मूलम् (संयुक्तम्)
सर्वा॑भ्यो॒ वै दे॒वता॑भ्यो॒ऽग्निश्ची॑यते॒ यत्स॒युजो॒ नोप॑द॒ध्याद्दे॒वता॑ अस्या॒ग्निव्ँवृ॑ञ्जीर॒न्यत्स॒युज॑ उप॒दधा॑त्या॒त्मनै॒वैनँ॑ स॒युज॑ञ्चिनुते॒ नाग्निना॒ व्यृ॑ध्य॒तेऽथो॒ यथा॒ पुरु॑ष॒स्स्नाव॑भि॒स्सन्त॑त ए॒वमे॒वैताभि॑र॒ग्निस्सन्त॑तो॒
विश्वास-प्रस्तुतिः
सर्वा॑भ्यो॒ वै दे॒वता॑भ्यो॒ऽग्निश्ची॑यते ।
यत्स॒युजो॒ नोप॑द॒ध्याद् दे॒वता॑ अस्या॒ग्निव्ँ वृ॑ञ्जीरन् ।
यत्स॒युज॑ उप॒दधा॑त्य् आ॒त्मनै॒वैनँ॑ स॒युज॑ञ् चिनुते॒ , नाग्निना॒ व्यृ॑ध्यते ।
अथो॒ यथा॒ पुरु॑ष॒स्स्नाव॑भि॒स् सन्त॑त , ए॒वमे॒वैताभि॑र् अ॒ग्निस् सन्त॑तः ।
मूलम्
सर्वा॑भ्यो॒ वै दे॒वता॑भ्यो॒ऽग्निश्ची॑यते ।
यत्स॒युजो॒ नोप॑द॒ध्याद् दे॒वता॑ अस्या॒ग्निव्ँ वृ॑ञ्जीरन् ।
यत्स॒युज॑ उप॒दधा॑त्य् आ॒त्मनै॒वैनँ॑ स॒युज॑ञ् चिनुते॒ , नाग्निना॒ व्यृ॑ध्यते ।
अथो॒ यथा॒ पुरु॑ष॒स्स्नाव॑भि॒स् सन्त॑त , ए॒वमे॒वैताभि॑र् अ॒ग्निस् सन्त॑तः ।
भट्टभास्कर-टीका
1सर्वेभ्यो वै देवताभ्य इत्यादि सयुजां विधिः ॥ सह यो यजति यजमानमग्निनेति सयुजः ‘इन्द्राग्निभ्यां’ इत्यष्टौ । ‘सहस्य सः संज्ञायाम्’ इति सभावः । सर्वदेवतार्थमग्निश्चीयते, सर्वासामप्यङ्गप्रधानदेवतानां तत्राज्यमानत्वात् । तत्र यदि सयुजो नोपदध्यात् अस्याग्निं देवता युञ्जीरन् वर्जयेरन् । तस्मात्सयुजामुपधानेन एनं सयुजं सहयुक्तं चिनुते । ततोऽयं नाग्निना व्यृध्यते अग्निसम्पाद्यया सिद्ध्या विहीनो न भवति । अथो अपि च यथा पुरुषः स्नावभिः सिराभिः सन्ततः व्याप्तः एवमैवैताभिः सयुग्भिरग्निभिः सन्ततः चित्यांचित्यां व्याप्तः । तस्मात्सर्वासु चितिषु सयुज उपदध्यादिति विधिः । तत्राद्यन्तयोरेकैकां उपदधाति ‘इन्द्राग्निभ्यां त्वा’ ‘रय्यै पोषाय सजातानां मध्यमस्थेयाय मया त्वा’ इति । द्वितीयतृतीयचतुर्थेषु द्वेद्वे ‘आघाराभ्यां त्वा’ ‘तेजसा त्वा’ इति, द्वितीयस्यां ‘वर्चसा त्वा’ ‘उक्थेभिस्त्वा’ इति, तृतीयस्यां ‘स्तोमेभिस्त्वा’ ‘छन्दोभिस्त्वा’ इति, चतुर्थ्यां ‘सयुजा युजा युनज्मि’ इति ॥
मूलम् (संयुक्तम्)
ऽग्निना॒ वै दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑य॒न्ता अ॒मूᳵ कृ॑त्तिका अभव॒न्यस्यै॒ता उ॑पधी॒यन्ते॑ सुव॒र्गमे॒व [38]
लो॒कमे॑ति॒ गच्छ॑ति प्रका॒शञ्चि॒त्रमे॒व भ॑वति
विश्वास-प्रस्तुतिः
अग्निना॒ वै दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑य॒न् , ता अ॒मूᳵ कृ॑त्तिका अभवन् ।
यस्यै॒ता उ॑पधी॒यन्ते॑ , सुव॒र्गमे॒व लो॒कमे॑ति॒ , गच्छ॑ति प्रका॒शञ् चि॒त्रमे॒व भ॑वति ।[38]
मूलम्
अग्निना॒ वै दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑य॒न् , ता अ॒मूᳵ कृ॑त्तिका अभवन् ।
यस्यै॒ता उ॑पधी॒यन्ते॑ , सुव॒र्गमे॒व लो॒कमे॑ति॒ , गच्छ॑ति प्रका॒शञ् चि॒त्रमे॒व भ॑वति ।[38]
भट्टभास्कर-टीका
