मूलम् (संयुक्तम्)
उ॒त्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निᳵ किव्ँवाहै॒तस्य॑ क्रि॒यते॒ किव्ँवा॒ न यद्वै य॒ज्ञस्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॒ पूय॑ति॒ वा अ॑स्य॒ तदा॑श्वि॒नीरुप॑ दधात्य॒श्विनौ॒ वै दे॒वाना॑म्भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति॒
विश्वास-प्रस्तुतिः
उ॒त्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः ।
किव्ँवाहै॒तस्य॑ क्रि॒यते॒ किव्ँ वा॒ न ।
यद् वै य॒ज्ञस्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॒ पूय॑ति॒ वा अ॑स्य॒ तत् ।
आ॒श्वि॒नीरुप॑ दधाति ।
अ॒श्विनौ॒ वै दे॒वाना॑म् भि॒षजौ॑ ।
ताभ्या॑म् ए॒वास्मै॑ भेष॒जङ् क॑रोति ।
मूलम्
उ॒त्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः ।
किव्ँवाहै॒तस्य॑ क्रि॒यते॒ किव्ँ वा॒ न ।
यद् वै य॒ज्ञस्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॒ पूय॑ति॒ वा अ॑स्य॒ तत् ।
आ॒श्वि॒नीरुप॑ दधाति ।
अ॒श्विनौ॒ वै दे॒वाना॑म् भि॒षजौ॑ ।
ताभ्या॑म् ए॒वास्मै॑ भेष॒जङ् क॑रोति ।
भट्टभास्कर-टीका
1उक्ता प्रथमा चितिः । इदानीं द्वितीयस्यां चितौ आश्विनीर्विधातुमाह - उत्सन्नयज्ञ इत्यादि ॥ अतः परमग्निकाण्डमेव । उत्सन्नयज्ञः । शाकपार्थिवादिः । अग्नौ भूयिष्ठं कर्मोत्सन्नं भवति कार्त्स्न्येन कर्तुमशक्यत्वात् । तस्मात् एतस्य किं कर्तव्यं क्रियते किं वाऽकर्तव्यमेव क्रियते इति को ज्ञातुं अर्हति । अहेति पक्षे । यच्च यज्ञस्य क्रियमाणस्य कार्त्स्न्येन निवर्तयितुं प्रारब्धस्य सम्बन्धिनः अन्तर्यन्ति नाशयन्ति । प्रमादादननुष्ठानमेव नाशः ।‘अन्तरपरिग्रहे’ इति गतित्वात् ‘तिङि चोदात्तवति’ इत्यन्तश्शब्दस्य अनुदात्तत्वम् । ‘यद्वृत्तान्नित्यम्’ इति आख्यातं न निहन्यते । तदाऽस्य अङ्गं पूयति विशीर्यते दुष्टं पच्यते भिषजा चिकित्सितव्यं भवति । पूयी विशरणे । आश्विनीरिति । ‘ध्रुवक्षितिः’ इत्याद्याः । अश्विमानुपधान आसामिति ‘अश्विमानण्’ इत्यण्प्रत्ययः । अश्विनावित्यादि । गतम् ॥
मूलम् (संयुक्तम्)
पञ्चोप॑ दधाति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तस्मै॑ भेष॒जङ्क॑रोत्यृत॒व्या॑ उप॑ दधात्यृतू॒नाङ्कॢप्त्यै॑ [1]
पञ्चोप॑ दधाति पञ्च॒ वा ऋ॒तवो॒ याव॑न्त ए॒वर्तव॒स्तान्क॑ल्पयति
