०८

मूलम् (संयुक्तम्)

छन्दाँ॒स्युप॑ दधाति प॒शवो॒ वै छन्दाँ॑सि प॒शूने॒वाव॑ रुन्द्धे॒ छन्दाँ॑सि॒ वै दे॒वानाव्ँ॑वा॒मम्प॒शवो॑ वा॒ममे॒व प॒शूनव॑ रुन्द्ध…

विश्वास-प्रस्तुतिः

छन्दाँ॒स्युप॑ दधाति ।
प॒शवो॒ वै छन्दाँ॑सि ।
प॒शूने॒वाव॑ रुन्धे ।
छन्दाँ॑सि॒ वै दे॒वानाव्ँ॑ वा॒मम् प॒शवः॑ ।
वा॒ममे॒व प॒शूनव॑ रुन्धे ।

मूलम्

छन्दाँ॒स्युप॑ दधाति ।
प॒शवो॒ वै छन्दाँ॑सि ।
प॒शूने॒वाव॑ रुन्धे ।
छन्दाँ॑सि॒ वै दे॒वानाव्ँ॑ वा॒मम् प॒शवः॑ ।
वा॒ममे॒व प॒शूनव॑ रुन्धे ।

भट्टभास्कर-टीका

1छन्दांस्युपदधातीत्यादि ॥ छन्दोभिः गायत्र्यादिभिः उपधेया इष्टका छन्दांसि ‘अग्निर्मूर्धा’ इत्याद्याः तिस्रस्तिस्रो यथाम्नानमेकैकस्यां दिशि । पशवो वा इति । तत्साधनत्वात्ताच्छब्द्यम् । नानारूपत्वाद्वा । छन्दांसि वा इति । देवानां स्वभूतं वामं वननीयं यद्धनं पश्वात्त्मकं तत्खलु छन्दांसि । तस्माच्छन्दसामुपधानेन पश्वात्मकं धनं वाममवरुन्धे ॥

सायण-टीका

एतैर् अग्निर्मूर्धेत्य्-आदिभिः साध्यम् उपधानं विधत्ते—

छन्दांस्य् उपदधाति पशवो वै छन्दांसि पशून् एवाव रुन्धे छन्दांसि वै देवानां वामं पशवो वामम् एव पशून् अव रुन्धे

मूलम् (संयुक्तम्)

ए॒ताँ ह॒ वै य॒ज्ञसे॑नश्चैत्रियाय॒णश्चितिव्ँ॑वि॒दाञ्च॑कार॒ तया॒ वै स प॒शूनवा॑रुन्द्ध॒ यदे॒तामु॑प॒दधा॑ति प॒शूने॒वाव॑ रुन्धे ।

विश्वास-प्रस्तुतिः

ए॒ताँ ह॒ वै य॒ज्ञसे॑नश् चैत्रियाय॒णश्चितिव्ँ॑ वि॒दाञ्च॑कार ।
तया॒ वै स प॒शूनवा॑रुन्धे ।
यदे॒ताम् उ॑प॒दधा॑ति , प॒शूने॒वाव॑ रुन्धे ।

मूलम्

ए॒ताँ ह॒ वै य॒ज्ञसे॑नश् चैत्रियाय॒णश्चितिव्ँ॑ वि॒दाञ्च॑कार ।
तया॒ वै स प॒शूनवा॑रुन्धे ।
यदे॒ताम् उ॑प॒दधा॑ति , प॒शूने॒वाव॑ रुन्धे ।

भट्टभास्कर-टीका

2एतां ह वा इत्यादि ॥ यज्ञसेनो नाम चित्रियायणस्य अपत्यं पुमान् चैत्रियायणः । ‘वृद्धस्य च पूजायाम्’ इति युवत्वम्, ‘यञिञोश्च’ इति फक् । नडादिश्चायं द्रष्टव्यः । यद्वा - नडादिषु चित्रशब्दः पठ्यते । तस्माति फक् । छान्दसो यकारोपजनः । स एताः छन्दश्चितिं विदांचकार ज्ञातवान् । ‘उपविदजागृभ्यः’ इत्याम्प्रत्ययः । विदेरदन्त्विति निपातनाद्गुणाभावः । तयेत्यादि । गतम् ॥

