मूलम् (संयुक्तम्)
अ॒ग्नेर्भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खव्ँ वा अ॒ग्निर्य॑ज्ञमु॒खन्दी॒क्षा य॑ज्ञमु॒खम्ब्रह्म॑ यज्ञमु॒खन्त्रि॒वृद्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति नृ॒चक्ष॑साम्भा॒गो॑ऽसीति॑ दक्षिण॒तश्…
विश्वास-प्रस्तुतिः
अ॒ग्नेर्भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति ।
य॒ज्ञ॒मु॒खव्ँ वा अ॒ग्निः ।
य॒ज्ञ॒मु॒खन् दी॒क्षा ।
य॒ज्ञ॒मु॒खम् ब्रह्म॑ ।
य॒ज्ञ॒मु॒खन् त्रि॒वृत् ।
य॒ज्ञ॒मु॒खमे॒व पु॒रस्ता॒द् वि या॑तयति ।
नृ॒चक्ष॑साम्भा॒गो॑ ऽसीति॑ दक्षिण॒तः ।
मूलम्
अ॒ग्नेर्भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति ।
य॒ज्ञ॒मु॒खव्ँ वा अ॒ग्निः ।
य॒ज्ञ॒मु॒खन् दी॒क्षा ।
य॒ज्ञ॒मु॒खम् ब्रह्म॑ ।
य॒ज्ञ॒मु॒खन् त्रि॒वृत् ।
य॒ज्ञ॒मु॒खमे॒व पु॒रस्ता॒द् वि या॑तयति ।
नृ॒चक्ष॑साम्भा॒गो॑ ऽसीति॑ दक्षिण॒तः ।
भट्टभास्कर-टीका
1अग्नेर्भागोसीत्यादि ॥ अग्निदीक्षामन्त्रः । त्रिवृतां यज्ञमुखत्वं आरम्भभावित्वात् । यज्ञमुखमेवेत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
शु॑श्रु॒वाँसो॒ वै नृ॒चक्ष॒सोऽन्न॑न्धा॒ता जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ तस्मा॑ज्जा॒तोऽन्न॑मत्ति ज॒नित्रँ॑ स्पृ॒तँ स॑प्तद॒शस्स्तोम॒ इत्या॒हान्नव्ँ॒ वै ज॒नित्र॑म् [16]
अन्नँ॑ सप्तद॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते मि॒त्रस्य॑ भा॒गो॑ऽसीति॑ प॒श्चात्
विश्वास-प्रस्तुतिः
शु॒श्रु॒वाँसो॒ वै नृ॒चक्ष॑सः ।
अन्न॑न् धा॒ता ।
जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति ।
तस्मा॑ज् जा॒तोऽन्न॑मत्ति ।
ज॒नित्रँ॑ स्पृ॒तँ स॑प्तद॒शस् स्तोम॒ इत्या॑ह ।
अन्नव्ँ॒ वै ज॒नित्र॑म् । [16]
अन्नँ॑ सप्तद॒शः । अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द् दक्षि॑णे॒नान्न॑मद्यते ।
मि॒त्रस्य॑ भा॒गो॑ऽसीति॑ प॒श्चात् ।
मूलम्
शु॒श्रु॒वाँसो॒ वै नृ॒चक्ष॑सः ।
अन्न॑न् धा॒ता ।
जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति ।
तस्मा॑ज् जा॒तोऽन्न॑मत्ति ।
ज॒नित्रँ॑ स्पृ॒तँ स॑प्तद॒शस् स्तोम॒ इत्या॑ह ।
अन्नव्ँ॒ वै ज॒नित्र॑म् । [16]
अन्नँ॑ सप्तद॒शः । अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द् दक्षि॑णे॒नान्न॑मद्यते ।
