मूलम् (संयुक्तम्)
इन्द्रा॑ग्नी॒ अव्य॑थमाना॒मिति॑ स्वयमातृ॒ण्णामुप॑ दधातीन्द्रा॒ग्निभ्याव्ँ॒वा इ॒मौ लो॒कौ विधृ॑ताव॒नयो॑र्लो॒कयो॒र्विधृ॑त्या॒
विश्वास-प्रस्तुतिः
इन्द्रा॑ग्नी॒ अव्य॑थमाना॒म् इति॑ स्वयमातृ॒ण्णामुप॑ दधाति ।
इ॒न्द्रा॒ग्निभ्याव्ँ॒ वा इ॒मौ लो॒कौ विधृ॑तौ ।
अ॒नयो॑र् लो॒कयो॒र् विधृ॑त्यै ।
मूलम्
इन्द्रा॑ग्नी॒ अव्य॑थमाना॒म् इति॑ स्वयमातृ॒ण्णामुप॑ दधाति ।
इ॒न्द्रा॒ग्निभ्याव्ँ॒ वा इ॒मौ लो॒कौ विधृ॑तौ ।
अ॒नयो॑र् लो॒कयो॒र् विधृ॑त्यै ।
भट्टभास्कर-टीका
1अथ मध्यमायां चितौ स्वयमातृण्णां विदधाति - इन्द्राग्नी इत्यादि ॥ प्रथमचितामिव स्वयमातृण्णां अश्वमवघ्राप्य अविदुषा ब्राह्मणेन सहाभिद्रुत्य ‘इन्द्राग्नी अव्यथमानां’ इत्यनुद्रुत्य ‘विश्वकर्मा त्वा सादयतु’ इत्युपदधाति । इमौ लोकाविति । द्यौश्च पृथिवी च विधृताविति शेषो धारयितुं शक्यते । तस्मादिन्द्राग्निभ्यां कृतग्रहणा स्वयमातृण्णा अनयोस्तावत् लोकयोः विधृत्यै भवति । ‘गतिरनन्तरः’ ‘तादौ च’ इत्युभयत्र गतेः प्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
अधृ॑तेव॒ वा ए॒षा यन्म॑ध्य॒मा चिति॑र॒न्तरि॑क्षमिव॒ वा ए॒षेन्द्रा॑ग्नी॒ इत्या॑हेन्द्रा॒ग्नी वै दे॒वाना॑मोजो॒भृता॒वोज॑सै॒वैना॑म॒न्तरि॑क्षे चिनुते॒ धृत्यै॑ स्वयमातृ॒ण्णामुप॑ दधात्य्…
विश्वास-प्रस्तुतिः
अधृ॑तेव॒ वा ए॒षा यन् म॑ध्य॒मा चितिः॑ ।
अ॒न्तरि॑क्षमिव॒ वा ए॒षेन्द्रा॑ग्नी॒ इत्या॑ह ।
इ॒न्द्रा॒ग्नी वै दे॒वाना॑मोजो॒ भृतौ॑ ।
ओज॑सै॒वैना॑म॒न्तरि॑क्षे चिनुते ।
धृत्यै॑ ।
स्वयमातृ॒ण्णामुप॑ दधाति ।
मूलम्
अधृ॑तेव॒ वा ए॒षा यन् म॑ध्य॒मा चितिः॑ ।
अ॒न्तरि॑क्षमिव॒ वा ए॒षेन्द्रा॑ग्नी॒ इत्या॑ह ।
इ॒न्द्रा॒ग्नी वै दे॒वाना॑मोजो॒ भृतौ॑ ।
ओज॑सै॒वैना॑म॒न्तरि॑क्षे चिनुते ।
धृत्यै॑ ।
स्वयमातृ॒ण्णामुप॑ दधाति ।
भट्टभास्कर-टीका
2अथान्तरिक्षस्य विधृतिं प्रतिपादयन्ति - अधृतेव वेत्यादि ॥ कथमधृतेवेत्याह - अन्तरिक्षमिवेति । मध्यमत्वात् । ओजोभृताविति सामर्थ्यातिशयो गम्यते । सर्वेषामपि देवानां ओजोभृत्त्वात् तस्मात्तयोरेवौजसा इमामन्तरिक्षे चिनुते । तस्मादियमन्तरिक्षस्यापि धृत्यै धारणाय भवति ॥
मूलम् (संयुक्तम्)
अ॒न्तरि॑क्षव्ँ॒ वै स्व॑यमातृ॒ण्णान्तरि॑क्षमे॒वोप॑ ध॒त्ते
विश्वास-प्रस्तुतिः
अ॒न्तरि॑क्षव्ँ॒ वै स्व॑यमातृ॒ण्णा ।
अ॒न्तरि॑क्षमे॒वोप॑ ध॒त्ते ।
