०७

मूलम् (संयुक्तम्)

ना॒क॒सद्भि॒र्वै दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑य॒न्तन्ना॑क॒सदा॑न्नाकस॒त्त्वय्ँयन्ना॑क॒सद॑ उप॒दधा॑ति नाक॒सद्भि॑रे॒व तद्यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति सुव॒र्गो वै लो॒को नाको॒ यस्यै॒ता उ॑पधी॒यन्ते॒ नास्मा॒ अक॑म्भवति

विश्वास-प्रस्तुतिः

ना॒क॒सद्भि॒र्वै दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
तन् ना॑क॒सदा॑न् नाकस॒त्त्वम् ।
यन्ना॑क॒सद॑ उप॒दधा॑ति नाक॒सद्भि॑रे॒व तद् यज॑मानस् सुव॒र्गल्ँ लो॒कमे॑ति ।
सु॒व॒र्गो वै लो॒को नाकः॑ ।
यस्यै॒ता उ॑पधी॒यन्ते॒ , नास्मा॒ अक॑म्भवति ।

मूलम्

भट्टभास्कर-टीका

1नाकसद्भिरित्यादिना नाकसदां विधिः ॥ नाकस्य पृष्ठे स्वर्गे लोके इत्यनुषङ्गः । तेनोपलक्षिता नाकसदः ‘राज्ञ्यसि’ इत्यादयः पञ्च एकैका दिक्षु एकां मध्ये उपदधानः अस्माकं कं सुखं अकं दुखं तत्स्वभावो न भवतीति नाकः । ‘नभ्राण्णपात्’ इति प्रकृत्या भावः ॥

मूलम् (संयुक्तम्)

यजमानायत॒नव्ँ वै ना॑क॒सदो॒ यन्ना॑क॒सद॑ उप॒दधा॑त्या॒यत॑नमे॒व तद्यज॑मानᳵ कुरुते

विश्वास-प्रस्तुतिः

य॒ज॒मा॒ना॒य॒त॒नव्ँ वै ना॑क॒सदः ।
यन्ना॑क॒सद॑ उप॒दधा॑त्य् , आ॒यत॑नमे॒व तद्यज॑मानᳵ कुरुते ।

मूलम्

य॒ज॒मा॒ना॒य॒त॒नव्ँ वै ना॑क॒सदः ।
यन्ना॑क॒सद॑ उप॒दधा॑त्य् , आ॒यत॑नमे॒व तद्यज॑मानᳵ कुरुते ।

भट्टभास्कर-टीका

2यजमानायतनमिति ॥ तत्साधनत्वात्ताच्छब्द्यम् ॥

मूलम् (संयुक्तम्)

पृ॒ष्ठानाव्ँ॒वा ए॒तत्तेज॒स्सम्भृ॑तय्ँ॒यन्ना॑क॒सदो॒ यन्ना॑क॒सदः॑ [31]
उ॒प॒दधा॑ति पृ॒ष्ठाना॑मे॒व तेजोऽव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

पृ॒ष्ठानाव्ँ॒ वा ए॒तत्तेज॒स् सम्भृ॑तय्ँ॒ यन्ना॑क॒सदः॑ ।
यन्ना॑क॒सद॑ उप॒दधा॑ति पृ॒ष्ठाना॑मे॒व तेजोऽव॑ रुन्धे । [31]

मूलम्

पृ॒ष्ठानाव्ँ॒ वा ए॒तत्तेज॒स् सम्भृ॑तय्ँ॒ यन्ना॑क॒सदः॑ ।
यन्ना॑क॒सद॑ उप॒दधा॑ति पृ॒ष्ठाना॑मे॒व तेजोऽव॑ रुन्धे । [31]

भट्टभास्कर-टीका

3पृष्ठानामिति ॥ रथन्तरादीनां साम्नां तेजस्सम्भृतं इष्टकारूपेण । तस्मात् पृष्ठसाध्यं तेजः आसामुपधानेन लभते ॥

मूलम् (संयुक्तम्)

