मूलम् (संयुक्तम्)
अग्ने॑ जा॒तान्प्र णु॑दा नस्स॒पत्ना॒निति॑ पु॒रस्ता॒दुप॑ दधाति जा॒ताने॒व भ्रातृ॑व्या॒न्प्र णु॑दते॒ सह॑सा जा॒तानिति॑ प॒श्चाज्ज॑नि॒ष्यमा॑णाने॒व प्रति॑ नुदते चतुश्चत्वारिँ॒शस्स्तोम॒ इति॑ दक्षिण॒तो
विश्वास-प्रस्तुतिः
अग्ने॑ जा॒तान् प्र णु॑दा नस्स॒पत्ना॒न् इति॑ पु॒रस्ता॒दुप॑ दधाति ।
जा॒ताने॒व भ्रातृ॑व्या॒न् प्र णु॑दते ।
सह॑सा जा॒तानिति॑ प॒श्चात् ।
ज॒नि॒ष्यमा॑णाने॒व प्रति॑ नुदते ।
च॒तु॒श्च॒त्वा॒रिँ॒शस्स्तोम॒ इति॑ दक्षिण॒तः ।
मूलम्
अग्ने॑ जा॒तान् प्र णु॑दा नस्स॒पत्ना॒न् इति॑ पु॒रस्ता॒दुप॑ दधाति ।
जा॒ताने॒व भ्रातृ॑व्या॒न् प्र णु॑दते ।
सह॑सा जा॒तानिति॑ प॒श्चात् ।
ज॒नि॒ष्यमा॑णाने॒व प्रति॑ नुदते ।
च॒तु॒श्च॒त्वा॒रिँ॒शस्स्तोम॒ इति॑ दक्षिण॒तः ।
भट्टभास्कर-टीका
1अग्ने जातानित्यादिरसपत्नानां विधिः । पञ्चम्यां चितौ असपत्नत्वं आत्मनः आत्मीयानां च याभिः क्रियते ताः असपत्नाः पञ्च । जातान्नाशयति, जनिष्यमाणान् प्रणुदते प्रतीपमुत्पत्त्या नुदते उत्पत्तिनिरोधं करोति ॥
मूलम् (संयुक्तम्)
ब्र॑ह्मवर्च॒सव्ँ वै च॑तुश्चत्वारिँ॒शो ब्र॑ह्मवर्च॒समे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॒णोऽर्धो॑ ब्रह्मवर्च॒सित॑रष्षोड॒शस्स्तोम॒ इत्यु॑त्तर॒त ओजो॒ वै षो॑ड॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑त् [23]
उ॒त्त॒र॒तो॒भि॒प्र॒या॒यी ज॑यति॒
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒व॒र्च॒सव्ँ वै च॑तुश्चत्वारिँ॒शः ।
ब्र॒ह्म॒व॒र्च॒समे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द् दक्षि॒णोऽर्धो॑ ब्रह्मवर्च॒सित॑रः ।
षो॒ड॒शस्स्तोम॒ इत्यु॑त्तर॒तः ।
ओजो॒ वै षो॑ड॒श ।
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते ।
तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति। [23]
मूलम्
ब्र॒ह्म॒व॒र्च॒सव्ँ वै च॑तुश्चत्वारिँ॒शः ।
ब्र॒ह्म॒व॒र्च॒समे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द् दक्षि॒णोऽर्धो॑ ब्रह्मवर्च॒सित॑रः ।
षो॒ड॒शस्स्तोम॒ इत्यु॑त्तर॒तः ।
ओजो॒ वै षो॑ड॒श ।
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते ।
तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति। [23]
भट्टभास्कर-टीका