मि॒त्रस्य॑ भा॒गो॑ऽसीति॑ प॒श्चात् ।
भट्टभास्कर-टीका
2शुश्रुवांस इति ॥ श्रुताध्ययनसम्पन्नाः शश्रुवांसः । ते चान्नवन्तः अन्नं धाता धारकत्वात् । जातायैव जन्मकाल एव जातमात्र एव अन्नजन्महेतुः सप्तदशोऽन्नस्य साधनम् ॥
मूलम् (संयुक्तम्)
प्रा॒णो वै मि॒त्रो॑ऽपा॒नो वरु॑णᳶ प्राणापा॒नावे॒वास्मि॑न्दधाति दि॒वो वृ॒ष्टिर्वाताः॑ स्पृ॒ता ए॑कविँ॒शस्स्तोम॒ इत्या॑ह प्रति॒ष्ठा वा ए॑कविँ॒शᳶ प्रति॑ष्ठित्या॒ इन्द्र॑स्य भा॒गो॑ऽसीत्यु॑त्तर॒त…
विश्वास-प्रस्तुतिः
प्रा॒णो वै मि॒त्रो॑ , ऽपा॒नो वरु॑णः ।
प्रा॒णा॒पा॒नाव् ए॒वास्मि॑न् दधाति ।
दि॒वो वृ॒ष्टिर्वाताः॑ स्पृ॒ता ए॑कविँ॒शस्स्तोम॒ इत्या॑ह ।
प्र॒ति॒ष्ठा वा ए॑कविँ॒शः ।
प्रति॑ष्ठित्यै ।
इन्द्र॑स्य भा॒गो॑ऽसीत्यु॑त्तर॒तः ।
मूलम्
प्रा॒णो वै मि॒त्रो॑ , ऽपा॒नो वरु॑णः ।
प्रा॒णा॒पा॒नाव् ए॒वास्मि॑न् दधाति ।
दि॒वो वृ॒ष्टिर्वाताः॑ स्पृ॒ता ए॑कविँ॒शस्स्तोम॒ इत्या॑ह ।
प्र॒ति॒ष्ठा वा ए॑कविँ॒शः ।
प्रति॑ष्ठित्यै ।
इन्द्र॑स्य भा॒गो॑ऽसीत्यु॑त्तर॒तः ।
भट्टभास्कर-टीका
3प्राणो वा इत्यादि ॥ गतम् ॥ +++( सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम् । )+++
मूलम् (संयुक्तम्)
ओजो॒ वा इन्द्र॒ ओजो॒ विष्णु॒रोजः॑ क्ष॒त्रमोजᳶ॑ पञ्चद॒शः [17]
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोभिप्रया॒यी ज॑यति॒ वसू॑नाम्भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति
विश्वास-प्रस्तुतिः
ओजो॒ वा इन्द्रः॑ ।
ओजो॒ विष्णुः॑ ।
ओजः॑ क्ष॒त्रम् । ओजᳶ॑ पञ्चद॒शः । [17]
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते ।
तस्मा॑दुत्तरतोभिप्रया॒यी ज॑यति ।
वसू॑नाम् भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति ।
मूलम्
ओजो॒ वा इन्द्रः॑ ।
ओजो॒ विष्णुः॑ ।
ओजः॑ क्ष॒त्रम् । ओजᳶ॑ पञ्चद॒शः । [17]
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते ।
तस्मा॑दुत्तरतोभिप्रया॒यी ज॑यति ।
वसू॑नाम् भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति ।
भट्टभास्कर-टीका
4ब्रह्मेन्द्रविष्णुक्षत्रपञ्चदशा ओजोबलहेतवः । गतमन्यत् ॥
मूलम् (संयुक्तम्)