विश्वास-प्रस्तुतिः
पञ्चोप॑ दधाति ।
पाङ्क्तो॑ य॒ज्ञः ।
यावा॑ने॒व य॒ज्ञस् तस्मै॑ भेष॒जङ्क॑रोति ।
ऋ॒त॒व्या॑ उप॑ दधाति ।
ऋ॒तू॒नाङ् कॢप्त्यै॑ । [1]
पञ्चोप॑ दधाति ।
पञ्च॒ वा ऋ॒तवः॑ ।
याव॑न्त ए॒वर्तव॒स् , तान् क॑ल्पयति ।
मूलम्
पञ्चोप॑ दधाति ।
पाङ्क्तो॑ य॒ज्ञः ।
यावा॑ने॒व य॒ज्ञस् तस्मै॑ भेष॒जङ्क॑रोति ।
ऋ॒त॒व्या॑ उप॑ दधाति ।
ऋ॒तू॒नाङ् कॢप्त्यै॑ । [1]
पञ्चोप॑ दधाति ।
पञ्च॒ वा ऋ॒तवः॑ ।
याव॑न्त ए॒वर्तव॒स् , तान् क॑ल्पयति ।
भट्टभास्कर-टीका
2पञ्चेति ॥ एकैका दिक्षु एका मध्ये । पाङ्क्तत्वमुक्तम् । ऋतव्या इति । ऋतुमता मन्त्रेणोपधेयाः । पूर्ववत् यत् । ‘सजूर् ऋतुभिस्सजूर्विधाभित्स्सजूर्वसुभिः’ इत्याद्याः । कॢप्त्यै अविपर्यरतधर्मतायै । पञ्चेति । एकैका दिक्षु एकां मध्ये । पञ्च वा इति । हेमन्तशिशिरयोरेकत्वात् ॥
मूलम् (संयुक्तम्)
समा॒नप्र॑भृतयो भवन्ति समा॒नोद॑र्का॒स्तस्मा॑त्समा॒ना ऋ॒तव॒ एके॑न प॒देन॒ व्याव॑र्तन्ते॒ तस्मा॑दृ॒तवो॒ व्याव॑र्तन्ते
विश्वास-प्रस्तुतिः
स॒मा॒नप्र॑भृतयो भवन्ति समा॒नोद॑र्काः ।
तस्मा॑त्समा॒ना ऋ॒तवः॑ ।
एके॑न प॒देन॒ व्याव॑र्तन्ते ।
तस्मा॑द् ऋ॒तवो॒ व्याव॑र्तन्ते ।
मूलम्
स॒मा॒नप्र॑भृतयो भवन्ति समा॒नोद॑र्काः ।
तस्मा॑त्समा॒ना ऋ॒तवः॑ ।
एके॑न प॒देन॒ व्याव॑र्तन्ते ।
तस्मा॑द् ऋ॒तवो॒ व्याव॑र्तन्ते ।
भट्टभास्कर-टीका
3समानप्रभृतय इति ॥ एकप्रारम्भा एकसमाप्तय इत्यर्थः । तस्मान्मध्ये (दोषं) एकं पदं व्यावर्तते तासां, यथा - सजूरादिकं वसुभी रुद्रैरादित्यैः विश्वैर्देवैरिति । सर्वमन्यत्समानं, यथा - सजूर् ऋतुभिस्सजूर्विधाभिः’ इति सर्वासां प्रभृतिः । ‘सजूर्देवैर्वयोनाथैः’ इत्यादि सर्वासामुदर्कः । तस्मादित्यादि । मन्त्राणां अत्यन्तसाम्यात् ऋतवोऽप्यत्यन्तसमाना भवन्ति । एकेनेत्यादिना पुनः प्रवृत्तिं प्रतिपादयन्ति । तस्मादिति । एकेन पदेन व्यावृत्तत्वात् मन्त्राणां समाना अपि सन्तो व्यावृत्तधर्माणो भवन्ति ऋतवः । केचिदाहुः - विधाः वसुरुद्रादित्यविश्वेदेवाः । व्यावर्तकाः विधा इत्याव [इत्येवं] उच्यन्ते । ‘सजूरृतुभिः’ इति प्रभृतिः उदर्कः स (एक) एव । ‘सजूर्देवैः’ इति वीप्सा पञ्चस्वनुषङ्गद्योतनार्था इति ॥
मूलम् (संयुक्तम्)
