मूलम् (संयुक्तम्)
र॒श्मिरित्ये॒वादि॒त्यम॑सृजत॒ प्रेति॒रिति॒ धर्म॒मन्वि॑ति॒रिति॒ दिवँ॑ स॒न्धिरित्य॒न्तरि॑क्षम्प्रति॒धिरिति॑ पृथि॒वीव्ँ वि॑ष्ट॒म्भ इति॒ वृष्टि॑म्प्र॒वेत्यह॑रनु॒वेति॒ रात्रि॑मु॒शिगिति॒ वसू॑न्प्रके॒त इति॑ रु॒द्रान्त्सु॑दी॒तिरित्या॑दि॒त्यानोज॒ इति॑ पि॒तॄँस्तन्तु॒रिति॑ प्र॒जाᳶ पृ॑तना॒षाडिति॑ प॒शून्रे॒वदित्योष॑धीर्…
विश्वास-प्रस्तुतिः
र॒श्मिरित्ये॒वादि॒त्यम् अ॑सृजत ।
प्रेति॒रिति॒ धर्म॑म् ।
अन्वि॑ति॒रिति॒ दिव॑म् ।
स॒न्धिरित्य॒न्तरि॑क्षम् ।
प्रति॒धिरिति॑ पृथि॒वीम् ।
वि॒ष्ट॒म्भ इति॒ वृष्टि॑म् ।
प्र॒वेत्यह॑रनु॒वेति॒ रात्रि॑म् ।
उ॒शिगिति॒ वसू॑न् ।
प्र॒के॒त इति॑ रु॒द्रान् ।
सु॒दी॒तिरित्या॑दि॒त्यान् ।
ओज॒ इति॑ पि॒तृन् ।
तन्तु॒रिति॑ प्र॒जाः ।
पृ॒त॒ना॒षाडिति॑ प॒शून् ।
रे॒वदित्योष॑धीः ।
मूलम्
र॒श्मिरित्ये॒वादि॒त्यम् अ॑सृजत ।
प्रेति॒रिति॒ धर्म॑म् ।
अन्वि॑ति॒रिति॒ दिव॑म् ।
स॒न्धिरित्य॒न्तरि॑क्षम् ।
प्रति॒धिरिति॑ पृथि॒वीम् ।
वि॒ष्ट॒म्भ इति॒ वृष्टि॑म् ।
प्र॒वेत्यह॑रनु॒वेति॒ रात्रि॑म् ।
उ॒शिगिति॒ वसू॑न् ।
प्र॒के॒त इति॑ रु॒द्रान् ।
सु॒दी॒तिरित्या॑दि॒त्यान् ।
ओज॒ इति॑ पि॒तृन् ।
तन्तु॒रिति॑ प्र॒जाः ।
पृ॒त॒ना॒षाडिति॑ प॒शून् ।
रे॒वदित्योष॑धीः ।
भट्टभास्कर-टीका
1उक्तं - यज्ञेन वै प्रजापतिः प्रजा असृजत तास्स्तोमभागैरेवासृजत’ इति । तत्र केन कामसृजतेत्याह - रश्मिरित्येवेति ॥ ‘रश्मिरसि क्षयाय त्वा क्षयं जिन्व’ इत्यनेनादित्यमसृजतेत्येवं रश्मिमान् रशिमरादित्यः । मत्वर्थीयो लुप्यते । क्षयन्ति निवसन्ति सर्वे देवा अस्मिन्निति क्षय आदित्यः । ‘क्षयो निवासे’ इत्याद्युदात्तत्वम् । प्रकृष्टा गतिः प्रेतिः धर्मसुकृतार्जनानन्तरं भोगाय गम्यत इति । अन्वितिरिति द्यौः । उभयत्रापि ‘तादौच’ इति गतेः प्रकृतिस्वरत्वम् । सन्धीयेते द्यावापृथिव्यावनेनेति सन्धिः अन्तरिक्षम् । ‘उपसर्गे घोः किः’ प्रत्येकं धारयति मातृवत्प्रजा इति प्रतिधिः पृथिवी । पूर्ववत्किः । विष्टभ्यन्ते