यज्ञमु॒खव्ँ वै वस॑वो यज्ञमु॒खँ रु॒द्रा य॑ज्ञमु॒खञ्च॑तुर्विँ॒शो य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयत्यादि॒त्याना॑म्भा॒गो॑ऽसीति॑ दक्षिण॒तो
विश्वास-प्रस्तुतिः
य॒ज्ञ॒मु॒खव्ँ वै वस॑वः ।
य॒ज्ञ॒मु॒खँ रु॒द्राः ।
य॒ज्ञ॒मु॒खञ् च॑तुर्विँ॒शः ।
य॒ज्ञ॒मु॒खम् ए॒व पु॒रस्ता॒द्वि या॑तयति ।
आ॒दि॒त्याना॑म् भा॒गो॑ऽसीति॑ दक्षिण॒तः ।
मूलम्
य॒ज्ञ॒मु॒खव्ँ वै वस॑वः ।
य॒ज्ञ॒मु॒खँ रु॒द्राः ।
य॒ज्ञ॒मु॒खञ् च॑तुर्विँ॒शः ।
य॒ज्ञ॒मु॒खम् ए॒व पु॒रस्ता॒द्वि या॑तयति ।
आ॒दि॒त्याना॑म् भा॒गो॑ऽसीति॑ दक्षिण॒तः ।
भट्टभास्कर-टीका
5वसुरुद्रचतुर्विंशानां यज्ञमुखत्वं प्रधानसाधनत्वात् मुख्यत्वात् ॥
मूलम् (संयुक्तम्)
ऽन्नव्ँ॒वा आ॑दि॒त्या अन्न॑म्म॒रुतोऽन्न॒ङ्गर्भा॒ अन्न॑म्पञ्चविँ॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्य॒तेऽदि॑त्यै भा॒गः [18]
अ॒सीति॑ प॒श्चात्
विश्वास-प्रस्तुतिः
अन्नव्ँ॒ वा आ॑दि॒त्याः ।
अन्न॑म् म॒रुतः॑ । अन्न॒ङ् गर्भाः॑ । अन्न॑म् पञ्चविँ॒शः ।
अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द् दक्षि॑णे॒नान्न॑मद्य॒ते ।
अदि॑त्यै भा॒गो॑ऽसीति॑ प॒श्चात् । [18]
मूलम्
अन्नव्ँ॒ वा आ॑दि॒त्याः ।
अन्न॑म् म॒रुतः॑ । अन्न॒ङ् गर्भाः॑ । अन्न॑म् पञ्चविँ॒शः ।
अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द् दक्षि॑णे॒नान्न॑मद्य॒ते ।
अदि॑त्यै भा॒गो॑ऽसीति॑ प॒श्चात् । [18]
भट्टभास्कर-टीका
6आदित्यमरुत्पञ्चविंशानां यज्ञद्वारेणन्नसाधनत्वं गर्भा अप्यन्न- साधकाः ॥
मूलम् (संयुक्तम्)
प्र॑ति॒ष्ठा वा अदि॑तिᳶ प्रति॒ष्ठा पू॒षा प्र॑ति॒ष्ठा त्रि॑ण॒वᳶ प्रति॑ष्ठित्यै दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसीत्यु॑त्तर॒तो…
विश्वास-प्रस्तुतिः
प्र॒ति॒ष्ठा वा अदि॑तिᳶ । प्र॒ति॒ष्ठा पू॒षा । प्र॒ति॒ष्ठा त्रि॑ण॒वः ।
प्रति॑ष्ठित्यै ।
दे॒वस्य॑ सवि॒तुर् भा॒गो॑ऽसीत्यु॑त्तर॒तः ।
मूलम्
प्र॒ति॒ष्ठा वा अदि॑तिᳶ । प्र॒ति॒ष्ठा पू॒षा । प्र॒ति॒ष्ठा त्रि॑ण॒वः ।
प्रति॑ष्ठित्यै ।
दे॒वस्य॑ सवि॒तुर् भा॒गो॑ऽसीत्यु॑त्तर॒तः ।
भट्टभास्कर-टीका
7अदितिपूषत्रिणवाश्च यज्ञद्वारेण प्रतिष्ठाहेतवः ॥
मूलम् (संयुक्तम्)
ब्रह्म॒ वै दे॒वस्स॑वि॒ता ब्रह्म॒ बृह॒स्पति॒र्ब्रह्म॑ चतुष्टो॒मो ब्र॑ह्मवर्च॒समे॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॒दुत्त॒रोऽर्धो॑ ब्रह्मवर्च॒सित॑रस्…
