१२

मूलम् (संयुक्तम्)

कस्त्वा॑ छ्यति॒ कस्त्वा॒ वि शा॑स्ति॒ कस्ते॒ गात्रा॑णि शिम्यति । क उ॑ ते शमि॒ता क॒विः ।

विश्वास-प्रस्तुतिः

कस्त्वा॑ छ्यति॒ , कस्त्वा॒ वि शा॑स्ति॒ , कस्ते॒ गात्रा॑णि शिम्यति ।
क उ॑ ते शमि॒ता क॒विः ।

मूलम्

कस्त्वा॑ छ्यति॒ , कस्त्वा॒ वि शा॑स्ति॒ , कस्ते॒ गात्रा॑णि शिम्यति ।
क उ॑ ते शमि॒ता क॒विः ।

भट्टभास्कर-टीका

1अथ अश्वं विशसति कस्त्वाछ्यतीत्यनुवाकेन ॥ अयमपि सर्व आनुष्टुभोनुवाकः । प्रथमा गायत्री । कः प्रजापतिः स एव त्वा छ्यति छिनत्ति स एव योग्य इति । छो छेदने, ‘ओतश्श्यनि’ इत्योकारलोपः । क एव त्वां विशास्ति विशसतीत्यनया भूयुक्तं करोति । विपूर्वश्शास्तिर्विशसने । यद्वा - शसु हिंसायां इत्यस्य ‘बहुलं छन्दसि’ इति शपो लुक्, वर्णव्यत्ययेन अकारः । क एव ते तव गात्राणि शिम्यति शमयति सुखेन विशसति । यद्वा - अविनाशेन अङ्गानि विशस्य स्थापयति । यस्मादेवं तस्मात् क एव शमिता शमयिता कविः मेधावी अवयवविभागज्ञः । ‘शमिता यज्ञे’ इति ण्यन्तस्य निपात्यते ॥

मूलम् (संयुक्तम्)

ऋ॒तव॑स्त ऋतु॒धा परु॑श्शमि॒तारो॒ वि शा॑सतु । सव्ँ॒व॒त्स॒रस्य॒ धाय॑सा॒ शिमी॑भिश्शिम्यन्तु त्वा ।

विश्वास-प्रस्तुतिः

ऋ॒तव॑स् त ऋतु॒धा परु॑श् शमि॒तारो॒ वि शा॑सतु ।

सव्ँ॒व॒त्स॒रस्य॒ धाय॑सा॒ शिमी॑भिश् शिम्यन्तु त्वा ।

मूलम्

ऋ॒तव॑स् त ऋतु॒धा परु॑श् शमि॒तारो॒ वि शा॑सतु ।

सव्ँ॒व॒त्स॒रस्य॒ धाय॑सा॒ शिमी॑भिश् शिम्यन्तु त्वा ।

भट्टभास्कर-टीका

2अथ द्वितीया - ऋतवो वसन्तादयः ते तव शमितारो भूत्वा ऋतुधा ऋतावृतौ तत्तदृत्वनुरूपं कालेकाले वा । वीप्सायां छान्दसो धाप्रत्ययः । परुः परूंषि पर्वाणि विशासतु विशसन्तु । यद्वा - परुरिति वीप्स्यते । परुः पर्वविभागेनेत्यर्थः । संवत्सरस्य धायसा साधारण्येन तदधीनत्वात्तेषां शिमीभिः विशसनकर्मभिः हविर्भागादानसमर्थाभिः शिम्यन्तु ऋतवः । ‘वहिहाधाम्नीभ्यः छन्दसि’ इति दधातेरसुन् । णिदिति हि तत्रानुवर्तते । शिम्यतेः ‘इन् सर्वधातुभ्यः’ इतीन्प्रत्ययः, छान्दसं दीर्घत्वम् ॥

मूलम् (संयुक्तम्)

दैव्या॑ अध्व॒र्यव॑स्त्वा॒ छ्यन्तु॒ वि च॑ शासतु । गात्रा॑णि पर्व॒शस्ते॒ शिमाः॑ कृण्वन्तु॒ शिम्य॑न्तः ।

विश्वास-प्रस्तुतिः

दैव्या॑ अध्व॒र्यव॑स् त्वा॒ छ्यन्तु॒ वि च॑ शासतु ।
गात्रा॑णि पर्व॒शस् ते॒ शिमाः॑ कृण्वन्तु॒ शिम्य॑न्तः ।

मूलम्

दैव्या॑ अध्व॒र्यव॑स् त्वा॒ छ्यन्तु॒ वि च॑ शासतु ।
गात्रा॑णि पर्व॒शस् ते॒ शिमाः॑ कृण्वन्तु॒ शिम्य॑न्तः ।

भट्टभास्कर-टीका

3तृतीया - दैव्याः दिव्याः । ‘देवाद्ययञौ’ इति यञ् । अध्वर्युः अध्वरस्य नेता । क्यचि ‘कव्यध्वरपृतनस्यर्चि’ इति लोपः ‘क्याच्छन्दसि’ इति उप्रत्ययः । त्वा छ्यन्तु संविशसन्तु च । ते तव गात्राणि पर्वशः । ‘संख्यैकवचनाच्च’ इति शस् । विशसनसमर्थाः ते दैव्या अध्वर्यवः शिम्यन्तः शमयन्तः कृण्वन्तु पर्वशः कुर्वन्तु ॥