सायण-टीका

एतां ह वै यज्ञसेनश् चैत्रियायाणश् चितिं विदां चकार तया वै स पशून् अवारुन्ध यद् एताम् उपदधाति पशून् एवाव रुन्धे (सं. का. ५ प्र. ३ अ. ८)

इति।

गायत्र्यादि-च्छन्दो-युक्तैर् मन्त्रैर् उपधेया इष्टका अपि च्छन्दांसीत्य् उच्यन्ते। तद्-उपधाने सति च्छन्दसां पशु-हेतुत्वाद् यजमानः पशून् प्राप्नोति।

किञ्च च्छन्दांस्य् एव देवानां वननीय-धन-रूपाण्य् अतस् तादृशान् पशून् अयं प्राप्नोति। किंच चित्र-नामकस्य कस्यचित् पुरुषस्य वंशे समुत्पन्नो यज्ञसेन-नामकः कश्चित् पुरुष एताभिश् छन्दोऽभिधाभिर् इष्टकाभिः संपादितां चितिं विदित्वा स्थितवान्। ततस् तयैव चित्या पशून् प्राप्नोत्। एवम् अन्योऽपि प्राप्नोति।

मूलम् (संयुक्तम्)

गाय॒त्रीᳶ पु॒रस्ता॒दुप॑ दधाति॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒व [35]
मु॒ख॒तो ध॑त्ते

विश्वास-प्रस्तुतिः

गा॒य॒त्रीᳶ पु॒रस्ता॒दुप॑ दधाति ।
तेजो॒ वै गा॑य॒त्री ।
तेज॑ ए॒व मु॑ख॒तो ध॑त्ते । [35]

मूलम्

गा॒य॒त्रीᳶ पु॒रस्ता॒दुप॑ दधाति ।
तेजो॒ वै गा॑य॒त्री ।
तेज॑ ए॒व मु॑ख॒तो ध॑त्ते । [35]

भट्टभास्कर-टीका

3गायत्रीरिति ॥ ‘अग्निर्मूर्धा’ इत्याद्याः । तेजो या इति । तेजोहेतुत्वात् तेजसा सहोत्पन्नत्वात् ॥

सायण-टीका

सामान्येन विहितं पुनर् विशेषाकारेण विधत्ते—

गायत्रीः पुरस्ताद् उपदधाति तेजो वै गायत्री तेज एव मुखतो धत्ते (सं. का. ५ प्र. ३ अ. ८)

इति।

अग्निर्मूर्धेत्य् आदिभिर् गायत्री-छन्दोभिर् युक्तैर् मन्त्रैर् उपधेया इष्टका अपि गायत्र्यः।

मूलम् (संयुक्तम्)

मूर्ध॒न्वती॑र्भवन्ति मू॒र्धान॑मे॒वैनँ॑ समा॒नाना॑ङ्करोति

विश्वास-प्रस्तुतिः

मू॒र्ध॒न्वती॑र् भवन्ति ।
मू॒र्धान॑मे॒वैनँ॑ समा॒नाना॑ङ् करोति ।

मूलम्

मू॒र्ध॒न्वती॑र् भवन्ति ।
मू॒र्धान॑मे॒वैनँ॑ समा॒नाना॑ङ् करोति ।

भट्टभास्कर-टीका

4मूर्धन्वतीरिति ॥ वयस्यासुमूर्ध्नां मतुब्विधीयते । नैता वयस्याः ; तर्हि ‘तद्वानासां’ इति न विवक्ष्यते । मूर्धशब्दवत्यो मूर्धन्वत्यः । ‘अनो नुट्’ ‘ह्रस्वनुङ्भ्यां मतुप्’ इति मतुप उदात्तत्वम् । पूर्ववत्सवर्णदीर्घत्वम् । ताभिरुपधेया अप्युपचारेण गायत्र्यः मूर्धन्वत्यश्च । मूर्धानं प्रधानमित्यर्थः ॥