धार्यन्ते प्रजा अनेनेति विष्टम्भो वृष्टिः । थाथादिना उत्तरपदान्तोदात्तत्वम् । प्रथमतः प्राप्यन्ते बुध्यन्त इति वा । दिव उकारान्तादेशः ‘मन् क्तिन् व्याख्यान’ इत्यादिना उत्तरपदान्तोदात्तत्वम् । बहुव्रीहौ ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । उशिजो वसवः । वश कान्तौ इति । प्रकृष्टज्ञाना रुद्राः । कित ज्ञाने । शोभनदीधितयः आदित्याः । ओजस्विनः पितरः । मत्वर्थीयो लुप्यते । तन्तवः प्रजाः पृतनाः मनुष्यसङ्घातान् सहन्ति क्षीरादिना धारयन्तीति पृतनाषाहः पशवः । ‘छन्दसि सहः’ इति ‘सहेः पृतनर्ताभ्याम्’ इति षत्वम् । रेवत् धनवत् । धनवत्यः ओषधयः । क्रियाविनिमयादिना धनसाधनत्वात् धनवत्यः । सामान्यविवक्षया नपुंसकत्वम् । ‘रयेर्मतौ बहुलम्’ इति संप्रसारणम् । ‘रेशब्दाच्च’ इति मतुपो वत्त्वम् ॥
मूलम् (संयुक्तम्)
अभि॒जिद॑सि यु॒क्तग्रा॑वा [28]
इन्द्रा॑य॒ त्वेन्द्र॑ञ्जि॒न्वेत्ये॒व द॑क्षिण॒तो वज्र॒म्पर्यौ॑हद॒भिजि॑त्यै॒
विश्वास-प्रस्तुतिः
अ॒भि॒जिद॑सि ।
यु॒क्तग्रा॒वेन्द्रा॑य त्वेन्द्र॑ञ् जि॒न्वेत्ये॒व द॑क्षिण॒तो वज्र॒म्पर्यौ॑हत् । [28]
अ॒भिजि॑त्यै ।
मूलम्
अ॒भि॒जिद॑सि ।
यु॒क्तग्रा॒वेन्द्रा॑य त्वेन्द्र॑ञ् जि॒न्वेत्ये॒व द॑क्षिण॒तो वज्र॒म्पर्यौ॑हत् । [28]
अ॒भिजि॑त्यै ।
भट्टभास्कर-टीका
2आभिमुख्येन सपत्नान् जयतीत्यभिजिदिन्द्रः । वज्रं वज्रवन्तं कृत्वा जयिनं अनेनेन्द्रमकरोदित्यभिप्रायः । दक्षिणत इत्यादि । अनेन मन्त्रेण दक्षिणे हस्ते वज्रं अधारयत् प्रजापत्यनुग्रहादिन्द्रः । तस्मादनेन मन्त्रेणोपधानमभिजित्यै भवति ॥
मूलम् (संयुक्तम्)
ताᳶ प्र॒जा अप॑प्राणा असृजत॒ तास्वधि॑पतिर॒सीत्ये॒व प्रा॒णम॑दधाद्य॒न्तेत्य॑पा॒नँ सँ॒सर्प॒ इति॒ चक्षु॑र्वयो॒धा इति॒ श्रोत्र॒न्ताᳶ प्र॒जाᳶ प्रा॑ण॒तीर॑पान॒तीᳶ पश्य॑न्तीश्शृण्व॒तीर्न मि॑थु॒नी अ॑भव॒न्
विश्वास-प्रस्तुतिः
ताᳶ प्र॒जा अप॑प्राणा असृजत ।
तास्वधि॑पतिर् अ॒सीत्ये॒व प्रा॒णम॑दधात् ।
य॒न्तेत्य॑पा॒नम् ।
सँ॒सर्प॒ इति॒ चक्षुः॑ ।