मूलम्
अ॒न्तरि॑क्षव्ँ॒ वै स्व॑यमातृ॒ण्णा ।
अ॒न्तरि॑क्षमे॒वोप॑ ध॒त्ते ।
भट्टभास्कर-टीका
8अन्तरिक्षं वा इत्यादि ॥ बहूपकारकत्वात् छिद्रवत्त्वाच्च ॥
मूलम् (संयुक्तम्)
ऽश्व॒मुप॑ [6]
घ्रा॒प॒य॒ति॒ प्रा॒णमे॒वास्या॑न्दधा॒त्यथो॑ प्राजाप॒त्यो वा अश्वᳶ॑ प्र॒जाप॑तिनै॒वाग्निञ्चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुत्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै
विश्वास-प्रस्तुतिः
अश्व॒मुप॑ घ्रापयति। [6]
प्रा॒णमे॒वास्या॑न् दधाति ।
अथो॑ प्राजाप॒त्यो वा अश्वः॑ ।
प्र॒जाप॑तिनै॒वाग्निञ् चि॑नुते ।
स्व॒य॒मा॒तृ॒ण्णा भ॑वति ।
प्रा॒णाना॒मुत्सृ॑ष्ट्यै ।
अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।
मूलम्
अश्व॒मुप॑ घ्रापयति। [6]
प्रा॒णमे॒वास्या॑न् दधाति ।
अथो॑ प्राजाप॒त्यो वा अश्वः॑ ।
प्र॒जाप॑तिनै॒वाग्निञ् चि॑नुते ।
स्व॒य॒मा॒तृ॒ण्णा भ॑वति ।
प्रा॒णाना॒मुत्सृ॑ष्ट्यै ।
अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।
भट्टभास्कर-टीका
4अश्वमुप घ्रापयतीति ॥ व्याख्यातं स्वयमातृण्णामित्यत्र ॥
मूलम् (संयुक्तम्)
दे॒वानाव्ँ॒ वै सु॑व॒र्गल्ँ लो॒कय्ँय॒तान्दिश॒स्सम॑व्लीयन्त॒ त ए॒ता दिश्या॑ अपश्य॒न्ता उपा॑दधत॒ ताभि॒र्वै ते दिशो॑ऽदृँह॒न्यद्दिश्या॑ उप॒दधा॑ति दि॒शाव्ँविधृ॑त्यै॒
विश्वास-प्रस्तुतिः
दे॒वानाव्ँ॒ वै सु॑व॒र्गल्ँ लो॒कय्ँ य॒तान्दिश॒स् सम॑व्लीयन्त ।
त ए॒ता दिश्या॑ अपश्यन् ।
ता उपा॑दधत ।
ताभि॒र्वै ते दिशो॑ऽदृँहन् ।
यद् दिश्या॑ उप॒दधा॑ति ।
दि॒शाव्ँ विधृ॑त्यै ।
मूलम्
दे॒वानाव्ँ॒ वै सु॑व॒र्गल्ँ लो॒कय्ँ य॒तान्दिश॒स् सम॑व्लीयन्त ।
त ए॒ता दिश्या॑ अपश्यन् ।
ता उपा॑दधत ।
ताभि॒र्वै ते दिशो॑ऽदृँहन् ।
यद् दिश्या॑ उप॒दधा॑ति ।
दि॒शाव्ँ विधृ॑त्यै ।
भट्टभास्कर-टीका
5देवानां वा इत्यादि ॥ दिश्याविधिः । यतामिति । ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । समव्लीयन्त व्यशीर्यन्त । व्ली विशरणे । दिश्या इति । दिश्यानुपदधानो मन्त्र आसामिति दिश्याः । पूर्ववद्यत् । ‘राज्ञ्यसि’ इत्यादयः पञ्च एकैका दिक्षु एकामध्यै । ता इत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
दश॑ प्राण॒भृतᳶ॑ पु॒रस्ता॒दुप॑ [7]
द॒धा॒ति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व पु॒रस्ता॑द्धत्ते॒ तस्मा॑त्पु॒रस्ता॑त्प्रा॒णा