सायण-टीका

मन्त्रेषु मूर्ध-शब्दस्य तात्पर्यम् आह—

मूर्धन्वतीर् भवन्ति मूर्धानम् एवैनं समानानां करोति [सं. का. ५ प्र. ३ अ. ८]

इति।

[[P2069]]

मूर्ध-शब्द-युक्तैर् मन्त्रैर् उपधेया इष्टका मूर्धन्वत्यः। समानानां मध्ये यजमानस्य मूर्धत्वं शिरोवद् उत्कृष्टत्वम्।

मूलम् (संयुक्तम्)

त्रि॒ष्टुभ॒ उप॑ दधातीन्द्रि॒यव्ँ वै त्रि॒ष्टुगि॑न्द्रि॒यमे॒व म॑ध्य॒तो ध॑त्ते॒

विश्वास-प्रस्तुतिः

त्रि॒ष्टुभ॒ उप॑ दधाति ।
इ॒न्द्रि॒यव्ँ वै त्रि॒ष्टुक् ।
इ॒न्द्रि॒यमे॒व म॑ध्य॒तो ध॑त्ते ।

मूलम्

त्रि॒ष्टुभ॒ उप॑ दधाति ।
इ॒न्द्रि॒यव्ँ वै त्रि॒ष्टुक् ।
इ॒न्द्रि॒यमे॒व म॑ध्य॒तो ध॑त्ते ।

भट्टभास्कर-टीका

5त्रिष्टुभ इति ॥ ‘भुवो यज्ञस्य’ इत्याद्या तिस्रो दक्षिणतः । इन्द्रियं वा इति । पूर्ववत्ताच्छब्द्यम् ॥

सायण-टीका

भुवो यज्ञस्येत्य् आदिभिस् त्रिष्टुप्-छन्दो-युक्तैर् मन्त्रैर् उपधेया इष्टका विधत्ते—

त्रिष्टुभ उपदधातीन्द्रियं वै त्रिष्टुग् इन्द्रियम् एव मध्यतो धत्ते (सं. का. ५ प्र. ३ अ. ८)

इति।

मूलम् (संयुक्तम्)

जग॑ती॒रुप॑ दधाति॒ जाग॑ता॒ वै प॒शवᳶ॑ प॒शूने॒वाव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

जग॑ती॒रुप॑ दधाति ।
जाग॑ता॒ वै प॒शवः॑ ।
प॒शूने॒वाव॑ रुन्धे ।

मूलम्

जग॑ती॒रुप॑ दधाति ।
जाग॑ता॒ वै प॒शवः॑ ।
प॒शूने॒वाव॑ रुन्धे ।

भट्टभास्कर-टीका

6जगतीरिति ॥ ‘जनस्य गोपाः’ इत्याद्यास्तिस्रः पश्चात् ॥

सायण-टीका

जनस्व गोपेत्य् आदिभिर् जगती-छन्दोभिर् मन्त्रैर् उपधेया इष्टका विधत्ते–

जगतीर् उपदधाति जागता वै पशवः पशून् एवाव रुन्धे (सं. का. ५ प्र. ३ अ. ८)

इति।

मूलम् (संयुक्तम्)