विश्वास-प्रस्तुतिः
ब्रह्म॒ वै दे॒वस् स॑वि॒ता ।
ब्रह्म॒ बृह॒स्पतिः॑ ।
ब्रह्म॑ चतुष्टो॒मः ।
ब्र॒ह्म॒व॒र्च॒स॒म् ए॒वोत्त॑र॒तो ध॑त्ते ।
तस्मा॒दुत्त॒रोऽर्धो॑ ब्रह्मवर्च॒सित॑रः ।
मूलम्
ब्रह्म॒ वै दे॒वस् स॑वि॒ता ।
ब्रह्म॒ बृह॒स्पतिः॑ ।
ब्रह्म॑ चतुष्टो॒मः ।
ब्र॒ह्म॒व॒र्च॒स॒म् ए॒वोत्त॑र॒तो ध॑त्ते ।
तस्मा॒दुत्त॒रोऽर्धो॑ ब्रह्मवर्च॒सित॑रः ।
भट्टभास्कर-टीका
8सवितृबृहस्पतिचतुष्टोमानां बृहत्वाद्ब्रह्मत्वम् । ब्रह्मवर्चसितरः प्रवृद्धसम्भाव्यफलत्वादुज्ज्वलतर इतरस्मात् ॥
मूलम् (संयुक्तम्)
सावि॒त्रव॑ती भवति॒ प्रसू॑त्यै॒ तस्मा॑द्ब्राह्म॒णाना॒मुदी॑ची स॒निᳶ प्रसू॑ता
विश्वास-प्रस्तुतिः
सा॒वि॒त॑वती भवति । प्रसू॑त्यै ।
तस्मा॑द्ब्राह्म॒णाना॒मुदी॑ची स॒निᳶ प्रसू॑ता ।
मूलम्
सा॒वि॒त॑वती भवति । प्रसू॑त्यै ।
तस्मा॑द्ब्राह्म॒णाना॒मुदी॑ची स॒निᳶ प्रसू॑ता ।
भट्टभास्कर-टीका
9सावित्रवतीति ॥ सावित्रेणानेन मन्त्रेण तद्वती । तस्माद्ब्राह्मणानामुत्तरस्यां दिशि सनिर्याच्ञा तया प्रशस्ततया । ‘अनिगन्तोञ्चतौ’ इति उदीचीशब्दे गतेः प्रकृतिस्वरत्वम् । प्रसूतेत्यत्र ‘गतिरनन्तरः’ इति ॥
मूलम् (संयुक्तम्)
ध॒र्त्रश्च॑तुष्टो॒म इति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खव्ँ वै ध॒र्त्रः [19]
य॒ज्ञ॒मु॒खञ्च॑तुष्टो॒मो य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒
विश्वास-प्रस्तुतिः
ध॒र्त्रश् च॑तुष्टो॒म इति॑ पु॒रस्ता॒दुप॑ दधाति ।
यज्ञमु॒खव्ँ वै ध॒र्त्रः । [19]
य॒ज्ञ॒मु॒खञ् च॑तुष्टो॒मः ।
य॒ज्ञ॒मु॒खमे॒व पु॒रस्ता॒द् वि या॑तयति ।
मूलम्
ध॒र्त्रश् च॑तुष्टो॒म इति॑ पु॒रस्ता॒दुप॑ दधाति ।
यज्ञमु॒खव्ँ वै ध॒र्त्रः । [19]
य॒ज्ञ॒मु॒खञ् च॑तुष्टो॒मः ।
य॒ज्ञ॒मु॒खमे॒व पु॒रस्ता॒द् वि या॑तयति ।
भट्टभास्कर-टीका
10धर्त्रः धारयिता अग्निष्टोमः स यज्ञानां मुखं चतुष्टोमो वा समष्टिस्तोत्रीयः स्तोमः । तस्य यज्ञमुखत्वं यज्ञमुखभूतत्रिवृदात्मकत्वात् । चत्वारः स्तोमाः परिमाणमस्येति आभिर्यज्ञसाध्यत्वम् । पूर्ववत् ‘द्विगोः’ इति लुकि, ‘स्तोमे डविधिः’ इति डः ॥
मूलम् (संयुक्तम्)