प्राण॒भृत॒ उप॑ दधात्यृ॒तुष्वे॒व प्रा॒णान्द॑धाति॒ तस्मा॑त्समा॒नास्सन्त॑ ऋ॒तवो॒ न जी॑र्य॒न्त्यथो॒ प्र ज॑नयत्ये॒वैना॑न्
विश्वास-प्रस्तुतिः
प्रा॒ण॒भृत॒ उप॑ दधाति ।
ऋ॒तुष्वे॒व प्रा॒णान् द॑धाति ।
तस्मा॑त्समा॒नास् सन्त॑ ऋ॒तवो॒ न जी॑र्य॒न्ति ।
अथो॒ प्र ज॑नयत्ये॒वैना॑न् ।
मूलम्
प्रा॒ण॒भृत॒ उप॑ दधाति ।
ऋ॒तुष्वे॒व प्रा॒णान् द॑धाति ।
तस्मा॑त्समा॒नास् सन्त॑ ऋ॒तवो॒ न जी॑र्य॒न्ति ।
अथो॒ प्र ज॑नयत्ये॒वैना॑न् ।
भट्टभास्कर-टीका
4प्राणभृत इति ॥ पञ्च एकैका दिक्षु एकां मध्ये । ‘प्राणं मे पाहि’ इत्याद्या ऋतुषु प्राणभरणहेतुत्वात्प्राणभृतः प्रजानां प्राणाद्यभिवृद्धिहेतुत्वमेव ऋतूनां प्राणादिमत्त्वम् । तस्मादिति । सर्वकालं समाना एकस्वभावा एव सन्तो भवन्तो न कदाचिदपि जीर्यन्त्यृतवः, समाना एव भवन्ति । आथो अपि च प्रजनयत्येवैनान् ऋतून् प्राणादिमतया न जराभावमात्रमेव क्रियत इति ॥
मूलम् (संयुक्तम्)
ए॒ष वै वा॒युर्यत्प्रा॒णो यदृ॑त॒व्या॑ उप॒धाय॑ प्राण॒भृतः॑ [2]
उ॒प॒दधा॑ति॒ तस्मा॒त्सर्वा॑नृ॒तूननु॑ वा॒युरा व॑रीवर्त्ति
विश्वास-प्रस्तुतिः
ए॒ष वै वा॒युर्यत्प्रा॒णः ।
यदृ॑त॒व्या॑ उप॒धाय॑ प्राण॒भृत॑ उप॒दधा॑ति । [2]
तस्मा॒त् सर्वा॑न् ऋ॒तूननु॑ वा॒युरा व॑रीवर्त्ति ।
मूलम्
ए॒ष वै वा॒युर्यत्प्रा॒णः ।
यदृ॑त॒व्या॑ उप॒धाय॑ प्राण॒भृत॑ उप॒दधा॑ति । [2]
तस्मा॒त् सर्वा॑न् ऋ॒तूननु॑ वा॒युरा व॑रीवर्त्ति ।
भट्टभास्कर-टीका
5एष वा इति ॥ गतम् । सर्वानृतूनिति । सर्वैः ऋतुभिः लक्षितः । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । आवरीवर्ति पुनःपुनरावर्तते । यङ्लुकि ‘रीगृदुपधस्य च’ इति रीगागमः ॥
मूलम् (संयुक्तम्)
वृष्टि॒सनी॒रुप॑ दधाति॒ वृष्टि॑मे॒वाव॑ रुन्द्धे॒ यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुव्ँव॑र्षेदनुपरि॒हारँ॑ सादयति॒ तस्मा॒त्सर्वा॑नृ॒तून्व॑र्षति॒ यत्प्रा॑ण॒भृत॑ उप॒धाय॑ वृष्टि॒सनी॑रुप॒दधा॑ति॒ तस्मा॑द्वा॒युप्र॑च्युता दि॒वो वृष्टि॑रीर्ते
विश्वास-प्रस्तुतिः
वृ॒ष्टि॒सनी॒रुप॑ दधाति ।
वृष्टि॑मे॒वाव॑ रुन्द्धे॒ , यद् ए॑क॒धोप॑द॒ध्याद् एक॑म् ऋ॒तुव्ँ व॑र्षेत् ।
अ॒नु॒प॒रि॒हारँ॑ सादयति॒ , तस्मा॒त् सर्वा॑न् ऋ॒तून् व॑र्षति ।
यत्प्रा॑ण॒भृत॑ उप॒धाय॑ वृष्टि॒सनी॑रुप॒दधा॑ति॒ , तस्मा॑द् वा॒युप्र॑च्युता दि॒वो वृष्टि॑रीर्ते ।
मूलम्