विश्वास-प्रस्तुतिः
दश॑ प्राण॒भृतᳶ॑ पु॒रस्ता॒दुप॑ दधाति ।[7]
नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी ।
प्रा॒णाने॒व पु॒रस्ता॑द् धत्ते ।
तस्मा॑त् पु॒रस्ता॑त् प्रा॒णाः ।
मूलम्
दश॑ प्राण॒भृतᳶ॑ पु॒रस्ता॒दुप॑ दधाति ।[7]
नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी ।
प्रा॒णाने॒व पु॒रस्ता॑द् धत्ते ।
तस्मा॑त् पु॒रस्ता॑त् प्रा॒णाः ।
भट्टभास्कर-टीका
6दश प्राणभृत इत्यादि ॥ पुरस्तात् प्राचीः ‘आयुर्मे पाहि’ इत्याद्याः पुरुषस्य आयुर्दाः प्राणहेतवः । नवेति । सप्त शीर्षण्या द्वाववाञ्चाविति । तस्मात्पुरस्तात्प्रायशः [त्प्राञ्चः] ॥
मूलम् (संयुक्तम्)
ज्योति॑ष्मतीमुत्त॒मामुप॑ दधाति॒ तस्मा॑त्प्रा॒णानाव्ँ॒वाग्ज्योति॑रुत्त॒मा दशोप॑ दधाति॒
विश्वास-प्रस्तुतिः
ज्योति॑ष्मतीमुत्त॒मामुप॑ दधाति ।
तस्मा॑त् प्रा॒णानाव्ँ॒ वाग्ज्योति॑रुत्त॒मा ।
दशोप॑ दधाति ।
मूलम्
ज्योति॑ष्मतीमुत्त॒मामुप॑ दधाति ।
तस्मा॑त् प्रा॒णानाव्ँ॒ वाग्ज्योति॑रुत्त॒मा ।
दशोप॑ दधाति ।
भट्टभास्कर-टीका
7ज्योतिष्मतीमिति ॥ ज्योतिर्मे यच्छेति । वाग्ज्योतिरिति । परस्य ज्योतिषो विवर्तत्वाद्वाचः ॥
मूलम् (संयुक्तम्)
दशा॑क्षरा वि॒राड्वि॒राट्छन्द॑सा॒ञ्ज्योति॒र्ज्योति॑रे॒व पु॒रस्ता॑द्धत्ते॒ तस्मा॑त्पु॒रस्ता॒ज्ज्योति॒रुपा॑स्महे॒
विश्वास-प्रस्तुतिः
दशा॑क्षरा वि॒राट् ।
वि॒राट् छन्द॑सा॒ञ् ज्योतिः॑ ।
ज्योति॑रे॒व पु॒रस्ता॑द्धत्ते ।
तस्मा॑त् पु॒रस्ता॒ज् ज्योति॒रुपा॑स्महे ।
मूलम्
दशा॑क्षरा वि॒राट् ।
वि॒राट् छन्द॑सा॒ञ् ज्योतिः॑ ।
ज्योति॑रे॒व पु॒रस्ता॑द्धत्ते ।
तस्मा॑त् पु॒रस्ता॒ज् ज्योति॒रुपा॑स्महे ।
भट्टभास्कर-टीका
8दशाक्षरेति ॥ छन्दसां मध्ये विराट् द्योतनशीला ज्योतिः । तस्मादिति । भ्रूमध्यादौ परं ज्योतिरुपास्महे । यद्वा - पूर्वस्यां दिशि सावित्रं ज्योतिरुपास्महे उदितं पश्यामः ॥
मूलम् (संयुक्तम्)
छन्दाँ॑सि प॒शुष्वा॒जिम॑यु॒स्तान्बृ॑ह॒त्युद॑जय॒त्तस्मा॒द्बार्ह॑ताः [8]
प॒शव॑ उच्यन्ते॒
विश्वास-प्रस्तुतिः
छन्दाँ॑सि प॒शुष्वा॒जिम॑युः ।
तान् बृ॑ह॒त्युद॑जयत् ।
तस्मा॒द्बार्ह॑ताᳶ प॒शव॑ उच्यन्ते ।[8]
मूलम्
छन्दाँ॑सि प॒शुष्वा॒जिम॑युः ।
तान् बृ॑ह॒त्युद॑जयत् ।
तस्मा॒द्बार्ह॑ताᳶ प॒शव॑ उच्यन्ते ।[8]
भट्टभास्कर-टीका
