मूलम् (संयुक्तम्)
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ता अ॑क्ष्णयास्तो॒मीया॑ अपश्य॒न्ता अ॒न्यथा॒नूच्या॒न्यथोपा॑दधत॒ तदसु॑रा॒ नान्ववा॑य॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यद॑क्ष्णयास्तो॒मीया॑ अ॒न्यथा॒नूच्या॒न्यथो॑प॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवत्या॒शुस्त्रि॒वृदिति॑ पु॒रस्ता॒दुप॑ दधाति
विश्वास-प्रस्तुतिः
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत ।
ते दे॒वा ए॒ता अ॑क्ष्णयास्तो॒मीया॑ अपश्यन् ।
ता अ॒न्यथा॒ऽनूच्या॒न्यथोपा॑दधत ।
तदसु॑रा॒ नान्ववा॑यन् ।
ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑राः ।
यद॑क्ष्णयास्तो॒मीया॑ अ॒न्यथा॒ऽनूच्या॒न्यथो॑प॒दधा॑ति॒ , भ्रातृ॑व्याभिभूत्यै ।
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।
आ॒शुस्त्रि॒वृदिति॑ पु॒रस्ता॒दुप॑ दधाति ।
मूलम्
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत ।
ते दे॒वा ए॒ता अ॑क्ष्णयास्तो॒मीया॑ अपश्यन् ।
ता अ॒न्यथा॒ऽनूच्या॒न्यथोपा॑दधत ।
तदसु॑रा॒ नान्ववा॑यन् ।
ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑राः ।
यद॑क्ष्णयास्तो॒मीया॑ अ॒न्यथा॒ऽनूच्या॒न्यथो॑प॒दधा॑ति॒ , भ्रातृ॑व्याभिभूत्यै ।
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।
आ॒शुस्त्रि॒वृदिति॑ पु॒रस्ता॒दुप॑ दधाति ।
भट्टभास्कर-टीका
1अथ चतुर्थी चितिरारभ्यते । तत्राक्ष्णयास्तोमीया विधातुमाह - देवा वा इत्यादि ॥ अन्यथेत्यादि । अन्येन क्रमेण स्तोमानुसारिणा मन्त्रानाम्नाय अन्येन क्रमेण मुख्यत्वाद्यनुसारिणा ता उपदधांचक्रुः । तां च प्रक्रियामसुरा नान्वगच्छन् आम्नायक्रमेणैवोपादधत । ततः पराभवन् । अन्यथा उपधाने निबन्धनं च ‘यस्य मुख्यवतीः’ इत्यादिना दर्शयिष्यति । अत्राक्ष्णया अनार्जवेन वर्तमानाः स्तोमाः त्निवृदादयो येषु मन्त्रेषु ते अक्ष्णया स्तोमा मन्त्राः तैरुपधेयतया तत्सम्बन्धिन्य इष्टका अक्ष्णयास्तोमीयाः । गहादेराकृतिगणत्वाच्छः । ‘आशुस्त्रिवृत्’ इत्यनुवाके अष्टादश, ‘अग्नेर्भागोसि’ इत्यत्र दश । भवत्यात्मनेति स्वयं भूतिमान् सम्पद्यते । प्रकृत्यादिलक्षणा तृतीया ॥
मूलम् (संयुक्तम्)
य॒ज्ञमु॒खव्ँ वै त्रि॒वृत् [11]
य॒ज्ञ॒मु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ व्यो॑म सप्तद॒श इति॑ दक्षिण॒तो…