वृ॒ष्टि॒सनी॒रुप॑ दधाति ।
वृष्टि॑मे॒वाव॑ रुन्द्धे॒ , यद् ए॑क॒धोप॑द॒ध्याद् एक॑म् ऋ॒तुव्ँ व॑र्षेत् ।
अ॒नु॒प॒रि॒हारँ॑ सादयति॒ , तस्मा॒त् सर्वा॑न् ऋ॒तून् व॑र्षति ।
यत्प्रा॑ण॒भृत॑ उप॒धाय॑ वृष्टि॒सनी॑रुप॒दधा॑ति॒ , तस्मा॑द् वा॒युप्र॑च्युता दि॒वो वृष्टि॑रीर्ते ।
भट्टभास्कर-टीका
6वृष्टिसनीरिति ॥ पञ्च एकैका दिक्षु एकां मध्ये ।‘अपस्पिन्व’ इत्याद्याः वृष्टिसनित्र्यः वृष्ठिसनयः । ‘छन्दसि वनसन’ इतीन्प्रत्ययः । एकधेति । एकस्यामेव दिशि स्थित उपदध्यात् । एकमृतुमिति । अत्यन्तसंयोगे द्वितीया । अनुपरिहारमिति । अनुक्रमेण परितस्सर्वासु दिक्षु गत्वा सादयति सर्वस्यां दिशि उपदधाति । आभीक्ष्ण्ये णमुल् । तस्मादित्यादि । गतम् । वायु प्रच्युतेति । वायुना प्रच्याविता । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । ईर्त इति । च्यवते । ईर गतौ आदादिकः ॥
मूलम् (संयुक्तम्)
प॒शवो॒ वै व॑य॒स्या॑ नाना॑मनस॒ᳵ खलु॒ वै प॒शवो॒ नाना॑व्रता॒स्ते॑ऽप ए॒वाभि सम॑नसः [3]
विश्वास-प्रस्तुतिः
प॒शवो॒ वै व॑य॒स्याः॑ ।
नाना॑मनस॒ᳵ खलु॒ वै प॒शवो॒ नाना॑व्रताः ।
ते॑ऽप ए॒वाभि सम॑नसः [3]
मूलम्
प॒शवो॒ वै व॑य॒स्याः॑ ।
नाना॑मनस॒ᳵ खलु॒ वै प॒शवो॒ नाना॑व्रताः ।
ते॑ऽप ए॒वाभि सम॑नसः [3]
भट्टभास्कर-टीका
7अथ वयस्या विधास्यन् तासां अपस्याभ्यः पूर्वमेवोपधेयत्वं शाखान्तरविधेयं दूषयितुमाह - पशवो वै वयस्या इति ॥ तत्साधनत्वात्ताच्छब्द्यम् । वयस्यावानुपधानो मन्त्रः आसामिति वयस्याः ‘त्र्यविर्वयः’ इत्याद्या एकोनविंशतिः । नानामनस इत्यादि । ना आवयः नदे यस्मै [नावश्यं यदेकस्मै रोचते तदन्यस्मै] रोचते । तथा नानाव्रताः नानाकर्माणः यत्रैव कश्चित् प्रवर्तते तत्रैवान्यो निर्वतते । सर्वेऽपि पशवो लक्षीकृत्य समानमनसो भवन्ति । सर्वेभ्योप्यापः रोचन्ते । सर्वेऽपि स्नानपानादिना अप्सु रमन्ते । तस्मादेवमपां सर्वाभिमतत्वादपस्यानामेव प्राथम्यं युक्तियुक्तमिति । अपस्याशब्देन चानन्तरोपहिताः ‘अपस्पिन्व’ इत्यादयो वृष्टिसनय उच्यन्ते ॥
मूलम् (संयुक्तम्)
यङ्का॒मये॑ताप॒शुस्स्या॒दिति॑ वय॒स्या॑स्तस्यो॑प॒धाया॑प॒स्या॑ उप॑ दध्या॒दसं॑ज्ञानमे॒वास्मै॑ प॒शुभि॑ᳵ करोत्यप॒शुरे॒व भ॑वति॒ यङ्का॒मये॑त पशु॒मान्त्स्या॒दित्य॑प॒स्या॑स्तस्यो॑प॒धाय॑ वय॒स्या॑ उप॑ दध्यात्सं॒ज्ञान॑मे॒वास्मै॑ प॒शुभि॑ᳵ करोति पशु॒माने॒व भ॑वति॒