व॒यो॒धा इति॒ श्रोत्र॑म् ।
ताᳶ प्र॒जाᳶ प्रा॑ण॒तीर् अ॑पान॒तीᳶ पश्य॑न्तीश् शृण्व॒तीर्न मि॑थु॒नी अ॑भवन् ।
मूलम्
ताᳶ प्र॒जा अप॑प्राणा असृजत ।
तास्वधि॑पतिर् अ॒सीत्ये॒व प्रा॒णम॑दधात् ।
य॒न्तेत्य॑पा॒नम् ।
सँ॒सर्प॒ इति॒ चक्षुः॑ ।
व॒यो॒धा इति॒ श्रोत्र॑म् ।
ताᳶ प्र॒जाᳶ प्रा॑ण॒तीर् अ॑पान॒तीᳶ पश्य॑न्तीश् शृण्व॒तीर्न मि॑थु॒नी अ॑भवन् ।
भट्टभास्कर-टीका
3ता इत्यादि ॥ ताः पूर्वाः सृष्टाः सर्वा अपि प्रजाः अपप्राणाः प्राणापानचक्षुश्रोत्रहीना एव असृजत । तासु ‘अधिपतिरसि’ इत्यादिभिः प्राणादीन् अदधात् स्थापितवान् । अध्यारूढः प्रजाः पातीति अधिपतिः प्राण उपरिवृत्तिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यमयतीति यन्ता अधोवृत्तिरपानः । प्राणापानशब्दौ ण्यन्तात्पचाद्यजन्तौ । थाथादिस्वरः । संसर्पति ध्रुवतारकादिष्वपीति संसर्पः चक्षुः । पचाद्यचि ‘परादिश्छन्दसि बहुलम्’ । वयोधाः वय इव सर्वतो गत्वा दधाति शब्दमिति । नद्या उदात्तत्वम् ॥
मूलम् (संयुक्तम्)
तासु॑ त्रि॒वृद॒सीत्ये॒व मि॑थु॒नम॑दधा॒त्
विश्वास-प्रस्तुतिः
तासु॑ त्रि॒वृद॒सीत्ये॒व मि॑थु॒नम् अ॑दधात् ।
मूलम्
तासु॑ त्रि॒वृद॒सीत्ये॒व मि॑थु॒नम् अ॑दधात् ।
भट्टभास्कर-टीका
4तासु ‘त्रिवृदसि’ इत्यादिभिः मिथुनशक्तिमदधात् । त्रिवृत्संश्लेषः प्रवर्तनसंवर्तननिवर्तनानि मिथुनीभवनविशेषाः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
ताᳶ प्र॒जा मि॑थु॒नी [29]
भव॑न्ती॒र्न प्राजा॑यन्त॒ तास्सँ॑रो॒हो॑ऽसि नीरो॒हो॑ऽसीत्ये॒व प्राज॑नय॒त्
विश्वास-प्रस्तुतिः
ताᳶ प्र॒जा मि॑थु॒नी भव॑न्ती॒र्न प्राजा॑यन्त । [29]
तास् सँ॑रो॒हो॑ऽसि नीरो॒हो॑ ऽसीत्ये॒व प्राज॑नयत् ।
मूलम्
ताᳶ प्र॒जा मि॑थु॒नी भव॑न्ती॒र्न प्राजा॑यन्त । [29]
तास् सँ॑रो॒हो॑ऽसि नीरो॒हो॑ ऽसीत्ये॒व प्राज॑नयत् ।
भट्टभास्कर-टीका
5ता इत्यादि ॥ मिथुनीभवन्तीः मैथुनं कुर्वन्त्योपि न प्राजायन्त न प्रजाः प्राजनयन् । ततः ‘संरोहोसि’ इत्यादिभिः चतुर्भिः प्राजनयन् प्रजननशक्तिमतीरकरोत् । सम्यक् रोहः संरोहः । निश्चयेन रोहो नीरोहः । प्रथमरोहः प्ररोहः पुत्रादिः । पश्चाद्रोहोऽनुरोहः पौत्रादिः । थाथादिस्वरः ॥
