१०

मूलम् (संयुक्तम्)

प॒शुर्वा ए॒ष यद॒ग्निर्योनि॒ᳵ खलु॒ वा ए॒षा प॒शोर्वि क्रि॑यते॒ यत्प्रा॒चीन॑मैष्ट॒काद्यजु॑ᳵ क्रि॒यते॒ रेतो॑ऽप॒स्या॑ अप॒स्या॑ उप॑ दधाति॒ योना॑वे॒व रेतो॑ दधाति॒ पञ्चोप॑ दधाति॒ पाङ्क्ताः॑ प॒शवᳶ॑ प॒शूने॒वास्मै॒ प्र ज॑नयति॒

विश्वास-प्रस्तुतिः

प॒शुर्वा ए॒ष यद॒ग्निः ।
योनि॒ᳵ खलु॒ वा ए॒षा प॒शोर्वि क्रि॑यते॒ यत्प्रा॒चीन॑मैष्ट॒काद्यजु॑ᳵ क्रि॒यते॑ ।
रेतो॑ऽप॒स्याः॑ ।
अ॒प॒स्या॑ उप॑ दधाति ।
योना॑वे॒व रेतो॑ दधाति ।
पञ्चोप॑ दधाति ।
पाङ्क्ताः॑ प॒शवः॑ ।
प॒शूने॒वास्मै॒ प्र ज॑नयति ।

मूलम्

प॒शुर्वा ए॒ष यद॒ग्निः ।
योनि॒ᳵ खलु॒ वा ए॒षा प॒शोर्वि क्रि॑यते॒ यत्प्रा॒चीन॑मैष्ट॒काद्यजु॑ᳵ क्रि॒यते॑ ।
रेतो॑ऽप॒स्याः॑ ।
अ॒प॒स्या॑ उप॑ दधाति ।
योना॑वे॒व रेतो॑ दधाति ।
पञ्चोप॑ दधाति ।
पाङ्क्ताः॑ प॒शवः॑ ।
प॒शूने॒वास्मै॒ प्र ज॑नयति ।

भट्टभास्कर-टीका

1पशुर्वा एष इत्यादिः अपस्याविधिः ॥ अयमग्निः योनौ निषेकादिना उत्पाद्यत्वात् पशुकल्पः । तत्र ‘योनिर्वा अग्नेः पुष्करपर्णं’ इति तदुपधानात् योनिः । सैषा ऐष्टकात् इष्टकासमूहोपधानात् प्राग्यजुःकरेणन उक्तोपधानादिप्रसक्तेन क्रियते अयोन्यर्हेण कर्मणा । तस्मात् एतत्परिहारार्थं रेतस्थानीया अपस्याः प्रथममुपदधाति यानौ रेतो दधाति अप्शब्दवानुपधानो मन्त्रः आसामिष्टकानामिति ‘तद्वानासामुपधानो मन्त्रः’ इति यत्प्रत्ययः । छान्दसोऽसुकागमः । अपस्याः ‘अपां त्वेमन्’ इत्याद्यैर्मन्त्रैः उपधेया विंशतिरिष्टकाः ता अप्यभेदेन अपस्या उच्यन्ते । अप्शब्दवतां च बहुत्वात् सर्वा अपस्या उच्यन्ते ॥

मूलम् (संयुक्तम्)

पञ्च॑ दक्षिण॒तो वज्रो॒ वा अ॑प॒स्या॑ वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षाँ॒स्यप॑ हन्ति॒ पञ्च॑ प॒श्चात् [54]
प्राची॒रुप॑ दधाति प॒श्चाद्वै प्रा॒चीनँ॒ रेतो॑ धीयते प॒श्चादे॒वास्मै॑ प्रा॒चीनँ॒ रेतो॑ दधाति॒

विश्वास-प्रस्तुतिः

पञ्च॑ दक्षिण॒तः ।
वज्रो॒ वा अ॑प॒स्याः॑ ।
वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षाँ॒स्यप॑ हन्ति॒ पञ्च॑ प॒श्चात् प्राची॒रुप॑ दधाति । [54]
प॒श्चाद् वै प्रा॒चीनँ॒ रेतो॑ धीयते ।
प॒श्चाद् ए॒वास्मै॑ प्रा॒चीनँ॒ रेतो॑ दधाति ।