यावा॑नाम्भा॒गो॑ऽसीति॑ दक्षिण॒तो मासा॒ वै यावा॑ अर्धमा॒सा अया॑वा॒स्तस्मा॑द्दक्षि॒णावृ॑तो॒ मासा॒ अन्नव्ँ॒ वै यावा॒ अन्न॑म्प्र॒जा अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यत ऋभू॒णाम्भा॒गो॑ऽसीति॑ प॒श्चात्
विश्वास-प्रस्तुतिः
यावा॑नाम्भा॒गो॑ऽसीति॑ दक्षिण॒तः ।
मासा॒ वै यावाः॑ ।
अ॒र्ध॒मा॒सा अया॑वाः ।
तस्मा॑द्दक्षि॒णावृ॑तो॒ मासाः॑ ।
अन्नव्ँ॒ वै यावाः॑ ।
अन्न॑म्प्र॒जाः । अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द् दक्षि॑णे॒नान्न॑मद्यते ।
ऋ॒भू॒णाम् भा॒गो॑ऽसीति॑ प॒श्चात् ।
मूलम्
यावा॑नाम्भा॒गो॑ऽसीति॑ दक्षिण॒तः ।
मासा॒ वै यावाः॑ ।
अ॒र्ध॒मा॒सा अया॑वाः ।
तस्मा॑द्दक्षि॒णावृ॑तो॒ मासाः॑ ।
अन्नव्ँ॒ वै यावाः॑ ।
अन्न॑म्प्र॒जाः । अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द् दक्षि॑णे॒नान्न॑मद्यते ।
ऋ॒भू॒णाम् भा॒गो॑ऽसीति॑ प॒श्चात् ।
भट्टभास्कर-टीका
11यावानामिति ॥ यावा यानशीलवान् । यातेरौणादिको वप्रत्ययः । नञिवयुक्तन्यायेन यावसदृशा अर्धमासा अयावा आगन्तारः तमनुगन्तारश्चेत्यर्थः । दक्षिणावृत इति व्याख्यातम् । अन्नस्य हेतवो यावा अयावाश्च प्रजाश्चान्नहेतुकाः ॥
मूलम् (संयुक्तम्)
प्रति॑ष्ठित्यै विव॒र्तो॑ऽष्टाचत्वारिँ॒श इत्यु॑त्तर॒तो॑ऽनयो॑र्लो॒कयोः॑ सवीर्य॒त्वाय॒ तस्मा॑दि॒मौ लो॒कौ स॒माव॑द्वीर्यौ [20]
विश्वास-प्रस्तुतिः
प्रति॑ष्ठित्यै ।
वि॒व॒र्तो॑ष्टाचत्वारिँ॒श इत्यु॑त्तर॒तः ।
अनयो॑र्लो॒कयोः॑ सवीर्य॒त्वाय॑ ।
तस्मा॑दि॒मौ लो॒कौ स॒माव॑द्वीर्यौ । [20]
मूलम्
प्रति॑ष्ठित्यै ।
वि॒व॒र्तो॑ष्टाचत्वारिँ॒श इत्यु॑त्तर॒तः ।
अनयो॑र्लो॒कयोः॑ सवीर्य॒त्वाय॑ ।
तस्मा॑दि॒मौ लो॒कौ स॒माव॑द्वीर्यौ । [20]
भट्टभास्कर-टीका
12प्रतिष्ठित्या इति ॥ प्राधान्यात् । सवीर्यत्वाय समानवीर्यत्वाय । इदमपि श्रुतिप्रामाण्यादेव । समावद्वीर्यौ समवीर्यौ । ‘समादावतुप्’ इति आवतुप्प्रत्ययः ॥
मूलम् (संयुक्तम्)
यस्य॒ मुख्य॑वतीᳶ पु॒रस्ता॑दुपधी॒यन्ते॒ मुख्य॑ ए॒व भ॑व॒त्यास्य॒ मुख्यो॑ जायते॒ यस्यान्न॑वतीर्दक्षिण॒तोऽत्त्यन्न॒मास्या॑न्ना॒दो जा॑यते॒
विश्वास-प्रस्तुतिः
यस्य॒ मुख्य॑वतीᳶ पु॒रस्ता॑दुपधी॒यन्ते॒ मुख्य॑ ए॒व भ॑वति ।
आऽस्य॒ मुख्यो॑ जायते ।
यस्यान्न॑वतीर् दक्षिण॒तो ऽत्त्यन्न॑म् ।
आऽस्या॑न्ना॒दो जा॑यते ।
मूलम्
यस्य॒ मुख्य॑वतीᳶ पु॒रस्ता॑दुपधी॒यन्ते॒ मुख्य॑ ए॒व भ॑वति ।
आऽस्य॒ मुख्यो॑ जायते ।