2ब्रह्मवर्चसहेतुः चत्वारिंशः । गतमन्यत् ॥
मूलम् (संयुक्तम्)
वज्रो॒ वै च॑तुश्चत्वारिँ॒शो वज्र॑ष्षोड॒शो यदे॒ते इष्ट॑के उप॒दधा॑ति जा॒ताँश्चै॒व ज॑नि॒ष्यमा॑णाँश्च॒ भ्रातृ॑व्यान्प्र॒णुद्य॒ वज्र॒मनु॒ प्र ह॑रति॒ स्तृत्यै॒
विश्वास-प्रस्तुतिः
वज्रो॒ वै च॑तुश्चत्वारिँ॒शो वज्र॑ष् षोड॒शः ।
यदे॒ते इष्ट॑के उप॒दधा॑ति , जा॒ताँश्चै॒व ज॑नि॒ष्यमा॑णाँश्च॒ भ्रातृ॑व्यान् प्र॒णुद्य॒ वज्र॒मनु॒ प्र ह॑रति । स्तृत्यै॑ ।
मूलम्
वज्रो॒ वै च॑तुश्चत्वारिँ॒शो वज्र॑ष् षोड॒शः ।
यदे॒ते इष्ट॑के उप॒दधा॑ति , जा॒ताँश्चै॒व ज॑नि॒ष्यमा॑णाँश्च॒ भ्रातृ॑व्यान् प्र॒णुद्य॒ वज्र॒मनु॒ प्र ह॑रति । स्तृत्यै॑ ।
भट्टभास्कर-टीका
3वज्रो वा इत्यादि ॥ चतुश्चत्वारिशष्षोडशश्च वज्रतुल्यौ सपत्नानां नाशने । एते इति दक्षिणोत्तरे उच्येते । जातांश्चेति । पूर्वपश्चिमाभ्यां जातान् जनिष्यमाणांश्च भ्रातृव्यान् प्रणुद्य निपीड्य एताभ्यां दक्षिणोत्तराभ्यां वज्रमनुप्रहरति स्तृत्यै मरणाय । स्तृणोतिः ह्रस्वान्तस्सौवादिकः ॥
मूलम् (संयुक्तम्)
पुरी॑षवती॒म्मध्य॒ उप॑ दधाति॒ पुरी॑षव्ँ॒ वै मध्य॑मा॒त्मन॒स्सात्मा॑नमे॒वाग्निञ्चि॑नुते॒ सात्मा॒मुष्मिल्ँ॑ लो॒के भ॑वति॒ य ए॒वव्ँ वेद
विश्वास-प्रस्तुतिः
पुरी॑षवती॒म् मध्य॒ उप॑ दधाति ।
पुरी॑षव्ँ॒ वै मध्य॑मा॒त्मनः॑ ।
सात्मा॑नम् ए॒वाग्निञ् चि॑नुते ।
सात्मा॒मुष्मिल्ँ॑ लो॒के भ॑वति॒ य ए॒वव्ँ वेद॑ ।
मूलम्
पुरी॑षवती॒म् मध्य॒ उप॑ दधाति ।
पुरी॑षव्ँ॒ वै मध्य॑मा॒त्मनः॑ ।
सात्मा॑नम् ए॒वाग्निञ् चि॑नुते ।
सात्मा॒मुष्मिल्ँ॑ लो॒के भ॑वति॒ य ए॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
4पुरीषवतीमिति ॥ ‘पृथिव्याः पुरीषमस्यप्सो नाम’ इति पुरुषवतीं पुरुषशब्दवतीं पुरीषसंहितां वा कृत्वा उपदधाति । पुरीषंहि मध्यमात्मन अग्निशरीरस्य मध्यः । तस्मात्सात्मानमग्निं चिनुते आत्मानं च चिनुत इत्यर्थः । एवं वेदिता अमुष्मिन् लोके सात्मा भवति फलवान् व्याप्तवान् भवति ॥
मूलम् (संयुक्तम्)
ए॒ता वा अ॑सप॒त्ना नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्ते॑ [24]
नास्य॑ स॒पत्नो॑ भवति ॒ता वा अ॑सप॒त्ना नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्ते॑ [24]
नास्य॑ स॒पत्नो॑ भवति
विश्वास-प्रस्तुतिः