मूलम्

पञ्च॑ दक्षिण॒तः ।
वज्रो॒ वा अ॑प॒स्याः॑ ।
वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षाँ॒स्यप॑ हन्ति॒ पञ्च॑ प॒श्चात् प्राची॒रुप॑ दधाति । [54]
प॒श्चाद् वै प्रा॒चीनँ॒ रेतो॑ धीयते ।
प॒श्चाद् ए॒वास्मै॑ प्रा॒चीनँ॒ रेतो॑ दधाति ।

भट्टभास्कर-टीका

2पञ्चेति ॥ प्रथमं पुरस्तात् प्रतीचीः प्रत्यग्रीतीः । पाङ्क्ता इति पङ्क्तिप्रभवाः । पङ्क्तिशब्द उत्सादिः । दक्षिणत इति । उदीचीः ‘अर्ण वे’ इत्यादिभिः । वज्रो वा इति । वज्रवद्वीर्यवत्य इति । प्राचीरिति । प्राग्रीतिः । ‘अपां त्वा सदने’ इत्या दिभिः । प्राचीनमिति । प्रागञ्चतीति प्राचीनं यत्रोपासनीयज्योतिः अन्तरुदेति सा प्राचीति कृत्वा ॥

मूलम् (संयुक्तम्)

पञ्च॑ पु॒रस्ता॑त्प्र॒तीची॒रुप॑ दधाति॒ पञ्च॑ प॒श्चात्प्राची॒स्तस्मा॑त्प्रा॒चीनँ॒ रेतो॑ धीयते प्र॒तीचीः॑ प्र॒जा जा॑यन्ते॒ पञ्चो॑त्तर॒तश्छ॑न्द॒स्याः॑ प॒शवो॒ वै छ॑न्द॒स्याः॑ प॒शूने॒व प्रजा॑ता॒न्त्स्वमा॒यत॑नम॒भि पर्यू॑हत

विश्वास-प्रस्तुतिः

पञ्च॑ पु॒रस्ता॑त् प्र॒तीची॒रुप॑ दधाति॒ , पञ्च॑ प॒श्चात् प्राचीः॑ ।
तस्मा॑त् प्रा॒चीनँ॒ रेतो॑ धीयते , प्र॒तीचीः॑ प्र॒जा जा॑यन्ते ।
पञ्चो॑त्तर॒तश् छ॑न्द॒स्याः॑ ।
प॒शवो॒ वै छ॑न्द॒स्याः॑ ।
प॒शूने॒व प्रजा॑ता॒न्त् स्वमा॒यत॑नम॒भि पर्यू॑हते ।

मूलम्

पञ्च॑ पु॒रस्ता॑त् प्र॒तीची॒रुप॑ दधाति॒ , पञ्च॑ प॒श्चात् प्राचीः॑ ।
तस्मा॑त् प्रा॒चीनँ॒ रेतो॑ धीयते , प्र॒तीचीः॑ प्र॒जा जा॑यन्ते ।
पञ्चो॑त्तर॒तश् छ॑न्द॒स्याः॑ ।
प॒शवो॒ वै छ॑न्द॒स्याः॑ ।
प॒शूने॒व प्रजा॑ता॒न्त् स्वमा॒यत॑नम॒भि पर्यू॑हते ।

भट्टभास्कर-टीका

3पञ्च पुरस्तादित्यादि ॥ पश्चात्प्राचीभिः प्राचीनं रेतो धीयते पुरस्तात्प्रतीचीभिः प्रतीच्यः प्रजा जायन्ते । उत्तरत इति । दक्षिणानीति । छन्दस्या इति । छन्दस्वता मन्त्रेण उपधेयाः ‘गायत्री छन्दः’ इत्यादिभिः उपधेयाः । पूर्ववद्यत्, मतुल्लुक्च । पशव इति । पशुनिमित्तभूताः छन्दस्या इष्टकाः । पशून्निति । अपस्याभिरुत्पन्नत्वात् छन्दस्याभिः स्वस्मिन्नायतने स्थापयति । ‘अभिरभागे’ इति लक्षणे अभेः कर्मप्रवचनीयत्वम् ॥