विश्वास-प्रस्तुतिः
यङ्का॒मये॑त - “अ॒प॒शुस् स्या॒द्” इति॑ ।
व॒य॒स्या॑स् तस्यो॑प॒धाया॑प॒स्या॑ उप॑ दध्यात् ।
असं॑ज्ञानमे॒वास्मै॑ प॒शुभि॑ᳵ करोत्यप॒शुरे॒व भ॑वति ।
यङ्का॒मये॑त - “पशु॒मान्त्स्या॒द्” इति॑ ।
अ॒प॒स्या॑स् तस्यो॑प॒धाय॑ वय॒स्या॑ उप॑ दध्यात् ।
सं॒ज्ञान॑मे॒वास्मै॑ प॒शुभि॑ᳵ करोति ।
प॒शु॒माने॒व भ॑वति ।
मूलम्
यङ्का॒मये॑त - “अ॒प॒शुस् स्या॒द्” इति॑ ।
व॒य॒स्या॑स् तस्यो॑प॒धाया॑प॒स्या॑ उप॑ दध्यात् ।
असं॑ज्ञानमे॒वास्मै॑ प॒शुभि॑ᳵ करोत्यप॒शुरे॒व भ॑वति ।
यङ्का॒मये॑त - “पशु॒मान्त्स्या॒द्” इति॑ ।
अ॒प॒स्या॑स् तस्यो॑प॒धाय॑ वय॒स्या॑ उप॑ दध्यात् ।
सं॒ज्ञान॑मे॒वास्मै॑ प॒शुभि॑ᳵ करोति ।
प॒शु॒माने॒व भ॑वति ।
भट्टभास्कर-टीका
8यं कामयेतेत्यादि ॥ प्रथममुपहितानां पश्वात्मनां वयस्यानां पश्चादनुपरिहारमुपधीयमानाभिः अपस्याभिः अभिभूतत्वादस्य यजमानस्य पशुभिरसंज्ञानं अप्रकाशं करोति बहुपशुभिरप्रसिद्धेः अपशुरेव भवति । अपस्यानांतु प्राथम्ये पश्वात्मानां वयस्यानां केनचिदभिभूतत्वात् पशुभिः ख्यातः पशुमान् भवति, वयस्यान्तत्वात् चितेः गुणोत्तरेण चाभिभवो नास्तीति भावः ॥
मूलम् (संयुक्तम्)
चत॑स्रᳶ पु॒रस्ता॒दुप॑ दधाति॒ तस्मा॑च्च॒त्वारि॒ चक्षु॑षो रू॒पाणि॒ द्वे शु॒क्ले द्वे कृ॒ष्णे [4]
विश्वास-प्रस्तुतिः
चत॑स्रᳶ पु॒रस्ता॒दुप॑ दधाति ।
तस्मा॑च् च॒त्वारि॒ चक्षु॑षो रू॒पाणि॒ , द्वे शु॒क्ले द्वे कृ॒ष्णे । [4]
मूलम्
चत॑स्रᳶ पु॒रस्ता॒दुप॑ दधाति ।
तस्मा॑च् च॒त्वारि॒ चक्षु॑षो रू॒पाणि॒ , द्वे शु॒क्ले द्वे कृ॒ष्णे । [4]
भट्टभास्कर-टीका
9चतस्र इत्यादि ॥ ‘विष्टम्भो वयः’ इत्याद्याः । न त्वनुवाकस्याद्याः । अत्र मन्त्राम्नातक्रममुल्लङ्घ्य ब्राह्मणेन क्रमान्तरं विधीयते । अत्र च लिङ्गं - मूर्धन्वतीर्भवन्ति इति । नव्यादिषु चतसृषु काचिदपि मूर्धन्वती तासामुपधानोति [धाने] विद्यते । ताः पुरस्तात् शिरसि प्रतिरूपं दधाति । तस्मादिति । द्वे शुक्ले रूपे शुक्लं च शारं च । द्वे कृष्णे कृणं गोळं पुरुषमण्डलश्च । ‘कृष्णस्यामृगाख्यायाम्’ इति अन्तोदात्तत्वम् ॥
मूलम् (संयुक्तम्)
मू॒र्ध॒न्वती॑र्भवन्ति॒ तस्मा॑त्पु॒रस्ता॑न्मू॒र्धा पञ्च॒ दक्षि॑णायाँ॒ श्रोण्या॒मुप॑ दधाति॒ पञ्चोत्त॑रस्या॒न्तस्मा॑त्प॒श्चाद्वर्षी॑यान्पु॒रस्ता॑त्प्रवणᳶ प॒शुर्…