9अथ बृहतीर्विधातुमाह - छन्दांसीत्यादि ॥ पशुषु निमित्तेषु आजिमयुः युद्धं गताः । ‘लङश्शाकटायनस्य’ इति झेर्जुस् । तानित्यादि । गतम् । तस्मात्पशव्या बृहत्य इत्युक्तं भवति ॥
मूलम् (संयुक्तम्)
मा छन्द॒ इति॑ दक्षिण॒त उप॑ दधाति॒ तस्मा॑द्दक्षि॒णावृ॑तो॒ मासाः॑ पृथि॒वी छन्द॒ इति॑ प॒श्चात्प्रति॑ष्ठित्या अ॒ग्निर्दे॒वतेत्यु॑त्तर॒त ओजो॒ वा अ॒ग्निर्…
विश्वास-प्रस्तुतिः
मा छन्द॒ इति॑ दक्षिण॒त उप॑ दधाति ।
तस्मा॑द् दक्षि॒णावृ॑तो॒ मासाः॑ ।
पृ॒थि॒वी छन्द॒ इति॑ प॒श्चात् प्रति॑ष्ठित्यै ।
अ॒ग्निर्दे॒वतेत्यु॑त्तर॒तः ।
ओजो॒ वा अ॒ग्निः ।
मूलम्
मा छन्द॒ इति॑ दक्षिण॒त उप॑ दधाति ।
तस्मा॑द् दक्षि॒णावृ॑तो॒ मासाः॑ ।
पृ॒थि॒वी छन्द॒ इति॑ प॒श्चात् प्रति॑ष्ठित्यै ।
अ॒ग्निर्दे॒वतेत्यु॑त्तर॒तः ।
ओजो॒ वा अ॒ग्निः ।
भट्टभास्कर-टीका
10’मा छन्दः’ इत्याद्या द्वादश दक्षिणत उपदधाति तस्मादिति ॥ पादसङ्ख्यान्वयान्माशब्दान्वयाच्च मासा गृह्यन्ते । दक्षिणावृत इति । दक्षिणायां दिशि आवृत्तिर्येषां दक्षिणभागवृत्तित्वं प्रदक्षिणभागगमनत्वं मेषादिसंज्ञासंज्ञितगोळद्वादशभागस्थितदिवाकरगतिविशेषात्मनां मासानां गोळभ्रमणनिबन्धनात् प्रदक्षिणा वृत्तिः । प्रतिष्ठित्या इति । पृथिव्यादीनां द्वादशानां प्रतिष्ठाहेतुत्वात् ॥
मूलम् (संयुक्तम्)
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोभिप्रया॒यी ज॑यति॒
विश्वास-प्रस्तुतिः
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते ।
तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति ।
मूलम्
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते ।
तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति ।
भट्टभास्कर-टीका
11ओज एवेति ॥ अग्न्यादीनां ओजस्वित्वात् । तस्मादिति । उत्तरस्यां दिशि अभिप्रयाणशीलो जयति दुरितानि । ‘सुप्यजातौ’ इति निनिः, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
षट्त्रिँ॑श॒त्सम्प॑द्यन्ते॒ षट्त्रिँ॑शदक्षरा बृह॒ती बार्ह॑ताᳶ प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शूनव॑ रुन्द्धे बृह॒ती छन्द॑साँ॒ स्वारा॑ज्य॒म्परी॑याय॒ यस्यै॒ताः [9]
उ॒प॒धी॒यन्ते॒ गच्छ॑ति॒ स्वारा॑ज्यँ…
विश्वास-प्रस्तुतिः
षट्त्रिँ॑श॒त् सम्प॑द्यन्ते ।
षट्त्रिँ॑शदक्षरा बृह॒ती ।
बार्ह॑ताᳶ प॒शवः॑ ।
बृ॒ह॒त्यैवास्मै॑ प॒शूनव॑ रुन्धे ।
बृ॒ह॒ती छन्द॑साँ॒ स्वारा॑ज्य॒म् परी॑याय ।