मूलम् (संयुक्तम्)

अ॒र्ध॒मा॒साᳶ परूँ॑षि ते॒ मासा॑श्छ्यन्तु॒ शिम्य॑न्तः । अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टं [63]
सू॒द॒य॒न्तु॒ ते॒ ।

विश्वास-प्रस्तुतिः

अ॒र्ध॒मा॒साᳶ परूँ॑षि ते॒ मासा॑श्छ्यन्तु॒ शिम्य॑न्तः ।
अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टँ सूदयन्तु ते । [63]

मूलम्

अ॒र्ध॒मा॒साᳶ परूँ॑षि ते॒ मासा॑श्छ्यन्तु॒ शिम्य॑न्तः ।
अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टँ सूदयन्तु ते । [63]

भट्टभास्कर-टीका

4चतुर्थी - अर्धमासाः परूंषि पर्वाणि पूर्णमासादयो मासाश्च छ्यन्तु छेदनेन त्वा हविः कुर्वन्तु शिम्यन्तः शमयन्तः । यद्वा - अर्धमासाश्च तव परूंषि अवयवान् शिम्यन्तु छ्यन्तु अहोरात्राणि मरुतश्च ते विलिष्टं विनाशितं विश्लिश्टं वा सूदयन्तु क्षारयन्तु स्वादुकुर्वन्तु वा । यद्वा - यद्विलिष्टं यागायोग्यं यद्विरूपं विशसितं तद्विनाशयन्तु ॥

मूलम् (संयुक्तम्)

पृ॒थि॒वी ते॒ऽन्तरि॑क्षेण वा॒युश्छि॒द्रम्भि॑षज्यतु । द्यौस्ते॒ नक्ष॑त्रैस्स॒ह रू॒पङ्कृ॑णोतु साधु॒या ।

विश्वास-प्रस्तुतिः

पृ॒थि॒वी ते॒ ऽन्तरि॑क्षेण वा॒युश्छि॒द्रम् भि॑षज्यतु ।
द्यौस् ते॒ नक्ष॑त्रैस् स॒ह रू॒पङ् कृ॑णोतु साधु॒या ।

मूलम्

पृ॒थि॒वी ते॒ ऽन्तरि॑क्षेण वा॒युश्छि॒द्रम् भि॑षज्यतु ।
द्यौस् ते॒ नक्ष॑त्रैस् स॒ह रू॒पङ् कृ॑णोतु साधु॒या ।

भट्टभास्कर-टीका

5पञ्चमी - पृथिवी अन्तरिक्षेण सहितो वायुश्च तव छिद्रं विनष्टं भिषज्यतु अविनष्टं करोतु । द्यौरपि नक्षत्रैस्सह तव रूपं कृणोतु साधु । द्वितीयाया याजादेशः । यागासाधनं कुर्वन्त्विति ॥

मूलम् (संयुक्तम्)

शन्ते॒ परे॑भ्यो॒ गात्रे॑भ्य॒श्शम॒स्त्वव॑रेभ्यः । शम॒स्थभ्यो॑ म॒ज्जभ्य॒श्शमु॑ ते त॒नुवे॑ भुवत् ॥ [64]

विश्वास-प्रस्तुतिः

शन्ते॒ परे॑भ्यो॒ गात्रे॑भ्य॒श् शम॒स्त्वव॑रेभ्यः ।
शम॒स्थभ्यो॑ म॒ज्जभ्य॒श् शमु॑ ते त॒नुवे॑ भुवत् ॥ [64]

मूलम्

शन्ते॒ परे॑भ्यो॒ गात्रे॑भ्य॒श् शम॒स्त्वव॑रेभ्यः ।
शम॒स्थभ्यो॑ म॒ज्जभ्य॒श् शमु॑ ते त॒नुवे॑ भुवत् ॥ [64]

भट्टभास्कर-टीका

6षष्ठी - ते तव परेभ्यो गात्रेभ्यः हविष्ट्वं प्रतिपाद्यमानेभ्यः शं सुखमस्तु । अवरेभ्यः हविष्ट्वं प्रतिपाद्यमानेभ्यश्च शमस्तु । अस्थभ्यः अस्थिभ्यश्च शमस्तु । ‘छन्दस्यपि दृश्यते’ इत्यनङ् । मज्जभ्यश्च शमस्तु । किं बहुना ते तव तनुवः शरीरस्य शं सुखमेव भुवत् भवतु । तनूशब्द ऊकारान्तोप्यस्ति । भवतेर्लेट् ‘बहुलं छन्दसि’ इति शपो लुक् ‘लेटोडाटौ’ इत्यडागमः ‘भूसुवोस्तिङि’ इति गुणाभावः ॥

इति भट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये पञ्चमे काण्डे द्वितीयप्रश्ने द्वादशोनुवाकः ॥ समाप्तो द्वितीयप्रपाठकः ॥