विश्वास-प्रस्तुतिः
य॒ज्ञ॒मु॒खव्ँ वै त्रि॒वृत् । [11]
य॒ज्ञ॒मु॒खम् ए॒व पु॒रस्ता॒द्वि या॑तयति ।
व्यो॑म सप्तद॒श इति॑ दक्षिण॒तः ।
मूलम्
य॒ज्ञ॒मु॒खव्ँ वै त्रि॒वृत् । [11]
य॒ज्ञ॒मु॒खम् ए॒व पु॒रस्ता॒द्वि या॑तयति ।
व्यो॑म सप्तद॒श इति॑ दक्षिण॒तः ।
भट्टभास्कर-टीका
2यज्ञमुखं वा इत्यादि ॥ अत्रैव व्यवस्थापयिष्यते मुख्यवत्यः पुरस्तादन्नवत्यो दक्षिणतः प्रतिष्ठावत्यः पश्चादोजस्वत्यः उत्तरत इति । त्रिवृतो यज्ञमुखत्वं बहिष्पवमानापेक्षम् । वियातयत इति । व्यापादयति ॥
मूलम् (संयुक्तम्)
ऽन्नव्ँ॒ वै व्यो॑मान्नँ॑ सप्तद॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते ध॒रुण॑ एकविँ॒श इति॑ प॒श्चात्
विश्वास-प्रस्तुतिः
अन्नव्ँ॒ वै व्यो॑म ।
अन्नँ॑ सप्तद॒शो ।
ऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते ।
ध॒रुण॑ एकविँ॒श इति॑ प॒श्चात् ।
मूलम्
अन्नव्ँ॒ वै व्यो॑म ।
अन्नँ॑ सप्तद॒शो ।
ऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते ।
ध॒रुण॑ एकविँ॒श इति॑ प॒श्चात् ।
भट्टभास्कर-टीका
3आन्नं वै व्योमेति ॥ विविधवति व्योम्नि । जरत्वरादिना ऊठि गुणः । सप्तदशस्यान्नत्वं अन्नसाधनत् सृष्टत्वात् । तस्माद्दक्ष्णिणेन अन्नं भुज्यते ॥
मूलम् (संयुक्तम्)
प्र॑ति॒ष्ठा वा ए॑कविँ॒शᳶ प्रति॑ष्ठित्यै
विश्वास-प्रस्तुतिः
प्र॒ति॒ष्ठा वा ए॑कविँ॒शः ।
प्रति॑ष्ठित्यै
मूलम्
प्र॒ति॒ष्ठा वा ए॑कविँ॒शः ।
प्रति॑ष्ठित्यै
भट्टभास्कर-टीका
4प्रतिष्ठा वा इति ॥ पद्भ्यां सृष्टत्वात् ॥
मूलम् (संयुक्तम्)
भा॒न्तᳶ प॑ञ्चद॒श इत्यु॑त्तर॒त ओजो॒ वै भा॒न्त ओजᳶ॑ पञ्चद॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोभिप्रया॒यी ज॑यति॒ प्रतू॑र्तिरष्टाद॒श इति॑ पु॒रस्ता॑त् [12]
उप॑ दधाति॒
विश्वास-प्रस्तुतिः
भा॒न्तᳶ प॑ञ्चद॒श इत्यु॑त्तर॒तः ।
ओजो॒ वै भा॒न्तः ।
ओजᳶ॑ पञ्चद॒शः ।
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते ।
तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति ।
प्रतू॑र्तिरष्टाद॒श इति॑ ।पु॒रस्ता॒द् उप॑ दधाति ।[12]
मूलम्
भा॒न्तᳶ प॑ञ्चद॒श इत्यु॑त्तर॒तः ।
ओजो॒ वै भा॒न्तः ।
ओजᳶ॑ पञ्चद॒शः ।
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते ।
तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति ।