मूलम् (संयुक्तम्)

इ॒यव्ँ वा अ॒ग्नेर॑तिदा॒हाद॑बिभे॒त्सैताः [55]
अ॒प॒स्या॑ अपश्य॒त्ता उपा॑धत्त॒ ततो॒ वा इ॒मान्नात्य॑दह॒द्यद॑प॒स्या॑ उप॒दधा॑त्य॒स्या अन॑तिदाहायो॒वाच॑ हे॒यमद॒दित्स ब्रह्म॒णान्नय्ँ॒यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वव्ँ वेद॒दिति॑

विश्वास-प्रस्तुतिः

इ॒यव्ँ वा अ॒ग्नेर् अ॑तिदा॒हाद् अ॑बिभेत् ।
सैताः अ॑प॒स्या॑ अपश्यत् ।[55]
ता उपा॑धत्त ।
ततो॒ वा इ॒मान्नात्य॑दहत् ।
यद॑प॒स्या॑ उप॒दधा॑त्य॒स्या अन॑तिदाहाय ।
उ॒वाच॑ हे॒यम् ।
अद॒दित्स ब्रह्म॒णान्नय्ँ॒ यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वव्ँ वेद॒दिति॑ ।

मूलम्

इ॒यव्ँ वा अ॒ग्नेर् अ॑तिदा॒हाद् अ॑बिभेत् ।
सैताः अ॑प॒स्या॑ अपश्यत् ।[55]
ता उपा॑धत्त ।
ततो॒ वा इ॒मान्नात्य॑दहत् ।
यद॑प॒स्या॑ उप॒दधा॑त्य॒स्या अन॑तिदाहाय ।
उ॒वाच॑ हे॒यम् ।
अद॒दित्स ब्रह्म॒णान्नय्ँ॒ यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वव्ँ वेद॒दिति॑ ।

भट्टभास्कर-टीका

4इयं वा इत्यादि ॥ पृथिव्या अनतिदाहाय भवन्त्यपस्या इति । उवाचेत्यादि । इयं पृथिवी पूर्वमुवाच । कथं? - अदत् इत् अद्यादेवान्नं ब्रह्मणा परिबृढेनानेन कर्मणा सः, यस्यैता अतिदाहनिवृत्तिहेतवोऽपस्या उपधीयन्ते उपधीयेरन् यश्च एता अपस्या एवं ममातिदाहशमनोऽग्निरित्येतत् विद्यात् सोऽप्यन्नमद्यादेव । अददिति अत्तेर्लेटि शपो लुकि ‘लेटोडाटौ’ इत्यडागमः । समानवाक्ये पदात्परत्वाभावान्निघाताभावः । अददित्यादिभिर्वाक्यान्तरं पृथिव्याः । दधातेः कर्मणि लेटि आडागमः ‘वैतोन्यत्र’ इत्येकारः पूर्ववदाडागमः ॥

मूलम् (संयुक्तम्)

प्राण॒भृत॒ उप॑ दधाति॒ रेत॑स्ये॒व प्रा॒णान्द॑धाति॒ तस्मा॒द्वद॑न्प्रा॒णन्पश्य॑ञ्छृ॒ण्वन्प॒शुर्जा॑यते॒ऽयम्पु॒रः [56]
भुव॒ इति॑ पु॒रस्ता॒दुप॑ दधाति प्रा॒णमे॒वैताभि॑र्दाधारा॒यन्द॑क्षि॒णा वि॒श्वक॒र्मेति॑ दक्षिण॒तो मन॑ ए॒वैताभि॑र्दाधारा॒यम्प॒श्चाद्वि॒श्वव्य॑चा॒ इति॑ प॒श्चाच्चक्षु॑रे॒वैताभि॑र्दाधारे॒दमु॑त्त॒रात्सुव॒रित्यु॑त्तर॒तश्श्रोत्र॑मे॒वैताभि॑र्दाधारे॒यमु॒परि॑ म॒तिरित्यु॒परि॑ष्टा॒द्वाच॑मे॒वैताभि॑र्दाधार॒ दश॑द॒शोप॑ दधाति सवीर्य॒त्वाया॑क्ष्ण॒या [57]
उप॑ दधाति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒

विश्वास-प्रस्तुतिः

प्रा॒ण॒भृत॒ उप॑ दधाति ।
रेत॑स्ये॒व प्रा॒णान् द॑धाति ।
तस्मा॒द् वद॑न् प्रा॒णन् पश्य॑ञ् छृ॒ण्वन् प॒शुर्जा॑यते ।
अ॒यम् पु॒रो भुव॒ इति॑ पु॒रस्ता॒दुप॑ दधाति । [56]
प्रा॒णम् ए॒वैताभि॑र् दाधार ।
अ॒यन् द॑क्षि॒णा वि॒श्वक॒र्मेति॑ दक्षिण॒तः ।
मन॑ ए॒वैताभि॑र् दाधार ।
अ॒यम् प॒श्चाद् वि॒श्वव्य॑चा॒ इति॑ प॒श्चात् ।
चक्षु॑रे॒वैताभि॑र् दाधार ।
इ॒दमु॑त्त॒रात् सुव॒रित्य् उ॑त्तर॒तः ।
श्रोत्र॑म् ए॒वैताभि॑र् दाधार ।
इ॒यमु॒परि॑ म॒तिरित्य् उ॒परि॑ष्टात् ।
वाच॑मे॒वैताभि॑र् दाधार ।
दश॑द॒शोप॑ दधाति स॒वी॒र्य॒त्वाय॑ ।
अ॒क्ष्ण॒योप॑ दधाति । [57]
तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति । प्रति॑ष्ठित्यै ।

मूलम्

प्रा॒ण॒भृत॒ उप॑ दधाति ।
रेत॑स्ये॒व प्रा॒णान् द॑धाति ।
तस्मा॒द् वद॑न् प्रा॒णन् पश्य॑ञ् छृ॒ण्वन् प॒शुर्जा॑यते ।
अ॒यम् पु॒रो भुव॒ इति॑ पु॒रस्ता॒दुप॑ दधाति । [56]
प्रा॒णम् ए॒वैताभि॑र् दाधार ।
अ॒यन् द॑क्षि॒णा वि॒श्वक॒र्मेति॑ दक्षिण॒तः ।
मन॑ ए॒वैताभि॑र् दाधार ।
अ॒यम् प॒श्चाद् वि॒श्वव्य॑चा॒ इति॑ प॒श्चात् ।
चक्षु॑रे॒वैताभि॑र् दाधार ।
इ॒दमु॑त्त॒रात् सुव॒रित्य् उ॑त्तर॒तः ।
श्रोत्र॑म् ए॒वैताभि॑र् दाधार ।
इ॒यमु॒परि॑ म॒तिरित्य् उ॒परि॑ष्टात् ।
वाच॑मे॒वैताभि॑र् दाधार ।
दश॑द॒शोप॑ दधाति स॒वी॒र्य॒त्वाय॑ ।
अ॒क्ष्ण॒योप॑ दधाति । [57]
तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति । प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

5प्राणभृत इति ॥ पञ्चाशतं ‘अयं पुरो भुवः’ इत्याद्याः । सिक्ते रेतसि प्राणभरणहेतुत्वात् प्राणभृत इति । तस्मादित्यादि । गतम् । वदन्नित्यादयः प्राणवृत्तयः । दशदश प्रतिदिशं अक्ष्णया दश मध्येऽन्तरामन्तरां उपधाय बाह्यांबाह्याम् । दाधारेति । छान्दसे लेटि तुजादित्वादभ्यासस्य दीर्घत्वम् ॥

मूलम् (संयुक्तम्)