पञ्च॒चोडा॒ उप॑ दधात्यप्स॒रस॑ ए॒वैन॑मे॒ता भू॒ता अ॒मुष्मिल्ँ॑ लो॒क उप॑ शे॒रेऽथो॑ तनू॒पानी॑रे॒वैता यज॑मानस्य॒ यन्द्वि॒ष्यात्तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑ ए॒वैन॑न्दे॒वता॑भ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्य्…

विश्वास-प्रस्तुतिः

प॒ञ्च॒चोडा॒ उप॑ दधाति ।
अ॒प्स॒रस॑ ए॒वैन॑मे॒ता भू॒ता अ॒मुष्मिल्ँ॑ लो॒क उप॑ शेरे ।
अथो॑ तनू॒पानी॑रे॒वैता यज॑मानस्य ।
यन्द्वि॒ष्यात् तमु॑प॒दध॑द् ध्यायेत् ।
ए॒ताभ्य॑ ए॒वैन॑न् दे॒वता॑भ्य॒ आ वृ॑श्चति ।
ता॒जगार्ति॒मार्च्छ॑ति ।

4पञ्चचोडा इति ॥ उपरिष्टान्नाकसदामुपदधाति तस्मा त्प्राचीमुत्तमां नाकसद एव ‘अयं पुरो हरिकेशः’ इत्याद्याः पञ्च एकैका दिक्षु एकां मध्ये । चुड संवरणे, चोडाः संवृताभ्यः अप्सरसः संस्तवात् पञ्चैव चोडाः पञ्चचोडाः । ‘दिक्संख्ये सज्ञायाम्’ इति समासः सप्तर्षिवत् । एताः पञ्चचोडाः अप्सरसः एवम्भूता अमुष्मिन् लोके यजमानमुपशेरते रमयन्ति जायाभूताः । ‘लोपस्त आत्मनेपदेषु’ इति लोपः ‘बहुलं छन्दसि’ इति रुट् । अथो अपि च एता यजमानस्य तनूपानीः शरीरस्य पालिन्यः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । तस्माद्यजमानो यं द्विष्यात्तं पुरुषं एता उपदध्यात् । एताभ्यः तनूपानीभ्यः पञ्चचोडाभ्यो देवताभ्य एनं द्वेष्यमावृश्चति छिनत्ति पृथक्त्वेनोपधानकाले ध्यातत्वात् । ततश्च विनष्टतनुस्सन् तदानीमेवार्तिं गच्छति ॥

मूलम् (संयुक्तम्)

उत्त॑रा नाक॒सद्भ्य॒ उप॑ दधाति॒ यथा॑ जा॒यामा॒नीय॑ गृ॒हेषु॑ निषा॒दय॑ति ता॒दृगे॒व तत् [32]

विश्वास-प्रस्तुतिः

उत्त॑रा नाक॒सद्भ्य॒ उप॑ दधाति ।
यथा॑ जा॒यामा॒नीय॑ गृ॒हेषु॑ निषा॒दय॑ति , ता॒दृगे॒व तत् । [32]

मूलम्

उत्त॑रा नाक॒सद्भ्य॒ उप॑ दधाति ।
यथा॑ जा॒यामा॒नीय॑ गृ॒हेषु॑ निषा॒दय॑ति , ता॒दृगे॒व तत् । [32]

भट्टभास्कर-टीका

5उत्तरा इत्यादि ॥ उत्तराः उद्गततरा नाकसद्भ्य उपदधाति पञ्चचोडाः । यथेत्यादि । आयतनस्थानीयानां नाकसदां उपरि जायास्थानीयानां पञ्चचोडानां उपधानात् ॥

मूलम् (संयुक्तम्)

प॒श्चात्प्राची॑मुत्त॒मामुप॑ दधाति॒ तस्मा॑त्प॒श्चात्प्राची॒ पत्न्यन्वा॑स्ते स्वयमातृ॒ण्णाञ्च॑ विक॒र्णीञ्चो॑त्त॒मे उप॑ दधाति

विश्वास-प्रस्तुतिः

प॒श्चात् प्राची॑मुत्त॒मामुप॑ दधाति ।
तस्मा॑त् प॒श्चात् प्राची॒ पत्न्यन्वा॑स्ते ।
स्व॒य॒मा॒तृ॒ण्णाञ्च॑ विक॒र्णीञ्चो॑त्त॒मे उप॑ दधाति ।

