समर्धयति ॥

मूलम् (संयुक्तम्)

अनुपरि॒हारँ॑ सादय॒त्यप॑रिवर्गमे॒वास्मि॒न्तेजो॑ दधाति

विश्वास-प्रस्तुतिः

अ॒नु॒प॒रि॒हारँ॑ सादय॒ति ।
अप॑रिवर्गमे॒वास्मि॒न् तेजो॑ दधाति

मूलम्

अ॒नु॒प॒रि॒हारँ॑ सादय॒ति ।
अप॑रिवर्गमे॒वास्मि॒न् तेजो॑ दधाति

भट्टभास्कर-टीका

7अनु परिहारमिति ॥ अनुक्रमेण परितो हृत्वा सादनेन अपरिवर्गं न किचिदपि परिहार्यं[य] सर्वा रुचिं दीप्तिं अस्मिन् यजमाने दधाति । घृतेश्छान्दसो घमु । घृ क्षरणदीप्त्योः । घरणहेतवो घृतेष्टकाः ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स यश॑सा॒ व्या॑र्ध्यत॒ स ए॒ता य॑शो॒दा अ॑पश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स यश॑ आ॒त्मन्न॑धत्त॒ यद्य॑शो॒दा उ॑प॒दधा॑ति॒ यश॑ ए॒व ताभि॒र्यज॑मान आ॒त्मन्ध॑त्ते॒

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर॒ग्निम् अ॑चिनुत ।
स यश॑सा॒ व्या॑र्ध्यत ।
स ए॒ता य॑शो॒दा अ॑पश्यत् ।
ता उपा॑धत्त ।
ताभि॒र्वै स यश॑ आ॒त्मन्न् अ॑धत्त ।
यद् य॑शो॒दा उ॑प॒दधा॑ति॒ , यश॑ ए॒व ताभि॒र्यज॑मान आ॒त्मन्ध॑त्ते ।

मूलम्

प्र॒जाप॑तिर॒ग्निम् अ॑चिनुत ।
स यश॑सा॒ व्या॑र्ध्यत ।
स ए॒ता य॑शो॒दा अ॑पश्यत् ।
ता उपा॑धत्त ।
ताभि॒र्वै स यश॑ आ॒त्मन्न् अ॑धत्त ।
यद् य॑शो॒दा उ॑प॒दधा॑ति॒ , यश॑ ए॒व ताभि॒र्यज॑मान आ॒त्मन्ध॑त्ते ।

भट्टभास्कर-टीका

8प्रजापतिरित्यादि यशोदानां विधिः । ताभिर्वा इति ॥ यशो ददते यजमानाय एताः ॥

मूलम् (संयुक्तम्)

पञ्चोप॑ दधाति॒ पाङ्क्त॒ᳶ पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मि॒न्यशो॑ दधाति ॥ [43]

विश्वास-प्रस्तुतिः

पञ्चोप॑ दधाति ।
पाङ्क्त॒ᳶ पुरु॑षः ।
यावा॑ने॒व पुरु॑ष॒स् तस्मि॒न्यशो॑ दधाति ॥ [43]

मूलम्

पञ्चोप॑ दधाति ।
पाङ्क्त॒ᳶ पुरु॑षः ।
यावा॑ने॒व पुरु॑ष॒स् तस्मि॒न्यशो॑ दधाति ॥ [43]

भट्टभास्कर-टीका

9एताश्च पञ्च एकैका दिक्षु एकाम्मध्ये । पाङ्क्त इति । उत्सादित्वादञ् । यावानिति । यावत्किंचित्पुरुषकृत्यं तत् सर्वं यशस्विनो भवति यशोदानामुपधातुः ॥

इति पचमे तृतीये दशमोनुवाकः ॥