विश्वास-प्रस्तुतिः
मू॒र्ध॒न्वती॑र् भवन्ति ।
तस्मा॑त् पु॒रस्ता॑न् मू॒र्धा ।
पञ्च॒ दक्षि॑णायाँ॒ श्रोण्या॒मुप॑ दधाति॒ , पञ्चोत्त॑रस्याम् ।
तस्मा॑त् प॒श्चाद् वर्षी॑यान् पु॒रस्ता॑त् प्रवणᳶ प॒शुः ।
मूलम्
मू॒र्ध॒न्वती॑र् भवन्ति ।
तस्मा॑त् पु॒रस्ता॑न् मू॒र्धा ।
पञ्च॒ दक्षि॑णायाँ॒ श्रोण्या॒मुप॑ दधाति॒ , पञ्चोत्त॑रस्याम् ।
तस्मा॑त् प॒श्चाद् वर्षी॑यान् पु॒रस्ता॑त् प्रवणᳶ प॒शुः ।
भट्टभास्कर-टीका
10मूर्धन्वतीरिति ॥ मूर्धन्वानासामुपधानो मन्त्र इति । ‘वयस्यासु मूर्ध्नो मतुप्’ ‘अनो नुट्’ ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । ‘ह्रस्वनुङ्भ्यां मतुप्’ इति मतुप उदात्तत्वम् । तस्मादिति । पश्चाद्वर्षीयान् वृद्धतरः । प्रियस्थिरादिना वर्षादेशः । पुरस्तात्प्रवणः कृशः । ‘प्रनिरन्तः’ इत्यादिना णत्वन् ॥
मूलम् (संयुक्तम्)
ब॒स्तो वय॒ इति॒ दक्षि॒णेऽँस॒ उप॑ दधाति वृ॒ष्णिर्वय॒ इत्युत्त॒रेऽँसा॑वे॒व प्रति॑ दधाति व्या॒घ्रो वय॒ इति॒ दक्षि॑णे प॒क्ष उप॑ दधाति सिँ॒हो वय॒ इत्युत्त॑रे प॒क्षयो॑रे॒व वी॒र्य॑न्दधाति॒ पुरु॑षो॒ वय॒ इति॒ मध्ये॒ तस्मा॒त्पुरु॑षᳶ पशू॒नामधि॑पतिः ॥ [5]
विश्वास-प्रस्तुतिः
ब॒स्तो वय॒ इति॒ दक्षि॒णेऽँस॒ उप॑ दधाति , वृ॒ष्णिर्वय॒ इत्युत्त॑रे ।
अँसा॑वे॒व प्रति॑ दधाति ।
व्या॒घ्रो वय॒ इति॒ दक्षि॑णे प॒क्ष उप॑ दधाति ,
सिँ॒हो वय॒ इत्युत्त॑रे ।
प॒क्षयो॑रे॒व वी॒र्य॑न्दधाति॒ पुरु॑षो॒ वय॒ इति॒ मध्ये॑ ।
तस्मा॒त् पुरु॑षᳶ पशू॒नामधि॑पतिः ॥ [5]
मूलम्
ब॒स्तो वय॒ इति॒ दक्षि॒णेऽँस॒ उप॑ दधाति , वृ॒ष्णिर्वय॒ इत्युत्त॑रे ।
अँसा॑वे॒व प्रति॑ दधाति ।
व्या॒घ्रो वय॒ इति॒ दक्षि॑णे प॒क्ष उप॑ दधाति ,
सिँ॒हो वय॒ इत्युत्त॑रे ।
प॒क्षयो॑रे॒व वी॒र्य॑न्दधाति॒ पुरु॑षो॒ वय॒ इति॒ मध्ये॑ ।
तस्मा॒त् पुरु॑षᳶ पशू॒नामधि॑पतिः ॥ [5]
भट्टभास्कर-टीका
11दक्षिणे अंस उपदधातीत्येव । अंसावेवेति । परस्परस्योपकुर्वाणेन स्थापयति । उत्तर इति । पक्षे उपदधातीत्येव । पक्षयोरित्यादि । गतम् । मध्य इति आत्मनि । तस्मादिति । प्रधानस्था(प)ने पुरुषशब्देनोपधानात् । ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् ॥
इति पञ्चमे तृतीये प्रथमोनुवाकः ॥