मूलम्

प॒श्चात् प्राची॑मुत्त॒मामुप॑ दधाति ।
तस्मा॑त् प॒श्चात् प्राची॒ पत्न्यन्वा॑स्ते ।
स्व॒य॒मा॒तृ॒ण्णाञ्च॑ विक॒र्णीञ्चो॑त्त॒मे उप॑ दधाति ।

भट्टभास्कर-टीका

6पश्चात्प्राचीमित्यादि ॥ प्राच्यां प्राङ्मुख उत्तमां अन्त्यामुपदधाति । केचिदाहुः - प्राचीं दक्षिणां उत्तरां मध्यमाञ्चोपधाय प्रतीच्यां दिशि क्रमोपधेया तृतीया ॥

मूलम् (संयुक्तम्)

प्रा॒णो वै स्व॑यमातृ॒ण्णायु॑र्विक॒र्णी प्रा॒णञ्चै॒वायु॑श्च प्रा॒णाना॑मुत्त॒मौ ध॑त्ते॒ तस्मा॑त्प्रा॒णश्चायु॑श्च प्रा॒णाना॑मुत्त॒मौ नान्यामुत्त॑रा॒मिष्ट॑का॒मुप॑ दध्या॒द्…

विश्वास-प्रस्तुतिः

प्रा॒णो वै स्व॑यमातृ॒ण्णायु॑र्विक॒र्णी ।
प्रा॒णञ्चै॒वायु॑श्च प्रा॒णाना॑मुत्त॒मौ ध॑त्ते ।
तस्मा॑त् प्रा॒णश्चायु॑श्च प्रा॒णाना॑मुत्त॒मौ ।
नान्यामुत्त॑रा॒मिष्ट॑का॒मुप॑ दध्यात् ।

मूलम्

प्रा॒णो वै स्व॑यमातृ॒ण्णायु॑र्विक॒र्णी ।
प्रा॒णञ्चै॒वायु॑श्च प्रा॒णाना॑मुत्त॒मौ ध॑त्ते ।
तस्मा॑त् प्रा॒णश्चायु॑श्च प्रा॒णाना॑मुत्त॒मौ ।
नान्यामुत्त॑रा॒मिष्ट॑का॒मुप॑ दध्यात् ।

भट्टभास्कर-टीका

7प्राणो वा इत्यादि ॥ प्राणस्थानीया स्वयमातृण्णा विकर्णी चापि शब्द्यते ॥

मूलम् (संयुक्तम्)

यद॒न्यामुत्त॑रा॒मिष्ट॑कामुपद॒ध्यात्प॑शू॒नाम् [33]
च॒ यज॑मानस्य च प्रा॒णञ्चायु॒श्चापि॑ दध्या॒त्तस्मा॒न्नान्योत्त॒रेष्ट॑कोप॒धेया॑

विश्वास-प्रस्तुतिः

यद् अ॒न्यामुत्त॑रा॒म् इष्ट॑कामुपद॒ध्यात् , प॑शू॒नाम् च॒ यज॑मानस्य च प्रा॒णञ् चायु॒श्चापि॑ दध्यात् । [33]
तस्मा॒न् नान्योत्त॒रेष्ट॑कोप॒धेया॑ ।

मूलम्

यद् अ॒न्यामुत्त॑रा॒म् इष्ट॑कामुपद॒ध्यात् , प॑शू॒नाम् च॒ यज॑मानस्य च प्रा॒णञ् चायु॒श्चापि॑ दध्यात् । [33]
तस्मा॒न् नान्योत्त॒रेष्ट॑कोप॒धेया॑ ।

भट्टभास्कर-टीका

8यदित्यादि ॥ अपिदध्यात् तिरोदध्यात् नाशयेत् । तस्मादन्या तयोरुपरि निधेयेति ॥

मूलम् (संयुक्तम्)