ए॒ता वा अ॑सप॒त्ना नामेष्ट॑काः ।
यस्यै॒ता उ॑पधी॒यन्ते॑ । [24]
नास्य॑ स॒पत्नो॑ भवति ।
मूलम्
ए॒ता वा अ॑सप॒त्ना नामेष्ट॑काः ।
यस्यै॒ता उ॑पधी॒यन्ते॑ । [24]
नास्य॑ स॒पत्नो॑ भवति ।
भट्टभास्कर-टीका
5एता वा इत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
प॒शुर्वा ए॒ष यद॒ग्निर्वि॒राज॑ उत्त॒माया॒ञ्चित्या॒मुप॑ दधाति वि॒राज॑मे॒वोत्त॒माम्प॒शुषु॑ दधाति॒ तस्मा॑त्पशु॒मानु॑त्त॒माव्ँवाचव्ँ॑वदति॒
विश्वास-प्रस्तुतिः
प॒शुर्वा ए॒ष यद॒ग्निः ।
वि॒राज॑ उत्त॒माया॒ञ् चित्या॒मुप॑ दधाति ।
वि॒राज॑म् ए॒वोत्त॒माम् प॒शुषु॑ दधाति ।
तस्मा॑त् पशु॒मानु॑त्त॒माव्ँ वाचव्ँ॑ वदति ।
मूलम्
प॒शुर्वा ए॒ष यद॒ग्निः ।
वि॒राज॑ उत्त॒माया॒ञ् चित्या॒मुप॑ दधाति ।
वि॒राज॑म् ए॒वोत्त॒माम् प॒शुषु॑ दधाति ।
तस्मा॑त् पशु॒मानु॑त्त॒माव्ँ वाचव्ँ॑ वदति ।
भट्टभास्कर-टीका
6पशुर्वा इत्यादि ॥ पशुर्धिकः [शुवर्धकः] निषेकादिक्रमेणोत्पाद्यत्वात् वा पशुः । तस्मात्पश्वात्मन्यास्मन् उत्तमायां चित्यां पञ्चम्यां चितौ विराज उपदधाति ‘एवश्छन्दः’ इत्याद्या चत्वारिंशतं दश दश दिक्षु मध्ये विराजः चत्वारिंशदक्ष्रत्वात् । उत्तमत्वमासां विराजनहेतुत्वात् वा, विराजोऽन्नस्य हेतुत्वाद्वा । उत्तमशब्द उञ्छादिरन्तोदात्तः । विराजमेवेति । प्रभूतमन्नम् । उत्तमामिति । ब्राह्मणादिभ्योपि उद्गततमां उज्ज्वलतमां ‘भुङ्क्ष्व’ इत्यादिकां वाचं वदति पशुमान्यः कश्चिदपि । यद्वा - पशुमान् ब्राह्मणः उत्तमां ‘ओं श्रावय’ इत्यादिकां वाचं वदति । ‘ह्रस्वनुङ्भ्याम्’ इति मतुप उदत्तत्वम् ॥
मूलम् (संयुक्तम्)
दश॑द॒शोप॑ दधाति सवीर्य॒त्वाय॑
विश्वास-प्रस्तुतिः
दश॑द॒शोप॑ दधाति ।
स॒वी॒र्य॒त्वाय॑ ।
मूलम्
दश॑द॒शोप॑ दधाति ।
स॒वी॒र्य॒त्वाय॑ ।
भट्टभास्कर-टीका
7सवीर्यत्वायेति ॥ विराट्सङ्ख्यापूरणात् विराट्सवीर्यत्वं, ऊनत्वे हि निर्वीर्यत्वं स्यात् ॥
मूलम् (संयुक्तम्)
अ॑क्ष्ण॒योप॑ दधाति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒
विश्वास-प्रस्तुतिः
अ॒क्ष्ण॒योप॑ दधाति ।
तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति ।
प्रति॑ष्ठित्यै ।
मूलम्
अ॒क्ष्ण॒योप॑ दधाति ।
तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति ।
प्रति॑ष्ठित्यै ।
भट्टभास्कर-टीका