याᳶ प्राची॒स्ताभि॒र्वसि॑ष्ठ आर्ध्नो॒द्या द॑क्षि॒णा ताभि॑र्भ॒रद्वा॑जो॒ याᳶ प्र॒तीची॒स्ताभि॑र्वि॒श्वामि॑त्रो॒ या उदी॑ची॒स्ताभि॑र्ज॒मद॑ग्नि॒र्या ऊ॒र्ध्वास्ताभि॑र्वि॒श्वक॑र्मा॒

विश्वास-प्रस्तुतिः

याᳶ प्राची॒स् ताभि॒र् वसि॑ष्ठ आर्ध्नोत् ।
या द॑क्षि॒णा ताभि॑र् भ॒रद्वा॑जः ।
याᳶ प्र॒तीची॒स् ताभि॑र् वि॒श्वामि॑त्रः ।
या उदी॑ची॒स् ताभि॑र् ज॒मद॑ग्निः ।
या ऊ॒र्ध्वास् ताभि॑र् वि॒श्वक॑र्मा ।

मूलम्

याᳶ प्राची॒स् ताभि॒र् वसि॑ष्ठ आर्ध्नोत् ।
या द॑क्षि॒णा ताभि॑र् भ॒रद्वा॑जः ।
याᳶ प्र॒तीची॒स् ताभि॑र् वि॒श्वामि॑त्रः ।
या उदी॑ची॒स् ताभि॑र् ज॒मद॑ग्निः ।
या ऊ॒र्ध्वास् ताभि॑र् वि॒श्वक॑र्मा ।

भट्टभास्कर-टीका

6याः प्राचीरिति ॥ प्राच्य उपधीयन्ते ताभिर्वसिष्ठः ऋद्धिं गतः । या दक्षिणेति । दक्षिणस्यां दिशि । ‘दक्षिणादाच्’ । प्रतीचीरिति । ‘चौ’ इति दीर्घत्वम् । उदीचीरिति । ‘अनिगन्तोञ्चतौ’ इति गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

य ए॒वमे॒तासा॒मृद्धिव्ँ॒वेद॒र्ध्नोत्ये॒व य आ॑सामे॒वम्ब॒न्धुताव्ँ॒वेद॒ बन्धु॑मान्भवति॒ य आ॑सामे॒वङ्कॢप्तिव्ँ॒वेद॒ कल्प॑ते [58]
अ॒स्मै॒ य आ॑सामे॒वमा॒यत॑नव्ँ॒वेदा॒यत॑नवान्भवति॒ य आ॑सामे॒वम्प्र॑ति॒ष्ठाव्ँवेद॒ प्रत्ये॒व ति॑ष्ठति प्राण॒भृत॑ उप॒धाय॑

विश्वास-प्रस्तुतिः

य ए॒वमे॒तासा॒मृद्धिव्ँ॒ वेद॒र्ध्नोत्ये॒व ।
य आ॑सामे॒वम् ब॒न्धुताव्ँ॒ वेद॒ बन्धु॑मान् भवति ।
य आ॑सामे॒वङ् कॢप्तिव्ँ॒ वेद॒ कल्प॑ते ऽस्मै । [58]
य आ॑साम् ए॒वम् आ॒यत॑नव्ँ॒ वेद॑ + आ॒यत॑नवान् भवति ।
य आ॑सामे॒वम् प्र॑ति॒ष्ठाव्ँ वेद॒ प्रत्ये॒व ति॑ष्ठति । प्रा॒ण॒भृत॑ उप॒धाय॑ ।

मूलम्

य ए॒वमे॒तासा॒मृद्धिव्ँ॒ वेद॒र्ध्नोत्ये॒व ।
य आ॑सामे॒वम् ब॒न्धुताव्ँ॒ वेद॒ बन्धु॑मान् भवति ।
य आ॑सामे॒वङ् कॢप्तिव्ँ॒ वेद॒ कल्प॑ते ऽस्मै । [58]
य आ॑साम् ए॒वम् आ॒यत॑नव्ँ॒ वेद॑ + आ॒यत॑नवान् भवति ।
य आ॑सामे॒वम् प्र॑ति॒ष्ठाव्ँ वेद॒ प्रत्ये॒व ति॑ष्ठति । प्रा॒ण॒भृत॑ उप॒धाय॑ ।