यस्यान्न॑वतीर् दक्षिण॒तो ऽत्त्यन्न॑म् ।
आऽस्या॑न्ना॒दो जा॑यते ।
भट्टभास्कर-टीका
13यस्येत्यादि ॥ मुखशब्देन या स्तुतिः तद्वत्यः पुरस्तादिष्टका उपधीयन्ते सप्त । अयं मुख्यो भवति । आजायते चास्य मुख्यः पुत्रः अन्नादः अन्नादनवान् । तेन सहासावन्नमत्ति । आजायते चास्यान्नादः पुत्रः ॥
मूलम् (संयुक्तम्)
यस्य॑ प्रति॒ष्ठाव॑तीᳶ प॒श्चात्प्रत्ये॒व ति॑ष्ठति॒
विश्वास-प्रस्तुतिः
यस्य॑ प्रति॒ष्ठाव॑तीᳶ प॒श्चात् , प्रत्ये॒व ति॑ष्ठति ।
मूलम्
यस्य॑ प्रति॒ष्ठाव॑तीᳶ प॒श्चात् , प्रत्ये॒व ति॑ष्ठति ।
भट्टभास्कर-टीका
14प्रतिष्ठावतीः प्रतिस्थितिमत्यः सप्त । प्रतितिष्ठत्येवायम् ॥
मूलम् (संयुक्तम्)
यस्यौज॑स्वतीरुत्तर॒त ओ॑ज॒स्व्ये॑व भ॑व॒त्यास्यौ॑ज॒स्वी जा॑यते॒
विश्वास-प्रस्तुतिः
यस्यौज॑स्वतीरुत्तर॒त ओ॑ज॒स्व्ये॑व भ॑वति ।
आऽस्यौ॑ज॒स्वी जा॑यते ।
मूलम्
यस्यौज॑स्वतीरुत्तर॒त ओ॑ज॒स्व्ये॑व भ॑वति ।
आऽस्यौ॑ज॒स्वी जा॑यते ।
भट्टभास्कर-टीका
15यस्यौजस्वतीरिति ॥ वलार्थवादवत्यः सप्त । अयमोजस्वी भवति । आजायते चास्य ओनस्वी पुत्रः ॥
मूलम् (संयुक्तम्)
ऽर्को वा ए॒ष यद॒ग्निस्तस्यै॒तदे॒व स्तो॒त्रमे॒तच्छ॒स्त्रय्ँयदे॒षा वि॒धा [21]
वि॒धी॒यते॒ऽर्क ए॒व तद॒र्क्य॑मनु॒ वि धी॑य॒ते
विश्वास-प्रस्तुतिः
अ॒र्को वा ए॒ष यद॒ग्निः ।
तस्यै॒तदे॒व स्तो॒त्रमे॒तच् छ॒स्त्रम् ।
यदे॒षा वि॒धा वि॑धी॒यते॑ । [21]
अ॒र्क ए॒व तद॒र्क्य॑मनु॒ वि धी॑यते ।
मूलम्
अ॒र्को वा ए॒ष यद॒ग्निः ।
तस्यै॒तदे॒व स्तो॒त्रमे॒तच् छ॒स्त्रम् ।
यदे॒षा वि॒धा वि॑धी॒यते॑ । [21]
अ॒र्क ए॒व तद॒र्क्य॑मनु॒ वि धी॑यते ।
भट्टभास्कर-टीका
16अर्क इति ॥ अर्चनीयो योऽग्निः स्तोत्रैः स्तोतव्यः शस्त्रैश्च शंसितव्यः तस्यास्य एतदेव स्तोत्रं एतदेव शस्त्रं यदेषा विधा विधीयते यथोक्तमुख्यवत्याद्युपधानप्रकारः क्रियते । तदेतमर्क्यं अर्चनीयं अनु अग्निमुद्दिश्य तस्यार्के अर्चनार्थं एषा विधा विधीयते । ‘चजोः कुधिण्यतोः’ इति कुत्वम्, उभयत्र ॥
मूलम् (संयुक्तम्)
ऽत्त्यन्न॒मास्या॑न्ना॒दो जा॑यते॒ यस्यै॒षा वि॒धा वि॑धी॒यते॒ य उ॑ चैनामे॒वव्ँवेद॒
विश्वास-प्रस्तुतिः
अत्त्यन्न॒मास्या॑न्ना॒दो जा॑यते ।
यस्यै॒षा वि॒धा वि॑धी॒यते॒ य उ॑ चैनामे॒वव्ँ वेद॑ ।
मूलम्
अत्त्यन्न॒मास्या॑न्ना॒दो जा॑यते ।