मूलम् (संयुक्तम्)
ताᳶ प्र॒जाᳶ प्रजा॑ता॒ न प्रत्य॑तिष्ठ॒न्ता व॑सु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्ये॒वैषु लो॒केषु॒ प्रत्य॑स्थापय॒द्यदाह॑ वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीति॑ प्र॒जा ए॒व प्रजा॑ता ए॒षु लो॒केषु॒ प्रति॑ ष्ठापयति॒
विश्वास-प्रस्तुतिः
ताᳶ प्र॒जाᳶ प्रजा॑ता॒ न प्रत्य॑तिष्ठन् ।
ता व॑सु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्ये॒वैषु लो॒केषु॒ प्रत्य॑स्थापयत् ।
यदाह॑ - वसु॒को॑ऽसि॒ , वेष॑श्रिरसि॒ , वस्य॑ष्टिर॒सीति॑ ।
प्र॒जा ए॒व प्रजा॑ता ए॒षु लो॒केषु॒ प्रति॑ ष्ठापयति ।
मूलम्
ताᳶ प्र॒जाᳶ प्रजा॑ता॒ न प्रत्य॑तिष्ठन् ।
ता व॑सु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्ये॒वैषु लो॒केषु॒ प्रत्य॑स्थापयत् ।
यदाह॑ - वसु॒को॑ऽसि॒ , वेष॑श्रिरसि॒ , वस्य॑ष्टिर॒सीति॑ ।
प्र॒जा ए॒व प्रजा॑ता ए॒षु लो॒केषु॒ प्रति॑ ष्ठापयति ।
भट्टभास्कर-टीका
6ता इत्यादि ॥ प्रजाता अपि ता न प्रत्यतिष्ठन् प्रतिष्ठिता नाभवन् । ताः ‘वसुकोसि’ इत्यादिभिरेषु लोकेषु प्रतिष्ठिता अकरोत् । वसुकः वसुमान् । व्याप्यमानश्रीः वेषश्रीः । उकारान्तादेशः । वसुषु भक्तिमान् वस्यष्टिः । पृषोदरादिः ॥
मूलम् (संयुक्तम्)
सात्मा॒न्तरि॑क्षँ रोहति॒ सप्रा॑णो॒ऽमुष्मिल्ँ॑ लो॒के प्रति॑ तिष्ठ॒त्यव्य॑र्धुकᳶ प्राणापा॒नाभ्या॑म्भवति॒ य ए॒वव्ँ वेद॑ ॥ [30]
विश्वास-प्रस्तुतिः
सात्मा॒न्तरि॑क्षँ रोहति ।
सप्रा॑णो॒ ऽमुष्मिल्ँ॑ लो॒के प्रति॑ तिष्ठति ।
अव्य॑र्धुकᳶ प्राणापा॒नाभ्या॑म् भवति॒ य ए॒वव्ँ वेद॑ ॥ [30]
मूलम्
सात्मा॒न्तरि॑क्षँ रोहति ।
सप्रा॑णो॒ ऽमुष्मिल्ँ॑ लो॒के प्रति॑ तिष्ठति ।
अव्य॑र्धुकᳶ प्राणापा॒नाभ्या॑म् भवति॒ य ए॒वव्ँ वेद॑ ॥ [30]
भट्टभास्कर-टीका
7सात्मेत्यादि ॥ विदुषः फलम् । ऋतेः छान्दस उकञ् ॥
इति पञ्चमे तृतीये षष्ठोनुवाकः ॥