स्वयमातृ॒ण्णामुप॑ दधात्य॒सौ वै स्व॑यमातृ॒ण्णामूमे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्या॑न्दधा॒त्यथो॑ प्राजाप॒त्यो वा अश्वᳶ॑ प्र॒जाप॑तिनै॒वाग्निञ्चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुत्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या

विश्वास-प्रस्तुतिः

स्व॒य॒मा॒तृ॒ण्णामुप॑ दधाति ।
अ॒सौ वै स्व॑यमातृ॒ण्णामूमे॒वोप॑ ध॒त्ते ।
अश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्या॑न् दधाति ।
अथो॑ प्राजाप॒त्यो वा अश्वᳶ॑ , प्र॒जाप॑तिनै॒वाग्निञ् चि॑नुते ।
स्व॒य॒मा॒तृ॒ण्णा भ॑वति प्रा॒णाना॒मुत्सृ॑ष्ट्या॒ , अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।

9स्वयमातृण्णामित्यादि ॥ व्याख्यातम् । ‘असौ वै’ इत्यादि शेषः ॥

मूलम् (संयुक्तम्)

ए॒षा वै दे॒वानाव्ँ॒विक्रा॑न्ति॒र्यद्वि॑क॒र्णी यद्वि॑क॒र्णीमु॑प॒दधा॑ति दे॒वाना॑मे॒व विक्रा॑न्ति॒मनु॒ वि क्र॑मत

विश्वास-प्रस्तुतिः

ए॒षा वै दे॒वानाव्ँ॒ विक्रा॑न्ति॒र् यद् वि॑क॒र्णी ।

यद् वि॑क॒र्णीम् उ॑प॒दधा॑ति , दे॒वाना॑मे॒व विक्रा॑न्ति॒मनु॒ वि क्र॑मते ।

मूलम्

ए॒षा वै दे॒वानाव्ँ॒ विक्रा॑न्ति॒र् यद् वि॑क॒र्णी ।

यद् वि॑क॒र्णीम् उ॑प॒दधा॑ति , दे॒वाना॑मे॒व विक्रा॑न्ति॒मनु॒ वि क्र॑मते ।

भट्टभास्कर-टीका

10एषा वा इत्यादि ॥ विक्रान्तिः विजयशक्तिः तामनुविक्रमते तया सहाप्रतिबन्धेन आक्रामति । तृतीयार्थेऽनोः कर्मप्रवचनीयत्वम् । ‘वृत्तिसर्गतायनेषु क्रमः’ इति वृत्तावात्मनेपदम् ॥

मूलम् (संयुक्तम्)

उत्तर॒त उप॑ दधाति॒ तस्मा॑दुत्तर॒तउ॑पचारो॒ऽग्निर्…

विश्वास-प्रस्तुतिः

उ॒त्त॒र॒त उप॑ दधाति ।
तस्मा॑दुत्तर॒त उ॑पचारो॒ऽग्निः ।

मूलम्

उ॒त्त॒र॒त उप॑ दधाति ।
तस्मा॑दुत्तर॒त उ॑पचारो॒ऽग्निः ।

भट्टभास्कर-टीका

11उत्तरत इति ॥ उत्तरतः प्रक्रमवेलायां प्रकीर्णमुपदधाति । उत्तरत उपचारः उत्तरस्यां दिशि कर्तव्या उपचारा यस्य तादृशोग्निः तस्माद्भवति ॥

मूलम् (संयुक्तम्)

वा॑यु॒मती॑ भवति॒ समि॑द्ध्यै ॥ [34]

विश्वास-प्रस्तुतिः

वा॒यु॒मती॑ भवति ।
समि॑द्ध्यै ॥ [34]

मूलम्

वा॒यु॒मती॑ भवति ।
समि॑द्ध्यै ॥ [34]

भट्टभास्कर-टीका

12वायुमतीति ॥ वायुशब्दवान्मन्त्रः ‘आदस्य वातः’ इति । ‘ह्रस्वनुङ्भ्यां मतुप्’ इति मतुप उदात्तत्वम् । समिध्या इति । अग्नेस्समिन्धनार्थाम् । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥

इति पञ्चमे तृतीये सप्तमोनुवाकः ॥