2यथा देवाः गताः गच्छन्ति च प्रकाशं यथा देवा दिवि प्रकाशन्ते चित्रं चास्य चरितं चायनीयं भवति सर्वदा यथा देवानामिति । चित्रं सर्वदा भवति कृत्तिकावत् सन्निविष्टत्वात् कृत्तिकाः । देवनद्य एता इति केचित् । एताश्च दक्षिणेंऽसे गुल्मकृता उपधेयाः ॥
मूलम् (संयुक्तम्)
मण्डलेष्ट॒का उप॑ दधाती॒मे वै लो॒का म॑ण्डलेष्ट॒का इ॒मे खलु॒ वै लो॒का दे॑वपु॒रा दे॑वपु॒रा ए॒व प्र वि॑शति॒ नार्ति॒मार्च्छ॑त्य॒ग्निञ्चि॑क्या॒नो
विश्वास-प्रस्तुतिः
म॒ण्ड॒ले॒ष्ट॒का उप॑ दधाति ।
इ॒मे वै लो॒का म॑ण्डलेष्ट॒काः ।
इ॒मे खलु॒ वै लो॒का दे॑वपु॒राः ।
दे॒व॒पु॒रा ए॒व प्र वि॑शति॒ , नार्ति॒मार्च्छ॑त्य् अ॒ग्निञ् चि॑क्या॒नः ।
मूलम्
म॒ण्ड॒ले॒ष्ट॒का उप॑ दधाति ।
इ॒मे वै लो॒का म॑ण्डलेष्ट॒काः ।
इ॒मे खलु॒ वै लो॒का दे॑वपु॒राः ।
दे॒व॒पु॒रा ए॒व प्र वि॑शति॒ , नार्ति॒मार्च्छ॑त्य् अ॒ग्निञ् चि॑क्या॒नः ।
भट्टभास्कर-टीका
3मण्डलेष्टका इत्यादि ॥ प्रथममध्यमोत्तमासु चितिषु ‘पृथिव्युदपुरं’ इत्याद्याः क्रमेण उपदधाति । इमे वा इति । स्थानसामान्यात् । इमे खल्विति । देवानां पुरा वासस्थानानि । ‘ऋक्पूरब्धूः’ इत्याकारस्समासान्तः । तस्माद्देवानामेव पुरः प्रविशति न चार्तिं कांचिदपि गच्छति; कः मण्डलेष्टकावन्तं अग्निं चिक्यानः चिन्वानः । छान्दसो लिटः कानजादेशः, ‘विभाषाञ्चेः’ इति कुत्वम् ॥
मूलम् (संयुक्तम्)
वि॒श्वज्यो॑तिष॒ उप॑ दधाती॒माने॒वैताभि॑र्लो॒काञ्ज्योति॑ष्मतᳵ कुरु॒तेऽथो॑ प्रा॒णाने॒वैता यज॑मानस्य दाध्रत्य्…
विश्वास-प्रस्तुतिः
वि॒श्वज्यो॑तिष॒ उप॑ दधाति ।
इ॒माने॒वैताभि॑र् लो॒काञ् ज्योति॑ष्मतᳵ कुरुते ।
अथो॑ प्रा॒णाने॒वैता यज॑मानस्य दाध्रति ।
मूलम्
वि॒श्वज्यो॑तिष॒ उप॑ दधाति ।
इ॒माने॒वैताभि॑र् लो॒काञ् ज्योति॑ष्मतᳵ कुरुते ।
अथो॑ प्रा॒णाने॒वैता यज॑मानस्य दाध्रति ।
भट्टभास्कर-टीका
4विश्वज्योतिष इति ॥ तास्वेव चितिषु ‘बृहस्पतिस्त्वा सादयतु’ इत्याद्याः तिस्रः क्रमेणोपदधाति । विश्वज्योतिः याभिः प्राप्यते ता विश्वज्योतिषः । या मण्डलेष्टकाभिः प्रविशति इमान् लोकान् आभिर्विश्वज्योतिर्भिः ज्योतिष्मतः प्रकाशवतः कुरुते । अथो अपि च एता विश्वज्योतिषः यजमानस्य प्राणान्दाध्रति धारयति । छान्दसः शपः श्लुः । ‘तुजादीनाम्’ इत्यभ्यासस्य दीर्घत्वम् ॥
मूलम् (संयुक्तम्)
ए॒ता वै दे॒वताः॑ सुव॒र्ग्या॑स्ता ए॒वान्वा॒रभ्य॑ सुव॒र्गल्ँ लो॒कमे॑ति ॥ [39]
विश्वास-प्रस्तुतिः
ए॒ता वै दे॒वताः॑ सुव॒र्ग्याः॑ ।
ता ए॒वान्वा॒रभ्य॑ सुव॒र्गल्ँ लो॒कमे॑ति ॥ [39]
मूलम्
ए॒ता वै दे॒वताः॑ सुव॒र्ग्याः॑ ।
ता ए॒वान्वा॒रभ्य॑ सुव॒र्गल्ँ लो॒कमे॑ति ॥ [39]
भट्टभास्कर-टीका
5एता वा इति ॥ बृहस्पतिविश्वकर्मप्रजापतयः स्वर्गप्राप्तिनिमित्तभूताः । ‘गोद्व्यचः’ इति यत् । ता एवान्वारभ्य अवलम्ब्य स्वर्गं गच्छति विश्वज्योतिषामुपधाता ॥
इति पञ्चमे तृतीये नवमोनुवाकः ॥