यस्यै॒ता उ॑प॒धीयन्ते॒ गच्छ॑ति॒ स्वारा॑ज्यम् ।[9]
मूलम्
षट्त्रिँ॑श॒त् सम्प॑द्यन्ते ।
षट्त्रिँ॑शदक्षरा बृह॒ती ।
बार्ह॑ताᳶ प॒शवः॑ ।
बृ॒ह॒त्यैवास्मै॑ प॒शूनव॑ रुन्धे ।
बृ॒ह॒ती छन्द॑साँ॒ स्वारा॑ज्य॒म् परी॑याय ।
यस्यै॒ता उ॑प॒धीयन्ते॒ गच्छ॑ति॒ स्वारा॑ज्यम् ।[9]
भट्टभास्कर-टीका
12षत्रिंशदिति ॥ षट्च त्रिंशच्च षट्त्रिंशत् । ‘सङ्ख्या’ इति पूर्वपदप्रकृतिस्वरत्वम् । बृहत्येति । शतृवद्भावात् ‘शतुरनुमः’ इति नद्या उदात्तत्वम्, ‘बृहन्महतोरुपसङ्ख्यानम्’ इति वा । ततः ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वम् । स्वाराज्यमिति । ‘गुणवचनब्राह्मणादिभ्यः’ इति ष्यञ् ॥
मूलम् (संयुक्तम्)
स॒प्त वाल॑खिल्याᳶ पु॒रस्ता॒दुप॑ दधाति स॒प्त प॒श्चात्स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णा द्वाववा॑ञ्चौ प्रा॒णानाँ॑ सवीर्य॒त्वाय॑ मू॒र्धासि॒ राडिति॑ पु॒रस्ता॒दुप॑ दधाति॒ यन्त्री॒ राडिति॑ प॒श्चात् ।
विश्वास-प्रस्तुतिः
स॒प्त वाल॑खिल्याᳶ पु॒रस्ता॒दुप॑ दधाति , स॒प्त प॒श्चात् ।
स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णा , द्वाववा॑ञ्चौ प्रा॒णानाँ॑ सवीर्य॒त्वाय॑ ।
मू॒र्धाऽसि॒ राडिति॑ पु॒रस्ता॒दुप॑ दधाति॒ , यन्त्री॒ राडिति॑ प॒श्चात् ।
मूलम्
स॒प्त वाल॑खिल्याᳶ पु॒रस्ता॒दुप॑ दधाति , स॒प्त प॒श्चात् ।
स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णा , द्वाववा॑ञ्चौ प्रा॒णानाँ॑ सवीर्य॒त्वाय॑ ।
मू॒र्धाऽसि॒ राडिति॑ पु॒रस्ता॒दुप॑ दधाति॒ , यन्त्री॒ राडिति॑ प॒श्चात् ।
भट्टभास्कर-टीका
13वालखिल्या इति ॥ ‘मूर्धाऽसि राट्’ इति पुरस्तात्प्रतीचीः ‘यन्त्री राट्’ इति सप्त पश्चात् प्राचीः । वालस्थाने खिलां स्वरूपासङ्कीर्तनात् वालखिल्या इति संज्ञामात्रमिदम् । यद्वा - वालखिल्या ऋषयः तदात्मनेष्टकाः स्तूयन्ते । द्वाविति । तेन शीर्षण्याः प्राणाः सङ्ख्यायास्सप्तत्वात् संहतिः वक्ष्यत इति ॥
मूलम् (संयुक्तम्)
प्रा॒णाने॒वास्मै॑ स॒मीचो॑ दधाति ॥ [10]
विश्वास-प्रस्तुतिः
प्रा॒णान् ए॒वास्मै॑ स॒मीचो॑ दधाति ॥ [10]
मूलम्
प्रा॒णान् ए॒वास्मै॑ स॒मीचो॑ दधाति ॥ [10]
भट्टभास्कर-टीका
14समीच इति ॥ परस्परसङ्गताः तेन चक्षुरादिके द्वेद्वे सङ्गते इति । ‘समस्समिः’ इति सम्यादेशे ‘चौ’ इति दीर्घत्वम्, अन्तोदात्तत्वं च ॥
इति पञ्चमे तृतीये द्वितीयोनुवाकः ॥