ऽनु॒ष्टुभ॒ उप॑ दधाति प्रा॒णा वा अ॑नु॒ष्टुप्प्रा॒णाना॒मुत्सृ॑ष्ट्यै

विश्वास-प्रस्तुतिः

अ॒नु॒ष्टुभ॒ उप॑ दधाति ।
प्रा॒णा वा अ॑नु॒ष्टुप् ।
प्रा॒णाना॒मुत्सृ॑ष्ट्यै ।

मूलम्

अ॒नु॒ष्टुभ॒ उप॑ दधाति ।
प्रा॒णा वा अ॑नु॒ष्टुप् ।
प्रा॒णाना॒मुत्सृ॑ष्ट्यै ।

भट्टभास्कर-टीका

7अनुष्टुभ इति ॥ ‘त्वां चित्रश्रवस्तम’ इत्याद्यास्तिस्रः उत्तरतः । प्राणानामुत्सृष्ट्या इति । अनिरोधायेत्यर्थः ॥

सायण-टीका

त्वां चित्रश्रवस्तमेत्य् आदिभिर् अनुष्टुप्-छन्दो-युक्तैर् मन्त्रैर् उपधेया इष्टका विधत्ते—

अनुष्टुभ उपदधाति प्राणा वा अनुष्टुप् प्राणानाम् उत्सृष्ट्यै (सं. का. ५ प्र. ३ अ. ८)

इति।

मूलम् (संयुक्तम्)

बृह॒तीरु॒ष्णिहाः॑ प॒ङ्क्तीर॒क्षर॑पङ्क्ती॒रिति॒ विषु॑रूपाणि॒ छन्दाँ॒स्युप॑ दधाति॒ विषु॑रूपा॒ वै प॒शवᳶ॑ प॒शवः॑ [36]
छन्दाँ॑सि॒ विषु॑रूपाने॒व प॒शूनव॑ रुन्द्धे॒ विषु॑रूपमस्य गृ॒हे दृ॑श्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद

विश्वास-प्रस्तुतिः

बृ॒ह॒तीरु॒ष्णिहाः॑ प॒ङ्क्तीर् अ॒क्षर॑पङ्क्ती॒रिति॒ विषु॑रूपाणि॒ छन्दाँ॒स्युप॑ दधाति ।
विषु॑रूपा॒ वै प॒शवᳶ॑ ।
प॒शव॒श् छन्दाँ॑सि ।[36]
विषु॑रूपाने॒व प॒शूनव॑ रुन्धे ।
विषु॑रूपमस्य गृ॒हे दृ॑श्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद॑ ।

मूलम्

बृ॒ह॒तीरु॒ष्णिहाः॑ प॒ङ्क्तीर् अ॒क्षर॑पङ्क्ती॒रिति॒ विषु॑रूपाणि॒ छन्दाँ॒स्युप॑ दधाति ।
विषु॑रूपा॒ वै प॒शवᳶ॑ ।
प॒शव॒श् छन्दाँ॑सि ।[36]
विषु॑रूपाने॒व प॒शूनव॑ रुन्धे ।
विषु॑रूपमस्य गृ॒हे दृ॑श्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