प्रतू॑र्तिरष्टाद॒श इति॑ ।पु॒रस्ता॒द् उप॑ दधाति ।[12]
भट्टभास्कर-टीका
5भान्तः भानशील इन्द्रः ॥ पञ्चदशस्य ओजस्थानात् उरसो बाहुभ्यां चोत्पत्तिः ॥
मूलम् (संयुक्तम्)
द्वौ त्रि॒वृता॑वभिपू॒र्वय्ँय॑ज्ञमु॒खे वि या॑तयत्य्
विश्वास-प्रस्तुतिः
द्वौ त्रि॒वृता॑वभिपू॒र्वय्ँ य॑ज्ञमु॒खे वि या॑तयति ।
मूलम्
द्वौ त्रि॒वृता॑वभिपू॒र्वय्ँ य॑ज्ञमु॒खे वि या॑तयति ।
भट्टभास्कर-टीका
6द्वौ त्रिवृताविति ॥ द्वे नवके अष्टादशेति । अनुपूर्वं अनुक्रमेण ॥
मूलम् (संयुक्तम्)
भिव॒र्तस्स॑विँ॒श इति॑ दक्षिण॒तोऽन्नव्ँ॒ वा अ॑भिव॒र्तोऽन्नँ॑ सविँ॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते॒ वर्चो॑ द्वाविँ॒श इति॑ प॒श्चाद्
विश्वास-प्रस्तुतिः
अ॒भि॒व॒र्तस्स॑विँ॒श इति॑ दक्षिण॒तः ।
अन्नव्ँ॒ वा अ॑भिव॒र्तः ।
अन्नँ॑ सविँ॒शः ।
अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द् दक्षि॑णे॒नान्न॑मद्यते ।
वर्चो॑ द्वाविँ॒श इति॑ प॒श्चात् ।
मूलम्
अ॒भि॒व॒र्तस्स॑विँ॒श इति॑ दक्षिण॒तः ।
अन्नव्ँ॒ वा अ॑भिव॒र्तः ।
अन्नँ॑ सविँ॒शः ।
अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द् दक्षि॑णे॒नान्न॑मद्यते ।
वर्चो॑ द्वाविँ॒श इति॑ प॒श्चात् ।
भट्टभास्कर-टीका
7अभिवर्तस्सामविशेषः । अपरपक्ष इत्येके । सविंशो विंशतिस्तोत्रियासहितः स्तोमः । तयोरन्नसाधनत्वात् अन्नत्वम् । गतमन्यत् ॥
मूलम् (संयुक्तम्)
यद्विँ॑श॒तिर्द्वे तेन॑ वि॒राजौ॒ यद्द्वे प्र॑ति॒ष्ठा तेन॑ वि॒राजो॑रे॒वाभि॑पू॒र्वम॒न्नाद्ये॒ प्रति॑ तिष्ठति॒ तपो॑ नवद॒श इत्यु॑त्तर॒तस्तस्मा॑थ्
विश्वास-प्रस्तुतिः
यद्विँ॑श॒तिर् द्वे तेन॑ वि॒राजौ ।
यद् द्वे प्र॑ति॒ष्ठा तेन॑ ।
वि॒राजो॑रे॒वाभि॑पू॒र्वम॒न्नाद्ये॒ प्रति॑ तिष्ठति ।
तपो॑ नवद॒श इत्यु॑त्तर॒तः ।
तस्मा॑त् ।
मूलम्
यद्विँ॑श॒तिर् द्वे तेन॑ वि॒राजौ ।
यद् द्वे प्र॑ति॒ष्ठा तेन॑ ।
वि॒राजो॑रे॒वाभि॑पू॒र्वम॒न्नाद्ये॒ प्रति॑ तिष्ठति ।
तपो॑ नवद॒श इत्यु॑त्तर॒तः ।
तस्मा॑त् ।
भट्टभास्कर-टीका
8यदिति ॥ यस्मादत्र विंशतिः सन्ति तेन द्वे विराजौ दशके । यस्मादत्र द्वे स्तः तेन प्रतिष्ठा । तेन विराजोः द्वयोरभिपूर्वं प्रति अन्नाद्यर्थं विराजोऽन्नत्वात् । निमित्तात्सप्तमी ॥
मूलम् (संयुक्तम्)
तस्मा॑त्स॒व्यः [13]
हस्त॑योस्तप॒स्वित॑रो॒ योनि॑श्चतुर्विँ॒श इति॑ पु॒रस्ता॒दुप॑ दधाति॒
विश्वास-प्रस्तुतिः