भट्टभास्कर-टीका

7य एवमित्यादि ॥ वसिष्ठादिकर्तृकाम् । आसां इति । आसादेशोनुदात्तः (?) । बन्धुतामिति । बन्धुसमूहं देशलक्षणम् । ‘ग्रामजनबन्धुसहायेभ्यस्तल्’ । कॢप्तिमिति । सामर्थ्यमृद्धिकरणे । आयतनमिति । वा गायत्रीति प्रागादि (?) । प्रतिष्ठामिति । कार्यकारणभावेन प्राणवृद्धिम् ॥

मूलम् (संयुक्तम्)

सय्ँ॒यत॒ उप॑ दधाति प्रा॒णाने॒वास्मि॑न्धि॒त्वा सय्ँ॒यद्भि॒स्सय्ँय॑च्छति॒ तत्सय्ँ॒यताँ॑ सय्ँय॒त्त्वमथो॑ प्रा॒ण ए॒वापा॒नन्द॑धाति॒ तस्मा॑त्प्राणापा॒नौ सञ्च॑रतो॒

विश्वास-प्रस्तुतिः

सय्ँ॒यत॒ उप॑ दधाति ।
प्रा॒णाने॒वास्मि॑न् धि॒त्वा सय्ँ॒यद्भि॒स् सय्ँय॑च्छति ।
तत्सय्ँ॒यताँ॑ सय्ँय॒त्त्वम् ।
अथो॑ प्रा॒ण ए॒वापा॒नन् द॑धाति ।
तस्मा॑त् प्राणापा॒नौ सञ्च॑रतः ।

मूलम्

सय्ँ॒यत॒ उप॑ दधाति ।
प्रा॒णाने॒वास्मि॑न् धि॒त्वा सय्ँ॒यद्भि॒स् सय्ँय॑च्छति ।
तत्सय्ँ॒यताँ॑ सय्ँय॒त्त्वम् ।
अथो॑ प्रा॒ण ए॒वापा॒नन् द॑धाति ।
तस्मा॑त् प्राणापा॒नौ सञ्च॑रतः ।

भट्टभास्कर-टीका

8संयत इत्यादि ॥ प्राणस्य निहितस्य संयमहेतवः संयतः । अथो अपि च प्राणे प्राणपार्श्वे अपानस्य संयमाश्च संयतः । संपूर्वाद्यच्छतेः छान्दसोऽनुनासिकलोपः । तदेवाह – तस्मात्प्राणापानौ संचरत इति । सह चरत इत्यर्थः । एवमपानभृत इत्यप्यासामाख्या लभ्यते । एकपञ्चाशद्भवति ‘प्राची दिशां’ इत्याद्या दशदश प्रतिदिशं अक्ष्णया दश मध्ये ॥

मूलम् (संयुक्तम्)

विषू॑ची॒रुप॑ दधाति॒ तस्मा॒द्विष्व॑ञ्चौ प्राणापा॒नौ

विश्वास-प्रस्तुतिः

विषू॑ची॒रुप॑ दधाति ।
तस्मा॒द् विष्व॑ञ्चौ प्राणापा॒नौ ।

मूलम्

विषू॑ची॒रुप॑ दधाति ।
तस्मा॒द् विष्व॑ञ्चौ प्राणापा॒नौ ।

भट्टभास्कर-टीका

9विषूचीरिति ॥ यादृश्यः प्राणभृतः तत्प्रतिकूलगतीः । तेन बाह्यांबाह्यामुपधाय अन्तरामन्तरामुपदधाति । तस्माद्विष्वञ्चौ इति । ऊर्ध्वाधोवृत्तित्वात् ॥

मूलम् (संयुक्तम्)

यद्वा अ॒ग्नेरसय्ँ॑यतम् [59]
असु॑वर्ग्यमस्य॒ तत्सु॑व॒र्ग्यो॑ऽग्निर्यत्सय्ँ॒यत॑ उप॒दधा॑ति॒ समे॒वैनय्ँ॑यच्छति सुव॒र्ग्य॑मे॒वाक॒स्त्र्यवि॒र्वय॑ᳵ कृ॒तमया॑ना॒मित्या॑ह॒