8बृहतीरित्यादि ॥ उक्तमुपधानं सम्प[समानपा]दानां गायत्रीत्रिष्टुप्जगत्यनुष्टुभाम् । बृहतीरुष्णिहाः पङ्क्तीरक्षरपङ्क्तीरित्येतानि विषुरूपाणि विषमरूपतया नानारूपाणि उपदध्यात् । तत्र मध्ये बृहतीस्तिस्र उपदधाति ‘एना वः’ इत्याद्याः बृहती द्वादशाक्षरा त्रयश्चाष्टाक्षरा इति विषमपादत्वम् । तत्र प्रथमातृतीये पथ्याबृहत्यौ । द्वितीया पुरस्ताद्बृहती चतुरक्षराभिक्रान्ता । अथ पुरस्तादुष्णिहस्तिस्रं उपदधाति ‘अग्ने वाजस्य’ इत्याद्याः । द्वाम्यामष्टाक्षराभ्यां द्वादशाक्षरेण चैकेनेति विषुरूपत्वम् । (निरोपि परोष्णिहः) । अथ पङ्क्तीस्तिस्रो दक्षिणत उपदधाति ‘आ ते अग्ने’ इत्याद्याः । सर्वाश्चैताः पङ्क्तयः यथोक्तं ‘पथ्या पञ्चभिरष्टाक्षरैः’ इति । अत्र पादसङ्ख्याविषमत्वात् विषुरूपत्वम् । अथाष्टाक्षरपङ्क्तीश्चतस्रः पश्चादुपदधाति ‘अग्ने तमद्य’ इत्याद्याः । ननु यत्र चत्वारः पञ्चकाः द्वौ भूयो वा तामक्षरपङ्क्तिमाहुः यत्र तु पञ्च पञ्चकाः यत्र वा पञ्चपञ्चकाः चतुष्कषट्कौ यत्र वा चत्वारः पञ्चकाः षट्कश्चैकः तां त्रिविधां पदपङ्क्तिमाहुः । अत्र चैतासां पदपङ्क्तित्वं पश्यामः । अत्र ब्रूमः - श्रुतिप्रामाणादक्षरपङ्क्तेः ल- क्षणान्तरं मृग्यम् । स्पष्टं विषुरूपत्वमासाम् । विषुरूपमस्येति । विदुषः फलम् । नारूपं हिरण्यरजतादि अस्य गृहे सर्वदा दृश्यते य एवं विद्वानेता उपदधतीति ॥

सायण-टीका

एना वो अग्निम् इत्य् आदिभिर्, अग्ने याजस्येत्य् आदिभिर्, आ ते अग्न इधीमहीत्य् आदिभिर्, अग्ने तम् अद्येत्य् आदिभिश् चोपधेया विधत्ते—

बृहतीर् उष्णिहाः पङ्क्तीर् अक्षर-पङ्क्तीर् इति विषुरूपाणि छन्दांस्य् उपदधाति विषुरूपा वै पशवः पशवश् छन्दांसि विषुरूपान् एव पशून् अव रुन्धे [सं. का. ५ प्र. ३ अ. ८]

इति।

पूर्वोक्तेषुच्छन्दःसु समानाक्षराः सर्वे पादाः। बृहत्यादिषु विषमाक्षराः। अतो विषुरूपत्वम्। पशवो ‘पि गो-महिषादयः परस्पर-विलक्षणत्वाद्विषुरूपाः। छन्दसां च पशु-हेतुत्वात् पशुत्वम्। तथा सत्य् एतद्-उपधानेन बहुविधान् पशून् आप्नोति।

मूलम् (संयुक्तम्)

अति॑च्छन्दस॒मुप॑ दधा॒त्यति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाँ॑सि॒ सर्वे॑भिरे॒वैन॒ञ्छन्दो॑भिश्चिनुते॒

विश्वास-प्रस्तुतिः

अति॑च्छन्दस॒मुप॑ दधाति ।
अति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाँ॑सि ।
सर्वे॑भिर् ए॒वैन॒ञ् छन्दो॑भिश् चिनुते ।

मूलम्

अति॑च्छन्दस॒मुप॑ दधाति ।
अति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाँ॑सि ।
सर्वे॑भिर् ए॒वैन॒ञ् छन्दो॑भिश् चिनुते ।

भट्टभास्कर-टीका

9अतिच्छन्दसमित्यादि ॥ उत्तरतो मध्ये वा अतिच्छन्दसमुपदधाति ‘अग्निं होतारं’ इत्यष्टिं सप्तपदामेकाम् । गायत्र्यादिजगत्यन्तान्यतिछन्दांसि । सर्वाणीति । जगत्यन्तानां सर्वासां तत्रान्तर्भावात् । सर्वेभिरिति । ‘बहुलं छन्दसि’ इत्यैसभावः ॥

सायण-टीका

अथोपधानं वेदनं च प्रशंसति।

विषुरूपम् अस्य गृहे दृश्यते यस्यैता उपधीयन्ते य उ चैना एवं वेद [सं. का. ५ प्र. ३ अ. ८]