यस्यै॒षा वि॒धा वि॑धी॒यते॒ य उ॑ चैनामे॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
17अथास्या विधायाः फलमाह - अत्तीत्यादि ॥ यस्य यजमानस्यैषा विधा विधीयते । यश्चाप्येनां विधां उपधानविधां वेदेति ॥
मूलम् (संयुक्तम्)
सृष्टी॒रुप॑ दधाति यथासृ॒ष्टमे॒वाव॑ रुन्द्धे॒
विश्वास-प्रस्तुतिः
सृष्टी॒रुप॑ दधाति ।
य॒था॒सृ॒ष्टमे॒वाव॑ रुन्धे ।
मूलम्
सृष्टी॒रुप॑ दधाति ।
य॒था॒सृ॒ष्टमे॒वाव॑ रुन्धे ।
भट्टभास्कर-टीका
18सृष्टीरिति ॥ ‘एकयाऽस्तुवत’ इत्याद्याः सप्तदश । चतस्रो दक्षिणेंस उपदधाति । अथ तिस्रः । अथ चतस्रो दक्षिणादंसात् दक्षिणां श्रोणिं अभ्यायातयति । यथा सृष्टमिति । यथा वै मन्त्रेषु सृष्टिमत्तया सृष्टं प्रजादिकं तदेव फलं अवरुन्धे ॥
मूलम् (संयुक्तम्)
न वा इ॒दन्दिवा॒ न नक्त॑मासी॒दव्या॑वृत्त॒न्ते दे॒वा ए॒ता व्यु॑ष्टीरपश्य॒न्ता उपा॑दधत॒ ततो॒ वा इ॒दव्व्ँयौ॑च्छ॒द्यस्यै॒ता उ॑पधी॒यन्ते॒ व्ये॑वास्मा॑ उच्छ॒त्यथो॒ तम॑ ए॒वाप॑ हते ॥ [22]
विश्वास-प्रस्तुतिः
न वा इ॒दन् दिवा॒ , न नक्त॑मासी॒दव्या॑वृत्तम् ।
ते दे॒वा ए॒ता व्यु॑ष्टीरपश्यन् ।
ता उपा॑दधत ।
ततो॒ वा इ॒दव्ँ व्यौ॑च्छत् ।
यस्यै॒ता उ॑पधी॒यन्ते॒ व्ये॑वास्मा॑ उच्छति ।
अथो॒ तम॑ ए॒वाप॑ हते ॥ [22]
मूलम्
न वा इ॒दन् दिवा॒ , न नक्त॑मासी॒दव्या॑वृत्तम् ।
ते दे॒वा ए॒ता व्यु॑ष्टीरपश्यन् ।
ता उपा॑दधत ।
ततो॒ वा इ॒दव्ँ व्यौ॑च्छत् ।
यस्यै॒ता उ॑पधी॒यन्ते॒ व्ये॑वास्मा॑ उच्छति ।
अथो॒ तम॑ ए॒वाप॑ हते ॥ [22]
भट्टभास्कर-टीका
19न वा इत्यादि ॥ व्युष्टीनां विधिः । इदं सर्वं अव्यावृत्तं अविभक्तरूपमेवासीत् । न वै तदनीं दिवाऽऽसीत्, न च नक्तमासीत्, एकरूपमन्धतमसमिवाभवत् । देवानामस्तित्वात् तेषां व्यामोहमात्रमिदं, न विश्वविलय इत्येके । देवात्मानोपि विश्वविलये विद्यन्ते नित्यत्वादित्यन्ये । ते देवा इत्यादि । ‘इयमेव सा या’ इत्यादयो व्युष्टयः पञ्चदश, तिस्रः तिस्रो दिक्षु तिस्रो मध्ये व्युष्टिभिश्चितिरवाप्यते । व्यौच्छदिति । अपहततमस्कं विभातमासीत् । उच्छी विवासे । व्येवास्मा इति । सर्वदा अस्य विभात मेव भवति । व्यावृत्तमेव सर्वं भासते । अथो अपि च तमस्सदृशं एतं सर्वं पापं हन्त्येव । व्यत्ययेनात्मनेपदम् ॥
इति पञ्चमे तृतीये चतुर्थोनुवाकः