8अक्ष्णयेत्यादि ॥ गतम् ॥
मूलम् (संयुक्तम्)
यानि॒ वै छन्दाँ॑सि सुव॒र्ग्या॑ण्यास॒न्तैर्दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑य॒न्तेनर्ष॑यः [25]
अ॒श्रा॒म्य॒न्ते तपो॑ऽतप्यन्त॒ तानि॒ तप॑सापश्य॒न्तेभ्य॑ ए॒ता इष्ट॑का॒ निर॑मिम॒तेव॒श्छन्दो॒ वरि॑व॒श्छन्द॒ इति॒
विश्वास-प्रस्तुतिः
यानि॒ वै छन्दाँ॑सि सुव॒र्ग्या॑ण्यास॒न् , तैर् दे॒वास् सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
तेनर्ष॑यो ऽश्राम्यन् । [25]
ते तपो॑ऽतप्यन्त ।
तानि॒ तप॑सापश्यन् ।
तेभ्य॑ ए॒ता इष्ट॑का॒ निर॑मिमत ।
एव॒श्छन्दो॒ वरि॑व॒श्छन्द॒ इति॑ ।
मूलम्
यानि॒ वै छन्दाँ॑सि सुव॒र्ग्या॑ण्यास॒न् , तैर् दे॒वास् सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
तेनर्ष॑यो ऽश्राम्यन् । [25]
ते तपो॑ऽतप्यन्त ।
तानि॒ तप॑सापश्यन् ।
तेभ्य॑ ए॒ता इष्ट॑का॒ निर॑मिमत ।
एव॒श्छन्दो॒ वरि॑व॒श्छन्द॒ इति॑ ।
भट्टभास्कर-टीका
9यानिवा इत्यादि ॥ स्वर्गमनस्य योग्यतावन्ति स्वर्ग्याणि । ‘गोद्व्यचः’ इति यत् । यानि सर्वाणि छन्दांसि तैर्देवास्स्वर्गं गताः । तेन छन्दसां स्वर्गगमनहेतुना ऋषयोऽश्राम्यन् प्रणिधानेन यत्नं कृतवन्तः तदवस्थानं ज्ञातुम् । ततस्तत् ज्ञात्वा तल्लाभाय तपोऽतप्यन्त । ततस्तानि तेन तपसा दृष्टवन्तः । ततस्तानि दृष्ट्वा तेभ्य एता इष्टका विराट्संज्ञा निरमिमत उत्पादितवन्तः । एमन्नादित्वादेव पररूपत्वम् ॥
मूलम् (संयुक्तम्)
ता उपा॑दधत॒ ताभि॒र्वै ते सु॑व॒र्गल्ँ लो॒कमा॑य॒न्यदे॒ता इष्ट॑का उप॒दधा॑ति॒ यान्ये॒व छन्दाँ॑सि सुव॒र्ग्या॑णि॒ तैरे॒व यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति
विश्वास-प्रस्तुतिः
ता उपा॑दधत॒ ।
ताभि॒र्वै ते सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
यदे॒ता इष्ट॑का उप॒दधा॑ति ।
यान्ये॒व छन्दाँ॑सि सुव॒र्ग्या॑णि॒ , तैरे॒व यज॑मानस् सुव॒र्गल्ँ लो॒कमे॑ति ।
मूलम्
ता उपा॑दधत॒ ।
ताभि॒र्वै ते सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
यदे॒ता इष्ट॑का उप॒दधा॑ति ।
यान्ये॒व छन्दाँ॑सि सुव॒र्ग्या॑णि॒ , तैरे॒व यज॑मानस् सुव॒र्गल्ँ लो॒कमे॑ति ।
भट्टभास्कर-टीका
10ता इत्यादि ॥ गतम् ॥
मूलम् (संयुक्तम्)