इति।

विषुरूपं बहुविधं धनम्।

अग्निं होतारम् इति मन्त्रेणोपधेयां विधत्ते–

अतिच्छन्दसम् उपदधात्य् अतिच्छन्दा वै सर्वाणि छन्दांसि सर्वेभिर् एवैनं [[P2070]] छन्दोभिश् चिनुते

मूलम् (संयुक्तम्)

वर्ष्म॒ वा ए॒षा छन्द॑साय्ँ॒यदति॑च्छन्दा॒ यदति॑च्छन्दसमुप॒दधा॑ति॒ वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करोति

विश्वास-प्रस्तुतिः

वर्ष्म॒ वा ए॒षा छन्द॑साय्ँ॒यदति॑च्छन्दा ।
यदति॑च्छन्दसमुप॒दधा॑ति॒ , वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ् करोति ।

मूलम्

वर्ष्म॒ वा ए॒षा छन्द॑साय्ँ॒यदति॑च्छन्दा ।
यदति॑च्छन्दसमुप॒दधा॑ति॒ , वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ् करोति ।

भट्टभास्कर-टीका

10वर्ष्मेति ॥ उच्छ्रायवत्त्वात्ताच्छब्द्यम् । समानानां मध्ये यजमानमुच्छ्रितं करोति ॥

सायण-टीका

वर्ष्म वा एषा छन्दसां यद् अतिच्छन्दा यद् अतिच्छन्दसम् उपदधाति वर्ष्मैवैनं समानानां करोति (सं. का. ५ प्र. ३ अ. ८)

इति।

गायत्र्यादीनां सर्व-च्छन्दसां येयम् अक्षर-संख्या तस्या अतिच्छन्दस्त्वाभा (स्यन्तर्भा) वात् सर्व-च्छन्दो-रूपत्वम्।

किञ्च सर्वेषाम् अन्तर्भावाद् एवैतदीय-इष्टकाऽतिच्छन्दोऽभिधानाद् अन्यासां छन्दोऽभिधानानाम् इष्टकानां शरीरम्। अत एतद्-उपधानेन यजमानं समानानां पुरुषाणां शरीर-स्थानं करोति, सर्वेऽप्य् एनम् अनु जीवन्तीत्य् अर्थः।

मूलम् (संयुक्तम्)

द्वि॒पदा॒ उप॑ दधाति द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ॥ [37]

विश्वास-प्रस्तुतिः

द्वि॒पदा॒ उप॑ दधाति ।
द्वि॒पाद् यज॑मानः ।
प्रति॑ष्ठित्यै ॥ [37]

मूलम्

द्वि॒पदा॒ उप॑ दधाति ।
द्वि॒पाद् यज॑मानः ।
प्रति॑ष्ठित्यै ॥ [37]

भट्टभास्कर-टीका

11द्विपदा इति ॥ मध्ये उत्तरतो वा तिस्रः ‘अग्ने त्वं नः’ इत्याद्याः । सर्वाश्चैता विराजः विराड्जागतगायत्राभ्यामिति, द्वौ पादौ आसामिति बहुव्रीहौ ‘सङ्ख्यासुपूर्वस्य’ इति लोपे समासान्ते ‘टाबृचि’ इति टाप्, ‘पादः पत्’ इति पद्भावः, ‘द्वित्रिभ्यां पद्दन्’ इत्यन्तोदात्तत्वम् । द्विपदानामासामुपधानं द्विपदो यजमानस्य प्रतिष्ठित्यै भवतीति । ‘उदेतौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥

इति पञ्चमे तृतीये अष्टमोनुवाकः ॥

सायण-टीका

अग्ने त्वं न इत्य् आदिभिर् उपधेया इष्टका विधत्ते—

द्विपदा उपदधाति द्विपद् यजमानः प्रतिष्ठित्यै (सं. का. ५ प्र. ३ अ. ८)

इति।