तस्मा॑त् स॒व्यः हस्त॑योस् तप॒स्वित॑रः । [13]
योनि॑श् चतुर्विँ॒श इति॑ पु॒रस्ता॒दुप॑ दधाति ।
मूलम्
तस्मा॑त् स॒व्यः हस्त॑योस् तप॒स्वित॑रः । [13]
योनि॑श् चतुर्विँ॒श इति॑ पु॒रस्ता॒दुप॑ दधाति ।
भट्टभास्कर-टीका
9सव्य इति ॥ हस्तयोर्मध्ये सव्यो दक्षिणः तस्वितरः । तपः दुःखम् । प्रभूततरोपकारक इत्यर्थः ॥
मूलम् (संयुक्तम्)
चतु॑र्विँशत्यक्षरा गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒खय्ँय॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ गर्भाः॑ पञ्चविँ॒श इति॑ दक्षिण॒तोऽन्नव्ँ॒ वै गर्भा॒ अन्न॑म्पञ्चविँ॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यत॒ ओज॑स्त्रिण॒व इति॑ प॒श्चादि॒मे वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति स॒म्भर॑णस्त्रयोविँ॒श इति॑ [14]
उ॒त्त॒र॒तस्तस्मा॑त्स॒व्यो हस्त॑योस्सम्भा॒र्य॑तर॒ᳵ क्रतु॑रेकत्रिँ॒श इति॑ पु॒रस्ता॒दुप॑ दधाति॒ वाग्वै क्रतु॑र्यज्ञमु॒खव्ँवाग्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति ब्र॒ध्नस्य॑ वि॒ष्टप॑ञ्चतुस्त्रिँ॒श इति॑ दक्षिण॒तो॑
विश्वास-प्रस्तुतिः
चतु॑र्विँशत्यक्षरा गाय॒त्री ।
गा॒य॒त्री य॑ज्ञमु॒खम् ।
य॒ज्ञ॒मु॒खमे॒व पु॒रस्ता॒द् वि या॑तयति ।
गर्भाः॑ पञ्चविँ॒श इति॑ दक्षिण॒तः ।
अन्नव्ँ॒ वै गर्भाः॑ ।
अन्न॑म् पञ्चविँ॒शः ।
अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द् दक्षि॑णे॒नान्न॑मद्यते ।
ओज॑स्त्रिण॒व इति॑ प॒श्चात् ।
इ॒मे वै लो॒कास् त्रि॑ण॒वः ।
ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति ।
स॒म्भर॑णस् त्रयोविँ॒श इत्यु॑त्तर॒तः । [14]
तस्मा॑त् स॒व्यो हस्त॑योस् सम्भा॒र्य॑तरः ।
क्रतु॑रेकत्रिँ॒श इति॑ पु॒रस्ता॒दुप॑ दधाति ।
वाग्वै क्रतुः॑ ।
य॒ज्ञ॒मु॒खव्ँ वाक् ।
य॒ज्ञ॒मु॒खमे॒व पु॒रस्ता॒द् वि या॑तयति ।
ब्र॒ध्नस्य॑ वि॒ष्टप॑ञ्चतुस्त्रिँ॒श इति॑ दक्षिण॒तः॑ ।
मूलम्
चतु॑र्विँशत्यक्षरा गाय॒त्री ।
गा॒य॒त्री य॑ज्ञमु॒खम् ।
य॒ज्ञ॒मु॒खमे॒व पु॒रस्ता॒द् वि या॑तयति ।
गर्भाः॑ पञ्चविँ॒श इति॑ दक्षिण॒तः ।
अन्नव्ँ॒ वै गर्भाः॑ ।
अन्न॑म् पञ्चविँ॒शः ।
अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द् दक्षि॑णे॒नान्न॑मद्यते ।
ओज॑स्त्रिण॒व इति॑ प॒श्चात् ।
इ॒मे वै लो॒कास् त्रि॑ण॒वः ।
ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति ।