य॒ज्ञेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ तास्स्तोम॑भागैरे॒वासृ॑जत॒ यत् [26]
स्तोम॑भागा उप॒दधा॑ति प्र॒जा ए॒व तद्यज॑मानस्सृजते॒ बृह॒स्पति॒र्वा ए॒तद्य॒ज्ञस्य॒ तेज॒स्सम॑भर॒द्यत्स्तोम॑भागा॒ यत्स्तोम॑भागा उप॒दधा॑ति॒ सते॑जसमे॒वाग्निञ्चि॑नुते॒
विश्वास-प्रस्तुतिः
य॒ज्ञेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
तास् स्तोम॑भागैर् ए॒वासृ॑जत ।
यत् स्तोम॑भागा उप॒दधा॑ति , प्र॒जा ए॒व तद् यज॑मानस् सृजते । [26]
बृह॒स्पति॒र्वा ए॒तद् य॒ज्ञस्य॒ तेज॒स् सम॑भर॒द्, यत्स्तोम॑भागाः ।
यत्स्तोम॑भागा उप॒दधा॑ति॒ , सते॑जसम् ए॒वाग्निञ् चि॑नुते ।
मूलम्
य॒ज्ञेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
तास् स्तोम॑भागैर् ए॒वासृ॑जत ।
यत् स्तोम॑भागा उप॒दधा॑ति , प्र॒जा ए॒व तद् यज॑मानस् सृजते । [26]
बृह॒स्पति॒र्वा ए॒तद् य॒ज्ञस्य॒ तेज॒स् सम॑भर॒द्, यत्स्तोम॑भागाः ।
यत्स्तोम॑भागा उप॒दधा॑ति॒ , सते॑जसम् ए॒वाग्निञ् चि॑नुते ।
भट्टभास्कर-टीका
11यज्ञेन वा इत्यादि ॥ स्तोमभागानां विधिः । स्तोमानां त्रिवृदादीनां भागास्तेजोंशाः बृहस्पतितेजस्सहितमेव चिनुते ॥
मूलम् (संयुक्तम्)
बृह॒स्पति॒र्वा ए॒ताय्ँ य॒ज्ञस्य॑ प्रति॒ष्ठाम॑पश्य॒द्यत्स्तोम॑भागा॒ यत्स्तोम॑भागा उप॒दधा॑ति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै
विश्वास-प्रस्तुतिः
बृह॒स्पति॒र्वा ए॒ताय्ँ य॒ज्ञस्य॑ प्रति॒ष्ठाम् अ॑पश्य॒द् यत्स्तोम॑भागाः ।
यत्स्तोम॑भागा उप॒दधा॑ति , य॒ज्ञस्य॒ प्रति॑ष्ठित्यै ।
मूलम्
बृह॒स्पति॒र्वा ए॒ताय्ँ य॒ज्ञस्य॑ प्रति॒ष्ठाम् अ॑पश्य॒द् यत्स्तोम॑भागाः ।
यत्स्तोम॑भागा उप॒दधा॑ति , य॒ज्ञस्य॒ प्रति॑ष्ठित्यै ।
भट्टभास्कर-टीका
12प्रतिष्ठामिति ॥ प्रतितिष्ठति स्तोम आभिरिति प्रतिष्ठाः स्तोम भागाः ॥
मूलम् (संयुक्तम्)
स॒प्तस॒प्तोप॑ दधाति सवीर्य॒त्वाय॑ ति॒स्रो मध्ये॒ प्रति॑ष्ठित्यै ॥ [27]
विश्वास-प्रस्तुतिः
स॒प्तस॒प्तोप॑ दधाति सवीर्य॒त्वाय॑ ।
ति॒स्रो मध्ये॒ प्रति॑ष्ठित्यै ॥ [27]
मूलम्
स॒प्तस॒प्तोप॑ दधाति सवीर्य॒त्वाय॑ ।
ति॒स्रो मध्ये॒ प्रति॑ष्ठित्यै ॥ [27]
भट्टभास्कर-टीका
13सवीर्यत्वायेति ॥ शक्तिमत्त्वात् सप्तत्वस्य शाक्वरत्वात् । प्रतिष्ठित्या इति । मध्ये उत्तम्भनभावे प्रतिष्ठितं स्यात् ॥
इति पञ्चमे तृतीये पञ्चमोनुवाकः ॥