विश्वास-प्रस्तुतिः

यद्वा अ॒ग्नेरसय्ँ॑यतम् , असु॑वर्ग्यमस्य॒ तत् । [59]
सु॑वसु॒वर्ग्यो॑ऽग्निः ।
यत् सय्ँ॒यत॑ उप॒दधा॑ति॒ मे॒वैनय्ँ॑यच्छति सुव॒र्ग्य॑मे॒वाकः॑ ।
त्र्यवि॒र्वय॑ᳵ कृ॒तमया॑ना॒म् इत्या॑ह ।

मूलम्

यद्वा अ॒ग्नेरसय्ँ॑यतम् , असु॑वर्ग्यमस्य॒ तत् । [59]
सु॑वसु॒वर्ग्यो॑ऽग्निः ।
यत् सय्ँ॒यत॑ उप॒दधा॑ति॒ मे॒वैनय्ँ॑यच्छति सुव॒र्ग्य॑मे॒वाकः॑ ।
त्र्यवि॒र्वय॑ᳵ कृ॒तमया॑ना॒म् इत्या॑ह ।

भट्टभास्कर-टीका

10इदानीं अग्नेरपि संयमनात् संयत्त्वमासामिति प्रतिपादयितुमाह - यद्वा इत्यादि ॥ अग्नेर्यद्रूपमसंयतं तस्य यजमानस्य असुवर्ग्यं । ‘गोद्व्यचः’ इति यत् । अग्निश्चायं स्वर्गनिमित्ततया चीयते । तस्मात्संयदुपधानेन एनं संयतं कृत्वा स्वर्ग्यमेवाकः करोति । छान्दसे लुङि ‘मन्त्रे घस’ इति च्लेर्लुक् ॥

मूलम् (संयुक्तम्)

वयो॑भिरे॒वाया॒नव॑ रु॒न्द्धेऽयै॒र्वयाँ॑सि

विश्वास-प्रस्तुतिः

वयो॑भिर् ए॒वाया॒नव॑ रु॒न्धे ।
अयै॒र्वयाँ॑सि ।

मूलम्

वयो॑भिर् ए॒वाया॒नव॑ रु॒न्धे ।
अयै॒र्वयाँ॑सि ।

भट्टभास्कर-टीका

11वयोभिरेवेति ॥ अव्यादीनि वयांसि । अष्टादशमास्यं वयस्त्र्यविः । कृतदीनि युगाख्याः । उभयतोऽपि कालावयवोपादानं किमर्थं इति पर्यनुयोगावसरे उभयोपादानप्रयोजनं अनेनाह – वयोविशेषनिमित्तको युगविशेषजन्मलाभः युगविशेषस्य लाभे भवति । तस्मात् उभयसिद्ध्यर्थं उभयोपादानमिति भावः ॥

मूलम् (संयुक्तम्)

स॒र्वतो॑ वायु॒मती॑र्भवन्ति॒ तस्मा॑द॒यँ स॒र्वतᳶ॑ पवते ॥ [60]

विश्वास-प्रस्तुतिः

स॒र्वतो॑ वायु॒मती॑र्भवन्ति॒ तस्मा॑द॒यँ स॒र्वतᳶ॑ पवते ॥ [60]

मूलम्

स॒र्वतो॑ वायु॒मती॑र्भवन्ति॒ तस्मा॑द॒यँ स॒र्वतᳶ॑ पवते ॥ [60]

भट्टभास्कर-टीका

12सर्वत्र इति ॥ सर्वासु दिक्षु पुरोवातादिवायुविशेषवत्यो भवन्ति । ‘ह्रस्वनुङ्ग्भाम्’ इति मतुप उदात्तत्वम् । तस्मादयं वायुः सर्वाभ्यो दिग्भ्यः पवते पवमान आगच्छति ॥

इति पञ्चमे द्वितीये दशमोनुवाकः ॥