स॒म्भर॑णस् त्रयोविँ॒श इत्यु॑त्तर॒तः । [14]
तस्मा॑त् स॒व्यो हस्त॑योस् सम्भा॒र्य॑तरः ।
क्रतु॑रेकत्रिँ॒श इति॑ पु॒रस्ता॒दुप॑ दधाति ।
वाग्वै क्रतुः॑ ।
य॒ज्ञ॒मु॒खव्ँ वाक् ।
य॒ज्ञ॒मु॒खमे॒व पु॒रस्ता॒द् वि या॑तयति ।
ब्र॒ध्नस्य॑ वि॒ष्टप॑ञ्चतुस्त्रिँ॒श इति॑ दक्षिण॒तः॑ ।
भट्टभास्कर-टीका
10चतुर्विंशत्यक्षरेत्यादि ॥ गतम् । पवमानाभिप्रायं गायत्या यज्ञमुखत्वम् ॥ +++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम् । )+++
मूलम् (संयुक्तम्)
ऽसौ वा आ॑दि॒त्यो ब्र॒ध्नस्य॑ वि॒ष्टप॑म्ब्रह्मवर्च॒समे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॒णोऽर्धो॑ ब्रह्मवर्च॒सित॑रᳶ प्रति॒ष्ठा त्र॑यस्त्रिँ॒श इति॑ प॒श्चात्प्रति॑ष्ठित्यै॒ नाक॑ष्षट्त्रिँ॒श इत्यु॑त्तर॒तस्…
विश्वास-प्रस्तुतिः
अ॒सौ वा आ॑दि॒त्यो ब्र॒ध्नस्य॑ वि॒ष्टप॑म् ।
ब्र॒ह्म॒व॒र्च॒समे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द् दक्षि॒णोऽर्धो॑ ब्रह्मवर्च॒सित॑रः ।
प्र॒ति॒ष्ठा त्र॑यस्त्रिँ॒श इति॑ प॒श्चात्
प्रति॑ष्ठित्यै ।
नाक॑ष् षट्त्रिँ॒श इत्यु॑त्तर॒तः ।
मूलम्
अ॒सौ वा आ॑दि॒त्यो ब्र॒ध्नस्य॑ वि॒ष्टप॑म् ।
ब्र॒ह्म॒व॒र्च॒समे॒व द॑क्षिण॒तो ध॑त्ते ।
तस्मा॒द् दक्षि॒णोऽर्धो॑ ब्रह्मवर्च॒सित॑रः ।
प्र॒ति॒ष्ठा त्र॑यस्त्रिँ॒श इति॑ प॒श्चात्
प्रति॑ष्ठित्यै ।
नाक॑ष् षट्त्रिँ॒श इत्यु॑त्तर॒तः ।
भट्टभास्कर-टीका
11असाविति ॥ ब्रध्नस्य विष्टपस्य परिबृढस्यात्मनो विष्टपं स्थानमादित्यः । असाविति परिदृश्यमानमण्डलं निर्दिशति । दक्षिणार्धः दक्षिणैकदेशः ।‘अर्धस्यासमद्योतने’ इत्यर्धशब्द आद्युदात्तः । ब्रह्मवर्चसितरः प्रवृद्ध उज्ज्वलतरः तपोबलत इतरस्माद्भागात् ॥
मूलम् (संयुक्तम्)
सु॑व॒र्गो वै लो॒को नाक॑स्सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ [15]
विश्वास-प्रस्तुतिः
सु॒व॒र्गो वै लो॒को नाकः॑ ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ [15]
मूलम्
सु॒व॒र्गो वै लो॒को नाकः॑ ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ [15]
भट्टभास्कर-टीका
12सुवर्गो वा इति ॥ दक्षिणागोळस्थितानां गोळोर्ध्वभागस्थितस्य स्वर्गस्योत्तरत्वात् । समष्टिः सम्यक्प्राप्तिः । अशू व्याप्तौ, ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥
इति पञ्चमे तृतीये तृतीयोनुवाकः ॥